Shanti Japam
1. गणपत्यथर्व-शीर्.षोपनिषत्
ॐ भ॒द्रं दधा॑तु ।
ॐ । भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र् -यज॑त्राः ।
स्थि॒रै-रङ्गै᳚-स्तुष्ठु॒वाꣳ स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ ँयदायुः॑ ।
स्व॒स्तिन॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्तिनः पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति-न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्तिनो॒ बृह॒स्पति॑र् दधातु ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
(ॐ) अथ गणपत्यथर्वशीर्.षं ँव्या᳚ख्यास्स्या॒मः ।
आं नम॑स्ते ग॒णप॑तये । त्वमे॒व प्र॒त्यक्षं॒ तत्त्व॑मसि । त्वमे॒व के॒वलं॒ कर्त्ता॑ऽसि । त्वमे॒व के॒वलं॒ धर्त्ता॑ऽसि । त्वमे॒व के॒वलं॒ हर्त्ता॑ऽसि । त्वमेव सर्वं खल्विदं॑ ब्रह्मा॒सि ।
त्वं साक्षा-दात्मा॑ऽसि नि॒त्यं ॥ 1
ऋ॑तं ँव॒च्मि । स॑त्यं ँव॒च्मि ॥ 2
अव॑त्वं॒ मां । अव॑व॒क्तारं᳚ । अव॑ श्रो॒तारं᳚ । अव॑दा॒तारं᳚ । अव॑धा॒तारं᳚ ।
अवानूचा-नम॑वशि॒ष्यं । अव॑प॒श्चात्ता᳚त् ।
अव॑ पु॒रस्ता᳚त् । अवोत्त॒रात्ता᳚त् । अव॑दक्षि॒णात्ता᳚त् । अव॑ चो॒द्र्ध्वात्ता᳚त् । अवाध॒रात्ता᳚त् ।
सर्वतोमां पाहि पाहि॑ सम॒न्तात् ॥ 3
त्वंं ँवाङ्मयस्त्वं॑ चिन्म॒यः ।
त्वमानन्द-मयस्त्वं॑ ब्रह्म॒मयः ।
त्वं सच्चिदानन्दा-ऽद्वि॑तीयो॒ऽसि । त्वंप्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वं ज्ञानमयो विज्ञान॑मयो॒ऽसि ॥ 4
सर्वं जगदिदं त्व॑त्तो जा॒यते । सर्वं जगदिदं त्व॑त्तस्ति॒ष्ठति । सर्वं जगदिद त्वयि लय॑मे॒ष्यति । सर्वं जगदिदं त्वयि॑ प्रत्ये॒ति ।
त्वं भूमि-रापो-ऽनलो-ऽनि॑लो न॒भः । त्वं चत्वारि वा᳚क्पदा॒नि ॥ 5
त्वं गु॒णत्र॑याती॒तः । त्वम॒वस्थात्र॑याती॒तः । त्वं दे॒हत्र॑याती॒तः । त्वं का॒लत्र॑याती॒तः । त्वं मूलाधार-स्थितो॑ऽसि नि॒त्यं । त्वं शक्तित्र॑यात्म॒कः । त्वां ँयोगिनो ध्याय॑न्ति नि॒त्यं ।
त्वं ब्रह्मा त्वं ँविष्णुस्त्वं-रुद्रस्त्व-मिन्द्रस्त्व-मग्निस्त्वं ँ-वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म॒ भूर्भुव॒स्स्वरों ॥ 6
ग॒णादिं᳚ (ग॒णादिं॑) पूर्व॑-मुच्चा॒र्य॒ व॒र्णादिं᳚ (व॒र्णादिं॑) तदन॒न्तरं ।
अनुस्वारः प॑रत॒रः । अर्धे᳚न्दु-ल॒सितं । तारे॑ण ऋ॒द्धं । एतत्तव-मनु॑स्वरू॒पं । गकारः पू᳚र्वरू॒पं । अकारो मद्ध्य॑म रू॒पं । अनुस्वार श्चा᳚न्त्य रू॒पं । बिन्दु रुत्त॑र रू॒पं । नादः॑ सन्धा॒नं । सꣳहि॑ता स॒न्धिः ।
सैषा गणे॑श वि॒द्या । गण॑क ऋ॒षिः । निचृद्गाय॑त्री च्छ॒न्दः ।
(श्री महा) गणपतिर्-दव॒ता । ॥ 7
ॐ गं गणपतये॒ नमः॑ ॥
एक द॒न्ताय॑ वि॒द्महे॑ वक्र तु॒ण्डाय॑ धीमहि ।
तन्नो॑ दन्तिः (दन्ती) प्रचो॒दया᳚त्॒ (3 times) ॥ 8
ए॒क॒ द॒न्तं च॑तुर्.ह॒स्तं॒ पा॒श-म॑ङ्कुश॒ धारि॑णं । रद॑ञ्च॒ वर॑दं-ह॒स्तै॒र् बि॒भ्राणं॑ मूष॒कध्व॑जं । रक्तं ँल॒बोंद॑रं शू॒र्प॒क॒र्णकं॑ रक्त॒वास॑सं ।
रक्त॑ग॒न्धा-नु॑लिप्ता॒ङ्गं॒ र॒क्तपु॑ष्पैः सु॒पूजि॑तं । भक्ता॑नु॒कंपि॑नं दे॒वं॒ ज॒गत्का॑रण॒-मच्यु॑तं । आवि॑र्भू॒तंच॑ सृ॒ष्ट्या॒॒दौ॒ प्र॒कृतेः᳚ पुरु॒षात्प॑रं ।
एवं॑ ध्या॒यति॑यो नि॒त्यं॒ स योगी॑ योगि॒नां ँव॑रः ॥ 9
नमो व्रातपतये , नमो गणपतये , नमः प्रमथपतये, नमस्ते॑ऽस्तु लंबोदराय , एकदन्ताय ,विघ्न(वि)नाशिने , शिवसुताय, श्रीवरदमूर्त्तये॒ नमः (नमो॒ नमः॑) ॥ 10
एतदथर्वशीर्.षं ँयोऽधी॒ते । स ब्रह्मभूया॑य क॒ल्पते । स सर्व विघ्नै᳚र् -नबा॒ध्यते । स सर्वतः सुख॑मेध॒ते । स पञ्च महा पापा᳚त् प्रमु॒च्यते ।
सा॒य-म॑धीया॒नो॒ दिवसकृतं पापं॑ नाश॒यति । प्रा॒तर॑-धीया॒नो॒ रात्रिकृतं पापं॑ नाश॒यति ।
सा॒यं प्रा॒तः प्र॑युञ्जा॒नो॒ पापोऽपा॑पो भ॒वति ।
सर्वत्राधीयानो-ऽपवि॑घ्नो भ॒वति । धर्मार्त्थ-काम-मोक्षं॑ च वि॒न्दति । इद-मथर्वशीर्.ष-मशिष्याय॑ न दे॒यं । यो यदि मो॑हाद् दा॒स्यति ।
स पापी॑यान् भ॒वति । सहस्रावर्तनाद्यं ँय काम॑मधी॒ते । तं तमने॑न सा॒धयेत् ॥ 11
अनेन गणपति-म॑भिषि॒ञ्चति । सवा᳚ग्मी भ॒वति ।
चतुर्त्थ्या मन॑श्नन् ज॒पति । स विद्या॑वान् भ॒वति । इत्यथर्व॑ण-वा॒क्यं । ब्रह्माद्यावर॑णं ँवि॒द्यात् ।
न बिभेति कदा॑चने॒ति ॥ 12
यो दूर्वाङ्कु॑रैर्-य॒जति । स वैश्रवणोप॑मो भ॒वति ।
यो ला॑जैर् -य॒जति । स यशो॑वान् भ॒वति । स मेधा॑वान् भ॒वति । यो मोदक-सहस्रे॑ण य॒जति ।
स वाञ्छित-फलम॑वाप्नो॒ति । यः साज्य समि॑द्भिर् -य॒जति ।
स सर्वं ँलभते स स॑र्वं ँल॒भते ॥ 13
अष्टौ ब्राह्मणान् सम्यग्ग्रा॑हयि॒त्वा । सूर्य वर्च॑स्वी भ॒वति । सूय ग्रहे म॑हान॒द्यां॒ प्रतिमा सन्निधौ॑ वा ज॒प्त्वा । सिद्ध म॑न्त्रो भ॒वति । महा विघ्ना᳚त् प्रमु॒च्यते । महा दोषा᳚त् प्रमु॒च्यते । महा प्रत्यवाया᳚त् प्रमु॒च्यते । महा पापा᳚त् प्रमु॒च्यते ।
स सर्व विद्भवति स सर्व॑ विद्भ॒वति ।
य ए॒वंं ँवेद॑ । इत्यु॑प॒निष॑त् ॥ 14
स॒हना॑ववतु । स॒हनौ॑भुनक्तु । स॒हवी॒र्यं॑ करवावहै । त॒ज॒स्विना॒ वधी॑तमस्तु॒मा वि॑द्विषा॒वहै᳚ ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥
ॐ भ॒द्रं दधा॑तु । ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभिर् यज॑त्राः । स्थि॒रै-रङ्गै᳚-स्तुष्ठु॒वाꣳ स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं ँयदायुः॑ । स्व॒स्तिन॒ इन्द्रो वृ॒द्धश्र॑वाः । स्व॒स्तिनः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति-न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।
स्व॒स्तिनो॒ बृह॒स्पति॑र् दधातु ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
2. वेदादया
ॐ । अ॒ग्निमी᳚ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विजं᳚ । होता᳚रं रत्न॒ धात॑मं ।
इ॒षेत्वो॒र्जेत्वा॑ वा॒यव॑स्स्थो पा॒यव॑स्स्थ दे॒वो व॑स्सवि॒ता प्रार्प॑यतु॒
श्रेष्ठ॑तमाय॒ कर्म॑णे ।
अग्न॒ आया॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये । निहोता॑ सथ्सि ब॒र्.हिषि॑ ।
शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚ । शं ँयोर॒भि स्र॑वन्तुनः ॥ 1
कृ॒णु॒ष्व पाजः॒ प्रसि॑ति॒न्न पृ॒थ्वींं ँया॒हि
राजे॒ वाम॑वा॒ꣳ॒ इभे॑ न । त्रृ॒ष्वीमनु॒ प्रसि॑तिं-द्रूणा॒नोऽस्ता॑ऽसि॒ विद्ध्य॑ र॒क्षस॒ स्तपि॑ष्ठैः ।
तव॑भ्र॒मास॑ आशु॒या प॑तं॒त्यनु॑ स्पृश-धृष॒ता शोशु॑चानः । तपूᳺ॑ष्यग्ने जु॒ह्वा॑पतं॒-गानस॑न्दितो॒ विसृ॑ज॒ विष्व॑ गु॒ल्काः ।
प्रति॒स्पशो॒ विसृ॑ज॒-तूर्णि॑ तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः ॥ 2
यो नो॑ दू॒रे अ॒घशꣳ॑सो॒यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्.षीत् । उद॑ग्नेतिष्ठ॒ प्रत्या त॑नुष्व॒न्य॑-मित्राꣳ॑ ओषता-त्तिग्महेते ।
यो नो॒ अरा॑तिꣳ समिधान च॒क्रे नी॒चातंध॑क्ष्यत॒ सन्न शुष्कं᳚ । ऊ॒द्र्ध्वो भ॑व॒ प्रति॑वि॒द्ध्या-द्ध्य॒स्मदा॒ विष्कृ॑णुष्व॒ दैव्या᳚न्यग्ने ।
अव॑स्थि॒रा त॑नुहि यातु॒ जूनां᳚ जा॒मिमजा॑मिं॒ प्रमृ॑णीहि॒ शत्रून्॑ ॥ 3
स ते॑ जानाति सुम॒तिं ँय॑विष्ठ॒य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् । विश्वा᳚न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो विदुरो॑ अ॒भिद्यौ᳚त् । सेद॑ग्ने अस्तु सु॒भग॑ स्सु॒दानु॒र्-यस्त्वा॒ नित्ये॑न ह॒विषा॒य
उ॒क्थैः । पिप्री॑षति॒स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒-साऽस॑दि॒ष्टिः । अर्चा॑मि ते सुम॒तिं घोष्य॒र्वाख्-सन्ते॑ वा॒ वा ता॑ जरता मि॒यंगीः ॥ 4
स्वश्वा᳚स्त्वा सु॒रथा॑ मर्जये-मा॒स्मे क्ष॒त्राणि॑ धारये॒र-नु॒द्यून् । इ॒हत्वा॒ भूर्याच॑रे॒ दुप॒त्मन्-दोषा॑वस्तर् दीदि॒वाꣳ स॒मनु॒द्यून् ।
क्रीड॑न्तस्त्वा सु॒मन॑-सस्सपेमा॒भि द्यु॒म्ना त॑स्थि॒वाꣳसो॒ जना॑नां । यस्त्वा॒-स्वश्व॑स्सु-हिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न । तस्य॑ त्रा॒ता-भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्य मा॑नु॒षग्
जुजो॑षत् ॥ 5
म॒होरु॑जामि ब॒न्धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒द-न्वि॑याय । त्वन्नो॑ अ॒स्य वच॑स-श्चिकिद्धि॒ होत॑र्यविष्ठ सुक्रतो॒ दमू॑नाः ।
अस्व॑प्न जस्त॒रण॑य स्सु॒शेवा॒ अत॑न्द्रा सोऽवृ॒का अश्र॑मिष्ठाः । तेपा॒यवः॑ स॒द्ध्रिय॑ञ्चो नि॒षद्याग्ने॒ तव॑नः पान्त्वमूर ।
ये पा॒यवो॑ मामते॒यंते॑ अग्ने॒ पश्य॑न्तो अ॒न्धंदु॑रि॒ताद र॑क्षन्न् ।
र॒रक्ष॒तान्थ् सु॒कृतो॑ वि॒श्ववे॑दा॒ दिफ्स॑न्त॒ इद्रि॒पवो॒ नाह॑ देभुः ॥ 6
त्वया॑ व॒यꣳ स॑ध॒न्य॑-स्त्वो-ता॒स्तव॒ प्रणी᳚त्य श्याम॒ वाजान्॑ । उ॒भा शꣳ सा॑ सूदय सत्यताते-ऽनुष्ठु॒या कृ॑णुह्य-ह्रयाण । अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒स्तोमꣳ॑ श॒स्यमा॑नं गृभाय । दहा॒शसो॑ र॒क्षसः॑ पा॒ह्य॑स्मान् दृ॒हो नि॒दो मि॑त्रमहो अव॒द्यात् । र॒क्षो॒हणं॑ ँवा॒जिन॒माजि॑ घर्मि मि॒त्रं प्रथि॑ष्ठ॒-मुप॑यामि॒ शर्म॑ । शिशा॑नो अ॒ग्निः क्रतु॑भि॒-स्समि॑द्ध॒-स्सनो॒ दिवा॒ सरि॒षः पा॑तु॒नक्तं᳚ ॥ 7
विज्योति॑षा बृह॒ता भा᳚त्य॒ग्निरा॒विर् -विश्वा॑नि कृणुते महि॒त्वा ।
प्रादे॑वीर् -मा॒या स्स॑हते-दु॒रेवा॒ श्शिशी॑ते॒ शृगें॒ रक्ष॑से वि॒निक्षे᳚ ।
उ॒त स्वा॒नासो॑ दि॒विष॑न्त्व॒ग्ने स्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒ वा उ॑ ।
मदे॑ चिदस्य॒ प्ररु॑जन्ति॒ भामा॒ नव॑रन्ते परि॒बाधो॒ अदे॑वीः ॥ 8
अग्ने॑ यशस्वि॒न॒. यश॑से॒ मम॑र्प॒येन्द्रा॑वती॒-मप॑चिती मि॒हाव॑ह । अ॒यं मू॒र्द्धा प॑रमे॒ष्ठी सु॒वर्चा᳚-स्समा॒नाना॑-मुत्त॒म श्लो॑को अस्तु ।
भ॒द्रं पश्य॑न्त॒ उप॑सेदु॒रग्रे॒ तपो॑दी॒क्षा-मृष॑य-स्सुव॒र्विदः॑ । ततः॑ क्ष॒त्रं बल॒मोज॑श्च जा॒तं तद॒स्मै दे॒वा अ॒भिसन्न॑-मन्तु ।
धा॒ता वि॑धा॒ता प॑र॒मोत स॒न्दृक् प्र॒जाप॑तिः परमे॒ष्ठी वि॒राजा᳚ । स्तोमा॒-श्चन्दाꣳ॑सि नि॒विदो॑म आहुरे॒तस्मै॑ रा॒ष्ट्रम॒भि-सन्न॑माम ।
अ॒भ्याव॑र्त्तद्ध्व॒-मुप॒मेत॑ सा॒कम॒यꣳ शा॒स्ता-ऽधि॑पतिर्वो अस्तु । अ॒स्य वि॒ज्ञान॒-मनु॒सꣳ-र॑भद्ध्वमि॒मं प॒श्चादनु॑ जीवाथ॒ सर्वे᳚ ॥
3. पवमान सूक्तं TS 5.6.1.1
ॐ ॥ हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ ।
अ॒ग्निं ँया गर्भं॑दधि॒रे विरू॑पा॒स्ता न॒ आप॒श्शᳺ स्यो॒ना भ॑वन्तु ॥
यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मद्ध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒न् जना॑नां ।
म॒धु॒श्चुत॒-श्शुच॑यो॒याः पा॑व॒कास्ता न॒ आप॒श्शᳺ स्यो॒ना भ॑वन्तु ॥
यासां᳚ दे॒वादि॒वि कृ॒ण्वन्ति॑ भ॒क्षं ँया अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति ।
याः पृ॑थि॒वीं पय॑सो॒न्दन्ति॑ शु॒क्रास्ता न॒ आप॒श्शᳺ स्यो॒ना भ॑वन्तु ॥
शि॒वेन॑ मा॒ चक्षु॑षा पश्यताप श्शि॒वया॑ त॒नुवो-प॑स्पृशत॒ त्वच॑में ।
सर्वाꣳ॑ अ॒ग्नीꣳ र॑फ्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ निध॑त्त ॥
(Additional chanting for Shanti Japam -TS 5.6.1.2)
यद॒दस्सं॑ प्रय॒॒तीरहा॒॒ वन॑दता-ह॒ते ।
तस्मा॒दा न॒द्यो॑ नाम॑स्थ॒तावो॒ नामा॑नि सिन्धवः ।
यत् प्रेषि॑ता॒ वरु॑णेन॒ ताश्शीभꣳ॑ स॒मव॑ल्गत ।
तदा᳚प्नो॒-दिन्द्रो॑वो य॒ती-स्तस्मा॒-दापो॒ अनु॑ स्थन ।
अ॒प॒का॒मᳺ स्यन्द॑माना॒ अवी॑वरत वो॒ हिकं᳚ ।
इन्द्रो॑ व॒श्शक्ति॑भिर् देवी॒-स्तस्मा॒-द्वार्णाम॑वो हि॒तं ।
एको॑ दे॒वो अप्य॑तिष्ठ॒थ्-स्यन्द॑माना यथा व॒शं ।
उदा॑निषुर् -म॒हीरिति॒ तस्मा॑-दुद॒क-मु॑च्यते ।
आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर॒ग्नी-षोमौ॑ बिभ्र॒त्याप॒ इत्ताः ।
ती॒व्रोरसो॑ मधु॒पृचा॑-मरङ्ग॒म आमा᳚ प्रा॒णेन॑ स॒हवर्च॑सा गन्न् ।
आदित्प॑श्या-म्यु॒तवा॑ श्रृणो॒-म्यामा॒ घोषो॑ गच्छति॒ वाङ्न॑ आसां ।
मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्.हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं ँ य॒दावः॑ ।
आपो॒ हिष्ठा म॑यो॒ भुव॒ स्तान॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ।
योवः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजय ते॒हनः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ।
तस्मा॒ अरङ्ग॑मामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ।
दि॒वि श्र॑यस्वा॒न्तरि॑क्षे यतस्व पृथि॒व्या संभ॑व ब्रह्मवर्च॒स-म॑सि
ब्रह्मवर्च॒साय॑ त्वा ॥ (Additional chanting Ends)
TB 1.4.8.1 (for Para No. 1 to 6)
पव॑मान॒-स्सुव॒र्जनः॑ । प॒वित्रे॑ण॒ विच॑र्.षणिः ।
यः पोता॒ स पु॑नातु मा । पु॒नन्तु॑ मा देवज॒नाः । पु॒नन्तु॒ मन॑ वोधि॒या । पु॒नन्तु॒ विश्व॑ आ॒यवः॑ । जात॑वेदः प॒वित्र॑वत् । प॒वित्रे॑ण पुनाहि मा ।
शु॒क्रेण॑ देव॒ दीद्य॑त् । अग्ने॒ क्रत्वा॒-क्रतू॒ꣳ॒ रनु॑ ॥ 1
यत्ते॑ प॒वित्र॑-म॒र्चिषि॑ । अग्ने॒ वित॑त-मन्त॒रा । ब्रह्म॒ तेन॑ पुनीमहे । उ॒भाभ्यां᳚ देव सवितः । प॒वित्रे॑ण स॒वेन॑ च । इ॒दं ब्रह्म॑ पुनीमहे ।
वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा᳚त् । यस्यै॑ ब॒ह्वी-स्त॒नुवो॑ वी॒तपृ॑ष्ठाः । तया॒ मद॑न्त-स्सध॒माद्ये॑षु । व॒यᳺ स्या॑म॒ पत॑योरयी॒णां ॥ 2
वै॒श्वा॒न॒रो र॒श्मिभि॑र्मा पुनातु ।
वातः॑ प्रा॒णेने॑ षि॒रो म॑यो॒ भूः ।
द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः । ऋ॒ताव॑री य॒ज्ञिये॑ मा पुनीतां । बृ॒हद्भि॑-स्सवि त॒स्तृभिः॑ । वर्.षि॑ष्ठैर् -देव॒मन्म॑भिः । अग्ने॒ दक्षैः᳚ पुनाहिमा ।
येन॑ दे॒वा अपु॑नत । ये नापो॑ दि॒व्यङ्कशः॑ ।
तेन॑ दि॒व्येन॒ ब्रह्म॑णा ॥ 3
इ॒दं ब्रह्म॑ पुनीमहे । यः पा॑वमा॒नी-र॒द्धयेति॑ ।
ऋषि॑भि॒-स्संभृ॑त॒ꣳ॒ रसं᳚ । सर्व॒ꣳ॒ स पू॒तम॑श्नाति । स्व॒दि॒तं मा॑त॒रिश्व॑ना । पा॒व॒मा॒नीर् यो अ॒॒द्धयेति॑ । ऋषि॑भि॒-स्संभृ॑त॒ꣳ॒ रसं᳚ । तस्मै॒ सर॑स्वती दुहे । क्षी॒रꣳ स॒र्पि र्मधू॑द॒कं । पा॒व॒मा॒नी-स्स्व॒स्त्यय॑नीः ॥ 4
सु॒दुघा॒हि पय॑स्वतीः । ऋषि॑भि॒-स्संभृ॑तो॒ रसः॑ ।
ब्रा॒ह्म॒णेष्व॒-मृतꣳ॑ हि॒तं । पा॒व॒मा॒नीर् दि॑शन्तु नः । इ॒मंं ँलो॒कमथो॑ अ॒मुं । कामा॒न्थ्-सम॑द्र्ध्यन्तु नः । दे॒वीर्दे॒वैः स॒मा भृ॑ताः । पा॒व॒मा॒नी-स्स्व॒स्त्यय॑नीः । सु॒दुघा॒हि घृ॑त॒श्चुतः॑ । ऋषि॑भि॒-स्संभृ॑तो॒ रसः॑ ॥ 5
ब्रा॒ह्म॒णेष्व॒-मृतꣳ॑ हि॒तं । येन॑ दे॒वाः प॒वित्रे॑ण । आ॒त्मानं॑ पु॒नते॒ सदा᳚ । तेन॑ स॒हस्र॑ धारेण । पा॒व॒मा॒न्यः पु॑नन्तु मा । प्रा॒जा॒प॒त्यं प॒वित्रं᳚ । श॒तोद्या॑मꣳ हिर॒ण्मयं᳚ ।
तेन॑ ब्रह्म॒ विदो॑ व॒यं । पू॒तं ब्रह्म॑ पुनीमहे । इन्द्र॑-स्सुनी॒ती स॒ह मा॑ पुनातु ।
सोम॑-स्स्व॒स्त्या वरु॑ण-स्स॒मीच्या᳚ ।
य॒मो राजा᳚ प्रमृ॒णाभिः॑ पुनातुमा ।
जा॒तवे॑दा मो॒र्जय॑न्त्या पुनातु । (ॐ) भूर्भुव॒स्सुवः॑ ॥ 6
TB 3.5.11.1
तच्छं॒ ँयोरा वृ॑णीमहे । गा॒तुं य~ं॒ज्ञाय॑ । गा॒तुं ँय॒ज्ञप॑तये । दैवी᳚ स्व॒स्ति-र॑स्तुनः । स्व॒स्तिर् -मानु॑षेभ्यः । ऊ॒द्र्ध्वं जि॑गातु भेष॒जं ।
शन्नो॑ अस्तु द्वि॒पदे᳚ । शंचतु॑ष्पदे ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
4. वास्तु मन्त्र: TS 3.4.10
वास्तो᳚ष्पते॒ प्रति॑जानी ह्य॒स्मान्थ् स्वा॑वे॒शो अ॑नमी॒वो भ॑वानः । यत्त्वे म॑हे॒प्रति॒ तन्नो॑ जुषस्व॒ शन्न॑ एधि द्वि॒पदे॒ शंचतु॑ष्पदे । वास्तो᳚ष्पते श॒ग्मया॑ स॒ꣳ॒सदा॑ ते सक्षी॒म हि॑र॒ण्वया॑ गातु॒मत्या᳚ ।
आ वः॒ क्षेम॑ उ॒तयोगे॒ वर॑न्नो यू॒यं पा॑त स्व॒स्तिभि॒-स्सदा॑ नः । APMB (EAK) 2.5.19
वास्तो᳚ष्पते प्र॒तर॑णो न एधि॒ गोभि॒रश्वे॑-भिरिन्दो ।
अ॒जरा॑ सस्तेस॒ख्ये स्या॑म पि॒तेव॑ पु॒त्रान् प्रति॑नो जुषस्व । अ॒मी॒व॒हा वास्तो᳚ष्पते॒ विश्वा॑ रू॒पाण्या॑ वि॒शन्न् । सखा॑ सु॒शेव॑ एधिनः ।
शि॒व॒ꣳ॒ शि॒वं । भूर्भुव॒स्सुवो॒ भूर्भुव॒स्सुवो॒ भूर्भुव॒स्सुवः॑ ॥
5. वरुण सूक्तं TS 1.5.11.3
उदु॑त्त॒मं ँव॑रुण॒ पाश॑म॒स्म-दवा॑ध॒मं ँविम॑द्ध्य॒मᳺ श्र॑थाय ।
अथा॑व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥ 1
(TS 1.2.8.1 )
अस्त॑भ्ना॒द्द्या-मृ॑ष॒भो अ॒न्तरि॑क्ष॒-ममि॑मीत-वरि॒माणं॑ पृथि॒व्या आऽसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड् विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ॥ 2
(TS 3.4.11.6)
यत्किञ्चे॒दं ँ व॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒हं म॑नु॒ष्या᳚-श्चरा॑मसि ।
अचि॑त्ती॒-यत्तव॒-धर्मा॑ युयोपि॒म-मान॒स्तस्मा॒ देन॑सो देव रीरिषः ॥ 3
(TS 3.4.11.6)
कि॒त॒वासो॒ यद्रि॑रि॒पुर्न दी॒वि यद्वा॑ घा स॒त्य-मु॒तयन्न वि॒द्म ।
सर्वा॒ताविष्य॑ शिथि॒रेव॑ दे॒वाथा॑ते-स्याम वरुण प्रि॒यासः॑ ॥ 4
(TS 1.5.11.3)
अव॑ते॒हेडो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञे-भि॑रीमहे ह॒विर्भिः॑ ।
क्षय॑न्न॒ स्मभ्य॑ मसुर-प्रचेतो॒ राज॒न्नेनाꣳ॑सि शिश्रथः कृ॒तानि॑ ॥ 5
(T.S. 2.1.11.6)
तत्वा॑यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒ स्तदाशा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शꣳ स॒ मा न॒ आयुः॒ प्रमो॑षीः ॥ 6
वरुण गायत्री
जुंभकाय॑ वि॒द्महे॑ पाशह॒स्ताय॑ धीमहि । तन्नो॑ वरुणः प्रचो॒दया᳚त् ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
6. ब्रह्म सूक्तं TB 2.8.8.8
ब्रह्म॑जज्ञा॒॒नं प्र॑थ॒॒मं पु॒॒रस्ता॒द् विसी॑म॒॒त-स्सु॒॒रुचो॑ वे॒॒न आ॑वः ।
स बु॒द्ध्निया॑ उप॒॒मा अ॑स्य वि॒॒ष्ठाः स॒तश्च॒ योनि॒-मस॑तश्च॒ विवः॑ । 1
पि॒ता-वि॒राजा॑ मृष॒भो-र॑यी॒णा-म॒न्तरि॑क्षं ँवि॒श्वरू॑प॒ आवि॑वेश ।
तम॒र्कै-र॒भ्य॑र्चन्ति व॒थ्सं ब्रह्म॒ सन्तं॒ ब्रह्म॑णा व॒र्द्धय॑न्तः । 2
ब्रह्म॑ दे॒वान॑ जनय॒द् ब्रह्म॒ विश्व॑मि॒दं जग॑त् ।
ब्रह्म॑णः क्ष॒त्रं निर्मि॑तं॒ ब्रह्म॑ ब्राह्म॒ण आ॒त्मना᳚ । 3
अ॒न्तर॑स्मि-न्नि॒मे लो॒का अ॒न्तर्विश्व॑मि॒दं जग॑त् ।
ब्रह्मै॒व भू॒तानां॒ ज्येष्ठं॒ तेन॒ को॑ऽर्.हति॒ स्पर्द्धि॑तुं । 4
ब्रह्म॑न् दे॒वा स्त्रय॑स्त्रिꣳश॒द् ब्रह्म॑-न्निन्द्र प्रजाप॒ती ।
ब्रह्म॑न्. ह॒ विश्वा॑ भू॒तानि॑ ना॒वीवा॒न्त-स्स॒माहि॑ता । 5
चत॑स्र॒ आशाः॒ प्रच॑रन्त्व॒ग्नय॑ इ॒मन्नो॑ य॒ज्ञन्न॑यतु प्रजा॒नन्न् ।
घृ॒तं पिन्व॑न्न॒-जरꣳ॑ सु॒वीरं॒ ब्रह्म॑ स॒मिद् भ॑व॒त्या-हु॑तीनां । 6
(ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥)
7. विष्णु सूक्तं
विष्णो॒र्नुकं॑ ँवी॒र्या॑णि॒ प्रवो॑चं॒ ँयः पार्त्थि॑वानि विम॒मे राजꣳ॑सि॒
यो अस्क॑भाय॒-दुत्त॑रꣳ स॒धस्थं॑ विचक्रमा॒ण-स्त्रे॒धोरु॑-गा॒यः ॥ 1
Optional (TS 1.2.13.3)
विष्णो॑-र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॑सि॒ विष्णो॒-श्नप्त्रे᳚स्थो॒ विष्णो॒-
स्स्यूर॑सि॒ विष्णो᳚ र्धृ॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥ 2
(TB 2.4.6.2)
तद॑स्य प्रि॒य-म॒भिपाथो॑ अश्यां । नरो॒यत्र॑ देव॒यवो॒ मद॑न्ति ।
उ॒रु॒क्र॒मस्य॒ सहि बन्धु॑रि॒त्था । विष्णोः᳚ प॒दे प॑र॒मे मद्ध्व॒ उथ्सः॑ ॥ 3
(TB 2.4.3.4)
प्रतद्विष्णु॑-स्स्तवते वी॒र्या॑य । मृ॒गोन भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः ।
यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु । अधि॑क्षि॒यन्ति॒ भुव॑नानि॒ विश्वा᳚ ॥ 4
(TB 2.8.3.2)
प॒रो मात्र॑या त॒नुवा॑ वृधान । नते॑ महि॒त्वमन्-व॑श्नुवन्ति ।
उ॒भेते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑-देव॒त्वं । प॒र॒मस्य॑ विथ्से ॥ 5
(TB 2.4.3.5)
विच॑क्रमे पृथि॒वी मे॒ष ए॒तां ।
क्षेत्रा॑य॒ विष्णु॒र् -मनु॑षे दश॒स्यन्न् ।
धृ॒वासो॑ अस्य की॒रयो॒ जना॑सः ।
उ॒रु॒क्षि॒तिꣳ सु॒जनि॑माचकार ॥ 6
त्रिर्दे॒वः पृ॑थि॒वी मे॒ष ए॒तां ।
विच॑क्रमे श॒तर्च॑सं महि॒त्वा ।
प्रविष्णु॑रस्तु त॒वस॒स्तवी॑यान् । त्वे॒षᳺ ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥ 7
(ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥)
विष्णो॒र्नुकं॑ ँवी॒र्या॑णि॒ प्रवो॑चं॒ ँयः पार्त्थि॑वानि विम॒मे राजꣳ॑सि॒
यो अस्क॑भाय॒-दुत्त॑रꣳ स॒धस्थं॑ विचक्रमा॒ण-स्त्रे॒धोरु॑-गा॒यः ॥ 1
Optional
विष्णो॑-र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॑सि॒ विष्णो॒-श्नप्त्रे᳚स्थो॒ विष्णो॒-स्स्यूर॑सि॒ विष्णो᳚ र्धृ॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥ 2
तद॑स्य प्रि॒यम॒भि पाथो॑ अश्यां॒ नरो॒ यत्र॑ देव॒ यवो॒ मद॑न्ति ।
उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था विष्णोः᳚ प॒दे प॑र॒मे मद्ध्व॒ उथ्सः॑ । 3
प्रतद् विष्णुः॑ स्तवते वी॒र्या॑य मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः ।
यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णे॒-ष्वधि॑ क्षि॒यन्ति॒ भुव॑नानि॒ विश्वा᳚ । 4
प॒रो मात्र॑या त॒नुवा॑ वृधान॒ न ते॑ महि॒त्वमन्व॑श्नुवन्ति ।
उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒ त्वं प॑र॒मस्य॑ विथ्से । 5
विच॑क्रमे पृथि॒वीमे॒ष ए॒तां क्षेत्रा॑य॒ विष्णु॒र् मनु॑षे दश॒स्यन्न् ।
धृ॒वासो॑ अस्य की॒रयो॒ जना॑स उरुक्षि॒तिꣳ सु॒जनि॑मा चकार । 6
त्रिर् दे॒वः पृ॑थि॒वीमे॒ष ए॒तां ँविच॑क्रमे श॒तर्च॑ संमहि॒त्वा ।
प्रविष्णु॑रस्तु त॒वस॒ स्तवी॑यान् त्वे॒षᳺ ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ । 7
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
8. रुद्र सूक्तं TS 4.5.10.4
परि॑णो रु॒द्रस्य॑ हे॒तिर् वृ॑णक्तु॒ परि॑त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।
अव॑स्थि॒रा म॒घव॑द्भ्य-स्तनुष्व॒ मीढ्व॑-स्तो॒काय॒ तन॑याय मृडय ॥ 1
(TS.4.5.10.3)
स्तु॒हि शृ॒तं ग॑र्त्त॒सदं॒ ँयुवा॑नं मृ॒गन्नभी॒म-मु॑पह॒त्नु-मु॒ग्रं ।
मृ॒डाज॑रि॒त्रे रु॑द्र॒स्तवा॑नो अ॒न्यन्ते॑ अ॒स्म-न्निव॑पन्तु॒ सेनाः᳚ ॥ 2
(TS 4.5.10.4)
मीढु॑ष्टम॒ शिव॑तम शि॒वोनः सु॒मना॑ भव ।
प॒र॒मे वृ॒क्ष आयु॑ध न्नि॒धाय॒ कृत्तिं॒ ँवसा॑न॒ आच॑र॒ पिना॑कं॒ बिभ्र॒दाग॑हि ॥ 3
(TA 7.5.7)
अर्.ह॑न् बिभर्षि॒ साय॑कानि॒ धन्व॑ । अर्.ह॑न्नि॒ष्कं ँय॑ज॒तं ँवि॒श्वरू॑पं ।
अर्.ह॑न्नि॒दं द॑यसे॒ विश्व॒ मब्भु॑वं । नवा ओजी॑यो रुद्र॒त्वद॑स्ति ॥ 4
(अर्.ह॑न् बिभर्षि॒ साय॑कानि॒ धन्वार्.ह॑न्नि॒ष्कं ँय॑ज॒तंं ँवि॒श्वरू॑पं ।
अर्.ह॑न्नि॒दं द॑यसे॒ विश्व॒मब्भु॑वं॒ नवा ओजी॑यो रुद्र॒त्वद॑स्ति ॥ )
(TS 1.3.14.1)
त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वꣳ शर्द्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे ।
त्वं ँवातै॑ररु॒णैर् -या॑सि शंग॒यस्त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नुत्मना᳚ ॥ 5
(TS 1.3.14.1)
आवो॒ राजा॑न-मद्ध्व॒रस्य॑ रु॒द्रꣳ होता॑रꣳ सत्य॒ यज॒ꣳ॒ रोद॑स्योः ।
अ॒ग्निं पु॒रात॑न-यि॒त्नो-र॒चित्ता॒-द्धिर॑ण्य-रूप॒मव॑से कृणुद्ध्वं ॥ 6
(ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥)
9. दुर्गा सूक्तं TA .6.2.1
जा॒तवे॑दसे सुनवाम॒ सोम॑-मरातीय॒तो निद॑हाति॒ वेदः॑ ।
सनः॑ पर्.ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒तात्य॒ग्निः ॥ 1
ताम॒ग्निव॑र्णां॒ तप॑सा ज्वल॒न्तीं ँवै॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टां᳚ ।
दु॒र्गां दे॒वीꣳ शर॑णम॒हं प्रप॑द्ये सु॒तर॑सि तरसे॒ नमः॑ ॥ 2
अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान्थ् स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ ।
पूश्च॑ पृ॒थ्वी ब॑हु॒लान॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शं ँयोः ॥ 3
विश्वा॑नि नो दु॒र्गहा॑ जातवेदः॒ सिन्धु॒न्न ना॒वा दु॑रि॒ताति॑ पर्.षि ।
अग्ने॑ अत्रि॒वन् मन॑सा गृणा॒नो᳚ऽस्माकं॑ बोद्ध्यवि॒ता त॒नूनां᳚ ॥ 4
पृ॒त॒ना॒जित॒ꣳ॒ सह॑मान-मु॒ग्रम॒ग्निꣳ हु॑वेम पर॒माथ् स॒धस्था᳚त् ।
सनः॑ पर्.ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ क्षाम॑द्दे॒वो अति॑ दुरि॒तात्य॒ग्निः ॥ 5
(it is customary to chant Only upto Para 5 for Shanti Japam )
प्र॒त्नोषि॑क॒मीड्यो॑ अद्ध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सथ्सि॑ ।
स्वाञ्चा᳚ग्ने त॒नुवं॑ पि॒प्रय॑-स्वा॒स्मभ्य॑ञ्च॒ सौभ॑ग॒माय॑ जस्व ॥ 6
गोभि॒र्जुष्ट॑-म॒युजो॒ निषि॑क्तं॒ तवे᳚न्द्र विष्णो॒-रनु॒सञ्च॑रेम ।
नाक॑स्य पृ॒ष्ठम॒भि सं॒ ँवसा॑नो॒ वैष्ण॑वीं ँलो॒क इ॒ह मा॑दयन्तां ॥ 7
का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि । तन्नो॑ दुर्गिः प्रचो॒दया᳚त् ॥
(ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥)
10. श्री सूक्तं Rig Veda Khila Kaandam - 5.8.7.1 / (To be Chanted as per Rig Vedic Sruti; hence “Anunaasikam”,
“(gm)” and “(gg)” are not represented here as they are not used in Rig Vedic chants. In Some parts of India, when this Suktham is chanted in Krishna Yajur Veda “(gm)” , “(gg)” are added in para 9 and 12, whereas in other parts of India this full Suktham is chanted without “(gm)” , “(gg)”. )
हिर॑ण्यवर्णां॒ हरि॑णीं सुव॒र्ण र॑जत॒स्रजां ।
च॒न्द्रां॒ हि॒रण्म॑यीं ल॒क्ष्मीं॒ जा॒तवे॑दो म॒ आव॑ह ॥ 1
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मी-मन॑पगा॒मिनीं᳚ ।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒-गामश्वं॒ पुरु॑षान॒हं ॥ 2
अ॒श्व॒पू॒र्वां र॑थम॒द्ध्यां॒ ह॒स्तिना॑द-प्र॒बोधि॑नीं ।
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑दे॒वीर्जु॑षतां ॥ 3
कां॒ सो॒ऽस्मि॒तां हिर॑ण्य-प्राकारा-मा॒र्द्रां ज्वलं॑तीं तृ॒प्तां त॒र्पय॑न्तीं ।
प॒द्मे॒स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये श्रियं ॥ 4
च॒न्द्रां प्र॑भा॒सां यश॑सा॒-ज्वलं॑तीं॒ श्रिय॑लों॒के दे॒वजु॑ष्टा-मुदा॒रां ।
तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्ये ऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे ॥ 5
आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ॑ बि॒ल्वः॑ ।
तस्य॒फला॑नि॒ तप॒सा-नु॑दन्तु मा॒यान्त॑-रा॒याश्च॑ बा॒ह्या॑ अल॒क्ष्मीः ॥ 6
उपै॑तु॒ मां दे॑वस॒खः की॒र्त्तिश्च॒ मणि॑ना स॒ह ।
प्रा॒दु॒र्भू॒तोऽस्मि॑ रा॒ष्ट्रे॒ऽस्मिन् की॒र्त्ति-मृद्धिं॑-ददा॒तु मे ॥ 7
क्षुत्पि॑पा॒सा-म॑लां ज्ये॒ष्ठा॒म-ल॒क्ष्मीं-ना॑शया॒म्यहं ।
अभू॑ति॒-मस॑मृद्धिं॒च॒ स॒र्वां॒ निर्णु॑द मे॒ गृहात् ॥ 8
ग॒न्ध॒द्वा॒रां दु॑राध॒र्.षां॒ नि॒त्यपु॑ष्टां करी॒षिणीं᳚ ।
ई॒श्वरीं᳚ (Or ई॒श्वरीꣳ॑) सर्व॑ भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियं॑ ॥ 9
मन॑सः॒ काम॒माकू॑तिं-वा॒चः स॒त्य म॑शीमहि ।
प॒शू॒नां रू॒पमन्न॑स्य॒ मयि॒ श्रीः श्र॑यतां॒ यशः॑ ॥ 10
क॒र्दमे॑न प्र॑जा भू॒ता॒ म॒यि॒ संभ॑व क॒र्द॑म ।
श्रियं॑ वा॒सय॑मे कु॒ले॒ मा॒तरं॑ पद्म॒मालि॑नीं ॥ 11
आपः॑ सृजन्तु॒ स्निग्धा॑नि॒ चिक्ली॑त॒ वस॑मे॒ गृहे ।
निच॑दे॒वीं मा॒तरं॒ (Or मा॒तर॒ᳺ॒) श्रियं॑ वा॒सय॑मे कु॒ले ॥ 12
आ॒र्द्रां यः॒ करि॑णीं य॒ष्टिं॒ पि॒ङ्ग॒लां प॑द्म॒मालिनीं ।
च॒न्द्रां॒ हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आव॑ह ॥ 13
आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ सु॒व॒र्णां हे॑ममा॒लिनीं ।
सू॒र्यां॒ हिरण्म॑यीं ल॒क्ष्मीं॒-जात॑वेदो म॒ आव॑ह ॥ 14
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मी-मन॑पगा॒मिनीं᳚ ।
यस्यां॒ हिर॑ण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा᳚न् वि॒न्देयं॒ पुरु॑षान॒हं ॥ 15
पद्म॑प्रिये पद्मि॑नि पद्म॑हस्त॒ पद्मा॑लये पद्म॒दला॑य-ताक्षि ।
विश्व॑प्रिये विष्णु-मनो॑नुकू॒ले त्वत्पा॑द-पद्मं मयि॒ सन्नि॑धत्स्व ॥
म॒हा॒दे॒व्यै च॑ वि॒द्महे॑ विष्णु प॒त्न्यै च॑ धीमहि ।
तन्नो॑ लक्ष्मीः प्रचो॒दया᳚त् ॥
श्री र्वर्च॑स्व॒-मायु॑ष्य॒-मारो᳚ग्य॒-मावी॑धा॒-च्छोभ॑मानं मही॒यते᳚ ।
धा॒न्यं ध॒नं प॒शुं ब॒हुपु॑त्रला॒भं श॒तसं᳚वथ्स॒रं दी॒र्घमायुः॑ ॥
(ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥)
11. मेधा सूक्तं TA 6.41.1
मे॒धादे॒वी जु॒षमा॑णा न॒ आगा᳚द् वि॒श्वाची॑ भ॒द्रा सु॑मन॒स्य मा॑ना ।
त्वया॒ जुष्टा॑ नु॒दमा॑ना (जु॒षमा॑णा) दु॒रुक्ता᳚न् बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः᳚ ॥
त्वया॒ जुष्ट॑ ऋ॒षिर् भ॑वति देवि॒त्वया॒ ब्रह्मा॑ऽऽग॒तश्री॑ रु॒तत्वया᳚ ।
त्वया॒ जुष्ट॑श्चि॒त्रं ँवि॑न्दते वसु॒सानो॑ जुषस्व॒ द्रवि॑णो न मेधे ॥
मे॒धां म॒ इन्द्रो॑ ददातु मे॒धां दे॒वी सर॑स्वती ।
मे॒धां मे॑ अ॒श्विना॑ वु॒भावाध॑त्तां॒ पुष्क॑रस्रजा ॥
अ॒फ्स॒रासु॑ च॒ या मे॒धा ग॑न्ध॒र्वेषु॑ च॒ यन्मनः॑ ।
दैवीं᳚ मे॒धा मनुष्यजा सा मां᳚ मे॒धा सु॒रभि॑र् जुषतां ॥
(दैवीं᳚ मे॒धा सर॑स्वती॒ सा मां᳚ मे॒धा सु॒रभि॑र जुषता॒ᳺ॒ स्वाहा᳚ )
आमां᳚ मे॒धा सु॒रभि॑र्-वि॒श्वरू॑पा॒ हिर॑ण्यवर्णा॒ जग॑ती जग॒म्या ।
ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒ सा मां᳚ मे॒धा सु॒प्रती॑का जुषन्तां ॥
मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्नि-स्तेजो॑दधातु॒ ,
मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒ ,
मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥
हंसगायत्री-
ह॒सं ह॒सांय॑ वि॒द्महे॑ परमह॒सांय॑ धीमहि । तन्नो॑ हंसः प्रचो॒दया᳚त् ॥
(ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥)
12. भू सूक्तं TS 1.5.3.1
ॐ ॥ भूमि॑र् भू॒म्ना द्यौर्व॑रि॒णा-ऽन्तरि॑क्षं महि॒त्वा ।
उ॒पस्थे॑ ते देव्यदिते॒-ऽग्निम॑न्ना॒द-म॒न्ना-द्या॒॒याद॑धे ।
आऽयङ्गौः पृश्नि॑रक्रमी॒-दस॑नन् मा॒तरं॒ पुनः॑ । पि॒तर॑ञ्च प्र॒यन्थ्सुवः॑ ।
त्रि॒ꣳ॒शद्धाम॒ विरा॑जति॒ वाक्प॑त॒ङ्गाय॑ शिश्रिये । प्रत्य॑स्य वह॒द्युभिः॑ ।
अ॒स्य प्रा॒णाद॑पा-न॒त्य॑न्तश्च॑रति रोच॒ना । व्य॑ख्यन् महि॒ष स्सुवः॑ ॥ 1
यत्वा᳚ कृ॒द्धः प॑रो॒ वप॑-म॒न्युना॒ यदव॑र्त्त्या ।
सु॒कल्प॑मग्ने॒ तत्तव॒ पुन॒स्त्वो-द्दी॑पयामसि ।
यत्ते॑ म॒न्यु प॑रोप्तस्य पृथि॒वी-मनु॑दद्ध्व॒से ।
आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन्न् ।
मनो॒ ज्योति॑र् जुषता॒-माज्यं॒ विच्छि॑न्नं ँय॒॒ज्ञꣳ समि॒॒मन्द॑धातु ।
बृह॒स्पति॑-स्तनुता मि॒मन्नो॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्तां ॥ 2
स॒प्तते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः-स॒प्तर्.ष॑यः-स॒प्तधाम॑ प्रि॒याणि॑ ।
स॒प्त होत्रा᳚ स्सप्त॒ धात्वा॑ यजन्ति स॒प्तयोनी॒-रापृ॑णस्वा घृ॒तेन॑ ।
पुन॑रू॒र्जा निव॑र्त्तस्व॒ पुन॑रग्न इ॒हायु॑षा । पुन॑र्नः पाहि वि॒श्वतः॑ ।
स॒हर॒य्या निव॑र्त्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या ।
वि॒श्वफ्स्नि॑या वि॒श्वत॒स्परि॑ ॥ 3
लेक॒-स्सले॑क-स्सु॒लेक॒ स्तेन॑ आदि॒त्या आज्यं॑ जुषा॒णा वि॑यन्तु॒ , केत॒-स्सके॑त-स्सु॒केत॒ स्तेन॑ आदि॒त्या आज्यं॑ जुषा॒णा वि॑यन्तु॒,
विव॑स्वा॒ꣳ॒ अधि॑ति॒र् देव॑ जूति॒स्तेन॑ आदि॒त्या आज्यं॑
जुषा॒णा वि॑यन्तु ॥ 4
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
13. भाग्य सूक्तं TB 2.8.9.7
प्रा॒तर॒ग्निं प्रा॒तरिन्द्रꣳ॑ हवामहे प्रा॒तर्मि॒त्रा वरु॑णा प्रा॒तर॒श्विना᳚ ।
प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तस्सोम॑मु॒त रु॒द्रꣳ हु॑वेम ॥ 1
प्रा॒त॒र्जितं॒ भग॑मु॒ग्रꣳ हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता ।
आ॒द्ध्रश्चि॒द्यं मन्य॑मान-स्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥ 2
भग॒प्रणे॑त॒र्भग॒-सत्य॑राधो॒ भगे॒मां धिय॒मुद॑व॒ दद॑न्नः ।
भग॒प्रणो॑ जनय॒ गोभि॒-रश्वै॒र् भग॒प्रनृभि॑र् नृ॒वन्त॑-स्स्याम ॥ 3
उ॒तेदानीं॒ भग॑वन्त-स्स्यामो॒त प्रपि॒त्व उ॒त मद्ध्ये॒ अह्नां᳚ ।
उ॒तोदि॑ता मघव॒न्थ्-सूर्य॑स्य व॒यं दे॒वानाꣳ॑ सुम॒तौ स्या॑म ॥ 4
भग॑ ए॒व भग॑वाꣳ अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्त-स्स्याम ।
तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि॒ सनो॑ भग पुर ए॒ता भ॑वे॒ह ॥ 5
सम॑द्ध्व॒रा-यो॒षसो॑ ऽनमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ ।
अ॒र्वा॒ची॒नं ँव॑सु॒विदं॒ भग॑न्नो॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आव॑हन्तु ॥ 6
अश्वा॑वती॒र् गोम॑तीर्न उ॒षासो॑ वी॒रव॑ती॒-स्सद॑मुच्छन्तु भ॒द्राः ।
घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ना यू॒यं पा॑त स्व॒स्ति-भि॒स्सदा॑नः ॥ 7
यो मा᳚ऽग्ने भा॒गिनꣳ॑ स॒न्तमथा॑ भा॒गं चिकी॑र्.षति ।
अभा॒ग-म॑ग्ने॒ तं कु॑रु॒ माम॑ग्ने भा॒गिनं॑ कुरु ॥ 8
भाग्यदेवतायै॒ नमः ॥ (ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑) ॥
14. मृत्यु सूक्तं TA 3.15.1, Para 1 & 2
हरि॒ꣳ॒ हर॑न्त॒ मनु॑यन्ति दे॒वाः । विश्व॒स्येशा॑नं ँवृष॒भं म॑ती॒नां ।
ब्रह्म॒ सरू॑प॒ मनु॑ मे॒दमागा᳚त् । अय॑नं॒ मा विव॑धी॒र् विक्र॑मस्व ।
मा छि॑दो मृत्यो॒ माव॑धीः । मामे॒ बलं॒ ँविवृ॑हो॒ मा प्रमो॑षीः ।
प्र॒जां मा मे॑ रीरिष॒ आयु॑रुग्र । नृ॒चक्ष॑सं त्वा ह॒विषा॑ विधेम ।
स॒द्यश्च॑-कमा॒नाय॑ । प्र॒वे॒पा॒नाय॑ मृ॒त्यवे᳚ । प्रास्मा॒ आशा॑ अशृण्वन्न् ।
कामे॑ना जनय॒न् पुनः॑ । कामे॑नमे॒ काम॒ आगा᳚त् ।
हृद॑या॒द्धृद॑यं मृ॒त्योः । यद॒मीषा॑ म॒दः प्रि॒यं । तदैतूप॒मा-म॒भि ॥ 1
परं॑ मृत्यो॒ अनु॒परे॑हि॒ पन्थां᳚ । यस्ते॒स्व इत॑रो देव॒याना᳚त् ।
चक्षु॑ष्मते श्रृण्व॒ते ते᳚ ब्रवीमि । मानः॑ प्र॒जाꣳ री॑रिषो॒ मोतवी॒रान् ।
प्रपू॒र्व्यं मन॑सा॒ वन्द॑मानः । नाध॑मानो वृष॒भं-च॑र्.षणी॒नां ।
यः प्र॒जाना॑ मेक॒राण्मानु॑षीणां । मृ॒त्युं ँय॑जे प्रथम॒जा मृ॒तस्य॑ ॥ 2
TB 3.9.15.1 (para 3 to 5)
सर्वे॑षु॒ वा ए॒षु लो॒केषु॑ मृ॒त्यवो॒ऽन्वाय॑त्ताः ।
तेभ्यो॒ यदाहु॑ती॒र्न जु॑हु॒यात् । लो॒के लो॑क एनं मृ॒त्युर् वि॑न्देत् ।
मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहेत्य॑भि पू॒र्व माहु॑ती र्जुहोति ।
लो॒का ल्लो॑का दे॒व मृ॒त्युमव॑ यजते ।
नैनं॑ ँलो॒के लो॑के मृ॒त्यु र्वि॑न्दति ।
यद॒मुष्मै॒ स्वाहा॒ऽमुष्मै॒ स्वाहेति॒ जुह्व॑थ्सं॒ चक्षी॑त ॥ 3
ब॒हुं मृ॒त्यु-म॒मित्रं॑ कुर्वीत । मृ॒त्यवे॒ स्वाहेत्ये क॑स्मा ए॒वैका᳚ञ्जुहुयात् ।
एको॒ वा अ॒मुष्मि॑न् ँलो॒के मृ॒त्युः । अ॒श॒न॒या॒ मृ॒त्युरे॒व ।
तमे॒वा मुष्मि॑न् ँलो॒के ऽव॑यजते ।
भ्रू॒ण॒ह॒त्यायै॒ स्वाहेत्य॑ वभृ॒थ आहु॑तिं जुहोति ।
भ्रू॒ण॒ह॒त्यामे॒वा व॑यजते । तदा॑हुः । यद्भ्रू॑ण ह॒त्या-ऽपा॒त्र्याऽथ॑ ।
कस्मा᳚द् य॒ज्ञे ऽपि॑क्रियत॒ इति॑ ।
अमृ॑त्यु॒र्वा अ॒न्यो भ्रू॑णह॒त्याया॒ इत्या॑हुः ।
भ्रू॒ण॒ह॒त्या वाव मृ॒त्युरिति॑ ।
यद् भ्रू॑ण ह॒त्यायै॒ स्वाहेत्य॑ वभृ॒थ आहु॑तिं जु॒होति॑ । मृ॒त्युमे॒वा हु॑त्या-तर्पयि॒त्वा प॑रि॒पाणं॑ कृ॒त्वा । भ्रू॒ण॒घ्ने भे॑ष॒जं क॑रोति ॥ 4
ए॒ताꣳ ह॒वै मु॑ण्डि॒भ औ॑दन्य॒वः ।
भ्रू॒ण॒ह॒त्यायै॒ प्राय॑श्चित्तिं ँवि॒दाञ्च॑कार ।
योहा॒स्यापि॑ प्र॒जायां᳚ ब्राह्म॒णꣳ हन्ति॑ । सर्व॑स्मै॒ तस्मै॑ भेष॒जं क॑रोति ।
जु॒बं॒काय॒ स्वाहेत्य॑ वभृ॒थ उ॑त्त॒मा- माहु॑तिं जुहोति । वरु॑णो॒ वै जु॑बं॒कः । अ॒न्त॒त ए॒व वरु॑ण॒-मव॑यजते ।
ख॒ल॒तेर्-वि॑क्लि॒धस्य॑ शु॒क्लस्य॑ पिङ्गा॒क्षस्य॑ मू॒र्द्धं जु॑होति । ए॒तद्वै वरु॑णस्य रू॒पं । रू॒पेणै॒व वरु॑ण॒ मव॑यजते ॥ 5
Part 2 (T.A.6.45.1, for para 1 to 16)
अपै॑तु मृ॒त्युर॒-मृत॑न्न॒ आग॑न्वैवस्व॒तो नो॒ अभ॑यङ्कृणोतु । प॒र्णं ँवन॒स्पते॑-रिवा॒भि न॑श्शीयताꣳ र॒यि-स्सच॑तान्न॒ श्शची॒पतिः॑ ॥ 1
परं॑ मृत्यो॒ अनु॒परे॑हि॒ पन्थां॒ ँयस्ते॒स्व इत॑रो देव॒याना᳚त् । चक्षु॑ष्मते श्रृण्व॒ते ते᳚ ब्रवीमि॒ मानः॑ प्र॒जाꣳ री॑रिषो॒ मोत वी॒रान् ॥ 2
वातं॑ प्रा॒णं मन॑सा॒ ऽन्वार॑भामहे प्र॒जाप॑तिं॒ ँयो भुव॑नस्य गो॒पाः । सनो॑ मृ॒त्यो स्त्रा॑यतां॒ पात्वꣳ ह॑सो॒ ज्योग्जी॒वा ज॒राम॑शीमहि ॥ 3
अ॒मु॒त्र॒भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒र मु॑ञ्चः । प्रत्यौ॑हता म॒श्विना॑ मृ॒त्यु-म॑स्माद्-दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः ॥ 4
शल्कै॑र॒ग्नि मि॑न्धा॒न उ॒भौ लो॒कौ स॑नेम॒हं ।
उ॒भयो᳚र् लो॒कयोर्॑. ऋ॒द्ध्वाऽति॑ मृ॒त्युं त॑राम्य॒हं ॥ 5
हरि॒ꣳ॒ हर॑न्त॒-मनु॑यन्ति दे॒वा विश्व॒स्येशा॑नं ँवृष॒भं म॑ती॒नां । ब्रह्म॒सरू॑प॒ मनु॑मे॒दमागा॒-दय॑नं॒ मा विव॑धी॒र् विक्र॑मस्व ॥ 6
माच्छि॑दो मृत्यो॒ माव॑धी॒र्-मामे॒ बलं॒ ँविवृ॑हो॒ मा प्रमो॑षीः । प्र॒जां मामे॑ रीरिष॒ आयु॑रुग्र नृ॒चक्ष॑सं त्वा ह॒विषा॑ विधेम ॥ 7
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तं । मा नो॑ऽवधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः ॥ 8
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तोव॑धीर्. ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ॥ 9
प्रजा॑पते॒ न त्वदे॒ता-न्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यᳺ स्या॑म॒ पत॑यो रयी॒णां ॥ 10
यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि ।
मघ॑वञ्छ॒ग्द्धि तव॒ तन्न॑ ऊ॒तये॒ विद्विषो॒ विमृधो॑ जहि ॥ 11
स्व॒स्ति॒॒दा वि॒शस्पति॑र् वृत्र॒हा विमृधो॑ व॒शी ।
वृषेन्द्रः॑ पु॒र ए॑तुन स्वस्ति॒दा अ॑भयं क॒रः ॥ 12
त्र्यं॑बकं ँयजामहे सुग॒न्धिं पु॑ष्टि॒वर्द्ध॑नं । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्-मृ॒त्योर्-मु॑क्षीय॒ माऽमृता᳚त् ॥ 13
अप॑मृ॒त्यु-मप॒क्षुध॒-मपे॒त-श्श॒पथं॑जहि ।
अधा॑नो अग्न॒ आव॑ह रा॒य-स्पोषꣳ॑ सह॒स्रिणं᳚ ॥ 14
ये ते॑ स॒हस्र॑म॒युतं॒ पाशा॒ मृत्यो॒र् मत्या॑य॒ हन्त॑वे । तान्. य॒ज्ञस्य॑ मा॒यया॒ सर्वा॒नव॑ यजामहे ॥ 15
(मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा᳚ )
जा॒तवे॑दसे सुनवाम॒ सोम॑मराती य॒तो निद॑हाति॒ वेदः॑ ।
स नः॑ पर्.षदति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒तात्य॒ग्निः ॥ 16
भूर्भूव॒स्स्वः॑ । ओजो॒ बलं᳚ । ब्रह्म॑ क्ष॒त्रं । यशो॑ म॒हत् । स॒त्यं तपो॒ नाम॑ । रू॒प-म॒मृतं᳚ । चक्षुः॒ श्रोत्रं᳚ । मन॒ आयुः॑ ॥
विश्वं॒ ँयशो॑ म॒हः । स॒मन्तपो॒ हरो॒ भाः ॥ 17
जा॒तवे॑दा॒ यदि॑ वा पाव॒कोऽसि॑ । वै॒श्वा॒न॒रो यदि॑ वा वैद्यु॒तोऽसि॑ ।
शंप्र॒जाभ्यो॒ यज॑मानाय लो॒कं ॥ ऊर्जं॒ पुष्टिं॒ दद॑-द॒भ्याव॑ वृथ्स्व ॥ 18
.............नक्षत्रे .......... राशौ जातस्य ..............शर्मणः (मम / अस्य यजमानस्य) सकुटुंबस्य (स्त्री - जातायाः ~ऽ नाम्नी)
मृ॒त्युर्-न्न॑श्य॒त्वायु॑ र्वर्द्धतां॒ भूः ।
मृ॒त्युर्-न्न॑श्य॒त्वायु॑ र्वर्द्धतां॒ भुवः॑ ।
मृ॒त्युर्-न्न॑श्य॒त्वायु॑ र्वर्द्धता॒ꣳ॒ सुवः॑ ।
मृ॒त्युर्-न्न॑श्य॒त्वायु॑ र्वर्द्धतां॒ भूर्भुव॒स्सुवः॑ ।
मृ॒त्युर्-न्न॑श्य॒त्वायु॑र् वर्द्धतां ॥
मृत्यु सूक्तं समाप्तं------------
15. मृत संजीविनी सूक्तं (यक्ष्मघ्न सूक्तं) Rig VEda 10.161
मु॒ञ्चामि॑त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञात-य॒क्ष्मा-दु॒त रा᳚ज-य॒क्ष्मात् ।
ग्राहि॑र् ज॒ग्राह॒ यदि॑ वै॒तदे᳚न॒न्तस्या᳚ इन्द्राग्नी॒ प्रमु॑मुक्तमेनं ॥ 1
यदि॑क्षि॒तायु॒र्-यदि॑वा॒परे᳚तो॒ यदि॑मृ॒त्योर᳚न्ति॒ कन्नी᳚त ए॒व ।
तमाह॑रामि॒ निर्.ऋ॑ते रु॒पस्था॒-दस्पा᳚र्.षमेनं श॒तशा᳚रदाय ॥ 2
स॒ह॒स्रा॒क्षेण॑ श॒तशा᳚रदेन श॒तायु॑षा ह॒विषा ऽहा᳚र्षमेनं ।
श॒तं यथे॒मं श॒रदो॒ न या॒तीन्द्रो॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रं ॥ 3
श॒तञ्जी᳚व श॒रदो॒ वर्द्ध॑मान-श्श॒तं हे᳚म॒न्ताञ्छ॒त-मु॑वस॒न्तान् ।
श॒तमि᳚न्द्रा॒ग्नी स॑वि॒ता बृह॒स्पति॑-श्श॒तायु॑षा ह॒विषे॒मं पुन॑र्दुः ॥ 4
आहा᳚र्.षं॒ त्वा वि॑दन्त्वा॒ पुन॒रागाः᳚ पुनर्नव ।
सर्वा᳚ङ्ग॒ सर्व᳚न्ते॒ चक्षुः॒ सर्व॒-मायु॑श्चते ऽवि॒दं ॥ 5
तदित् प॒दं न विचि॑केत-वि॒द्वान् । यन्मृ॒तः पुन॑र॒प्येति॑ जी॒वान् ।
त्रि॒वृद्यद् भुव॑नस्य रथ॒वृत् । जी॒वो गर्भो॒ न मृ॒तस्स जी॑वात् ॥ 6
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
16. आयुष्य सूक्तं Exact source not known
यो ब्र॒ह्मा ब्रह्मण उ॑ज्जहा॒र॒ प्रा॒णैः शि॒रः कृत्तिवासाः᳚ पिना॒की ।
ईशानो देवस्सन आयु॑र्दधा॒तु॒ तस्मै जुहोमि हवि॑षा घृते॒न ॥ 1
वि॒भ्रा॒ज॒मा॒न-स्सरिर॑स्य म॒द्ध्या॒द् रो॒च॒मा॒नो घर्मरुचि॑र्य आ॒गात् ।
स मृत्युपाशा-नपनु॑द्य घो॒रा॒-नि॒हा॒यु॒षे॒णो घृतम॑त्तु दे॒वः ॥ 2
ब्रह्मज्योतिर् ब्रह्मपत्नी॑षु ग॒र्भं॒ ँय॒मा॒द॒धात् पुरुरूपं॑ जय॒न्तं ।
सुवर्णरंभ-ग्रह-म॑र्कम॒र्च्यं॒ त॒मा॒यु॒षे वद्र्धयामो॑ घृते॒न ॥ 3
श्रियं ँलक्ष्मी-मौबला-म॑बिंकां॒ गां॒ ष॒ष्टीञ्च या॒मिन्द्र-सेने᳚त्युदा॒हुः ।
तां॒ ँवि॒द्यां ब्रह्मयोनिꣳ॑ सरू॒पा॒-मि॒हा॒यु॒षे तर्पयामो॑ घृते॒न ॥ 4
दाक्षायण्य-स्सर्वयोन्य॑ स्सुयो॒न्य॒-स्स॒ह॒स्र॒शो विश्व रूपा॑ विरू॒पाः ।
ससूनव-स्सपतयः॑ सयू॒थ्या॒ आ॒यु॒षे॒णो घृतमिदं॑ जुष॒न्तां ॥ 5
दिव्या॑ गणा बहुरूपाः᳚ पु॒रा॒णा॒ आ॒यु॒श्छि॒दो॒ नः प्रमथ्न॑न्तु वी॒रान् ।
तेभ्यो जुहोमि बहुधा॑ घृ॒ते॒न॒ मा॒ नः॒ प्र॒जाꣳ रीरिषो मो॑त वी॒रान् ॥ 6
ए॒कः॒ पु॒रस्ताद् य इदं॑ ब॒भू॒व॒ यतो बभूव भुवन॑स्य गो॒पाः ।
यमप्येति भुवनꣳ सां᳚परा॒ये॒ स नो हविर् घृत-मिहायुषे᳚ऽत्तु दे॒वः ॥ 7
व॒सून् रुद्रा॑ना-दि॒त्या॒न् मरुतो॑ऽथ सा॒द्ध्या॒न् ऋभू॑न् य॒क्षा॒न्
गन्धर्वाᳺश्च पितृᳺ॑श्च वि॒श्वान् ।
भृ॒गू॒न्थ्-सर्पाᳺ॑श्चा-ङ्गिगरसो॑ऽथ स॒र्वा॒न् घृ॒त॒ꣳ॒ हु॒त्वा स्वायुष्या महया॑म श॒श्वत् ॥ 8
विष्णो॒ त्वन्नो॒ अन्त॑म॒-श्शर्म॑यच्छ सहन्त्य ।
| प्रते॒ धारा॑ मधु॒श्चुत॒ उथ्सं॑दुह्रते॒ अक्षि॑तं ॥ | 9 |
(ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥)
17. नवग्रह सूक्तं
| 1. (देवता - आदित्याः | अधिदेवता- अग्निः |
प्रत्यधिदेवता - पशुपतिः)
ॐ आस॒त्येन॒ रज॑सा॒ वर्त्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्त्य॑ञ्च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒ना ऽदे॒वो या॑ति॒ भुव॑ना वि॒पश्यन्न्॑ ॥
(TS 3.4.11.2)
अ॒ग्निं दू॒तं ँवृ॑णीमहे॒ होता॑रं ँवि॒॒श्ववे॑दसं । अ॒स्य य॒ज्ञस्य॑ सु॒क्रतुं᳚ ॥ (T.B.3.5.2.3)
येषा॒मीशे॑ पशु॒पतिः॑ पशू॒नां-चतु॑ष्पदामु॒त च॑ द्वि॒पदां᳚ ।
निष्क्री॑तो॒ऽयं ँय॒॒ज्ञियं॑ भा॒गमे॑तु रा॒यस्पोषा॒ यज॑मानस्य सन्तु ॥ (TS 3.1.4.1)
(ॐ अधिदेवता प्रत्यधिदेवता सहिताय भगवते आदि॑त्याय॒ नमः॑) 1
| 2. (देवता - अङ्क्रकः | अधिदेवता - पृथिवी |
प्रत्यधिदेवता - क्षेत्रपतिः)
ॐ अ॒ग्निर्मू॒र्द्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यं ।
अ॒पाꣳ रेताꣳ॑सि जिन्वति ॥ (TS 1.5.5.1)
स्यो॒ना पृ॑थिवि॒ भवा॑ऽनृक्ष॒॒रा नि॒वेश॑नी ।
यच्छा॑न॒-श्शर्म॑ स॒प्रथाः᳚॥ (TA 6.1.10)
क्षेत्र॑स्य॒ पति॑ना व॒यꣳ हि॒तेने॑व जयामसि ।
गामश्वं॑ पोषयि॒त्न्वा स नो॑ मृडाती॒-दृशे᳚ ॥ (TS 1.1.14.2)
(ॐ अधिदेवता प्रत्यधिदेवता सहिताय भगवते अङ्क्रका॑य॒ नमः॑) 2
| 3. (देवता - शुक्रः | अधिदेवता - इन्द्राणी, प्रत्यधिदेवता - इन्द्रः) |
ॐ प्रव॑श्शु॒क्राय॑ भा॒नवे॑ भरध्वꣳ ह॒व्यं म॒तिं चा॒ग्नये॒ सुपू॑तं ।
यो दैव्या॑नि॒ मानु॑षा ज॒नूᳺ-ष्य॒॒न्तर् विश्वा॑नि वि॒द्मना॒ जिगा॑ति ॥ (TB 2.8.2.3)
इ॒न्द्रा॒णी मा॒सु नारि॑षु सु॒पत्नी॑-म॒हम॑श्रवं ।
न ह्य॑स्या अप॒रंच॒न ज॒रसा॒ मर॑ते॒ पतिः॑ ॥ (TS 1.7.13.1)
इन्द्रं॑ ँवो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने᳚भ्यः ।
अ॒स्माक॑मस्तु॒ केव॑लः ॥ (TS 1.6.12.1)
(ॐ अधिदेवता प्रत्यधिदेवता सहिताय भगवते शुक्रा॑य॒ नमः॑) 3
| 4. (देवता - सोमः/चन्द्रमा | अधिदेवता- अपः |
प्रत्यधिदेवता - गौरी)
ॐ आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑-स्सोम॒ वृष्णि॑यं ।
भवा॒ वाज॑स्य संग॒थे ॥ (TS 4.2.7.4)
अ॒फ्सुमे॒ सोमो॑ अब्रवीद॒न्तर् विश्वा॑नि भेष॒जा ।
अ॒ग्निञ्च॑ वि॒श्वश॑भुंव॒-माप॑श्च वि॒श्वभे॑षजीः ॥ (TB 2.5.8.6)
गौ॒री मि॑माय सलि॒लानि॒ तक्ष॒त्येक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी ।
अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ स॒हस्रा᳚क्षरा पर॒मे व्यो॑मन्न् ॥ (TB .2.4.6.11)
(ॐ अधिदेवता प्रत्यधिदेवता सहिताय भगवते सोमा॑य॒ नमः॑) 4
| 5. (देवता - बुधः | अधिदेवता - विष्णुः |
प्रत्यधिदेवता - पुरुष नारायणः)
ॐ उद्बु॑द्ध्यस्वाग्ने॒ प्रति॑जागृह्येन मिष्टापू॒र्त्ते सꣳ सृ॑जेथा म॒यञ्च॑ ।
पुनः॑ कृ॒ण्वᳺस्त्वा॑ पि॒तरं॒ ँयुवा॑न-म॒न्वाताꣳ॑सी॒त् त्वयि॒ तन्तु॑मे॒तं ॥ (TS 4.7.13.5)
इ॒दं ँविष्णु॒र् विच॑क्रमे त्रे॒धा निद॑धे प॒दं ।
समू॑ढमस्य पाꣳ सु॒रे ॥ (TS 1.2.13.1)
विष्णो॑ र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॑सि॒ विष्णो॒-श्नप्त्रे᳚स्थो॒ विष्णो॒ स्स्यूर॑सि॒ विष्णो᳚र् धृ॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥ (TS 1.2.13.3)
(ॐ अधिदेवता प्रत्यधिदेवता सहिताय भगवते बुधा॑य॒ नमः॑) 5
| 6. (देवता - बुहस्पतिः | अधिदेवता - इन्द्र-मरुत |
प्रत्यधिदेवता - ब्रह्म)
ॐ बृह॑स्पते॒ अति॒ यद॒र्यो अर्.ह᳚द् द्यु॒मद्-वि॒भाति॒ क्रतु॑ म॒ज्जने॑षु ।
यद्दी॒द य॒च्छ व॑सर्त्त प्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रं ॥ (TS 1.8.22.2)
इन्द्र॑मरुत्व इ॒ह पा॑हि॒ सोमं॒ ँयथा॑ शार्या॒ते अपि॑बस्सु॒तस्य॑ ।
तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना-वि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः ॥ (TS 1.4.18.1)
ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द् विसी॑म॒त-स्सु॒रुचो॑ वे॒न आ॑वः ।
सबु॒द्ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठास्स॒तश्च॒ योनि॒म-स॑तश्च॒ विवः॑ ॥ (TS 4.2.8.2)
(ॐ अधिदेवता प्रत्यधिदेवता सहिताय भगवते बृह॒स्पत॑ये॒ नमः॑) 6
| 7. (देवता - शनैश्चरः | अधिदेवता - प्रजापतिः |
प्रत्यधिदेवता - यमः)
ॐ शन्नो॑ दे॒वी-र॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚ ।
शं ँयोर॒भि-स्र॑वन्तु नः ॥ (TA 7.42.4)
प्रजा॑पते॒ न त्वदे॒ता-न्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यᳺ स्या॑म॒ पत॑यो रयी॒णां ॥ (TS 1.8.14.2)
इ॒मं ँय॑म प्रस्त॒रमाहि सीदाङ्गि॑रोभिः पि॒तृभिः॑ सम् ँविदा॒नः ।
आत्वा॒ मन्त्राः᳚ कविश॒स्ता व॑हन्त्वे॒ना रा॑जन् ह॒विषा॑ मादयस्व ॥ (TS 2.6.12.6)
(ॐ अधिदेवता प्रत्यधिदेवता सहिताय भगवते शनैश्च॑राय॒ नमः॑) 7
| 8. (देवता - राहु | अधिदेवता- सर्पः, प्रत्यधिदेवता - निर्.ऋत) |
ॐ कया॑ नश्चि॒त्र आभु॑वदू॒ती स॒दावृ॑ध॒ स्सखा᳚ ।
कया॒ शचि॑ष्ठया वृ॒ता ॥ (TS 4.2.11.2)
आऽयङ्कौः पृश्नि॑रक्रमी॒-दस॑नन् मा॒तरं॒ पुनः॑ ।
पि॒तर॑ञ्च प्र॒यन्थ्सुवः॑ ॥ (TS 1.5.3.1)
यत्ते॑ दे॒वी निर्.ऋ॑ति राब॒बन्ध॒ दाम॑ ग्री॒वास्व॑-विच॒र्त्यं ।
इ॒दन्ते॒ तद्विष्या॒-म्यायु॑षो॒ न मद्ध्या॒-दथा॑ जी॒वः
पि॒तुम॑द्धि॒ प्रमु॑क्तः ॥ (TS 4.2.5.3)
(ॐ अधिदेवता प्रत्यधिदेवता सहिताय भगवते राह॑वे॒ नमः॑) 8
| 9. (देवता - केतुः | अधिदेवता - ब्रह्म |
प्रत्यधिदेवता - चित्रगुप्तः)
ॐ के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे᳚ ।
समु॒षद्भि॑रजायथाः ॥ (TS 7.4.20.1)
ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒ना-मृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणां᳚ ।
श्ये॒नो गृद्ध्रा॑णा॒ᳺ॒ स्वधि॑ति॒र् वना॑ना॒ꣳ॒ सोमः॑ प॒वित्र॒ मत्ये॑ति॒ रेभन्न्॑ ॥ (TS 3.4.11.1)
सचि॑त्र चि॒त्रं चि॒तय॑न्त-म॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं ँवयो॒धां ।
च॒न्द्रं र॒यिं पु॑रु॒वीरं॑ बृ॒हन्तं॒ चन्द्र॑-च॒न्द्राभि॑र्-गृण॒ते यु॑वस्व ॥ (RV 6.6.7).
(ॐ अधिदेवता प्रत्यधिदेवता सहितेभ्यो भगवद्भ्यः केतु॑भ्यो॒ नमः॑) 9
॥ ॐ आदित्यादि नवग्रह देव॑ताभ्यो॒ नमो॒ नमः॑॥
(ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥)
18. दिक् पालका मन्त्राः
1. (देवता - इन्द्रः) (दिक् - पूर्वं) (TS 1.6.12.5)
त्रा॒तार॒मिन्द्र॑-मवि॒तार॒-मिन्द्र॒ꣳ॒ हवे॑ हवे सु॒हव॒ꣳ॒ शूर॒मिन्द्रं᳚ ।
हु॒वे नु श॒क्रं पु॑रुहू॒त-मिन्द्रᳺ॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ ॥ 1
2. (देवता-अग्नीः) (दिक्-दक्षिण पूर्वं/आग्नेय दिक्) (T.S.2.5.12.3)
त्वन्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः ।
यजि॑ष्ठो॒ वह्नि॑तम॒ श्शोशु॑चानो॒ विश्वा॒ द्वेषाꣳ॑सि॒ प्रमु॑मुग्ध्य॒स्मत् ॥ 2
3. (देवता - यमः) (दिक् - दक्षिणं) (T.B.3.1.2.11)
सु॒गन्नः॒ पन्था॒मभ॑यं कृणोतु । यस्मि॒न्नक्ष॑त्रे य॒म एति॒ राजा᳚ ।
यस्मि॑न्नेन-म॒भ्यषि॑ञ्चन्त दे॒वाः । तद॑स्य चि॒त्रꣳ ह॒विषा॑ यजाम ।
अप॑ पा॒प्मानं॒ भर॑णीर् भरन्तु ॥ 3
4. (देवता- निर्.ऋतिः) (दिक् - दक्षिण पश्चिमं) (TS 4.2.5.4)
असु॑न्वन्त॒-मय॑जमान-मिच्छ स्ते॒न-स्ये॒त्यान् तस्क॑र॒स्यान्वे॑षि ।
अ॒न्य-म॒स्म-दि॑च्छ॒ सा त॑ इ॒त्या नमो॑ देवि निर्.ऋते॒ तुभ्य॑मस्तु ॥ 4
5. (देवता- वरुणः) (दिक् - पश्चिमं) (TS 2.1.11.6)
तत्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒-स्तदाशा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शꣳ स॒ मा न॒ आयुः॒ प्रमो॑षीः ॥ 5
6. (देवता - वायुः) (दिक् - उत्तर पश्चिमं) (T.B.2.8.1.2)
आ नो॑ नि॒युद्भि॑-श्श॒तिनी॑-भिरध्व॒रं । स॒ह॒स्रिणी॑भि॒-रुप॑याहि य॒ज्ञं ।
वायो॑ अ॒स्मिन्. ह॒विषि॑ मादयस्व ।
यू॒यं पा॑त स्व॒स्ति-भि॒स्सदा॑नः ॥ 6
7. (देवता - सोमः) (दिक् - उत्तरं) (T.B.2.4.2.7)
व॒यꣳ सो॑म व्र॒ते तव॑ । मन॑स्त॒नूषु॒ बिभ्र॑तः । प्र॒जाव॑न्तो अशीमहि ॥ 7
8. (देवता - ईशानः) (दिक् - उत्तर पूर्वं) (RV.1.89.5)
तमीशा᳚नं॒ जग॑त-स्त॒स्थु-ष॒स्पतिं᳚ । धि॒यं॒ जि॒न्वमव॑से हूमहे व॒यं ।
पू॒षा नो॒ यथा॒ वेद॑ सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒यु-रद॑ब्ध-स्स्व॒स्तये᳚ ॥ 8
9. (देवता - ब्रह्मा) (दिक् - ऊद्र्ध्व्ं Skywards) (RV.8.63.1.2)
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृ॒त्रहत्ये॒ भर॑हूतौ स॒जोषाः᳚ ।
यश्शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्मा अ॑वन्तु दे॒वाः ॥ 9
10. (देवता - विष्णुः) [दिक् - अधरं (पाताळं)] (TA. 6.1.10)
स्यो॒ना पृ॑थि॒वि भवा॑ऽनृक्ष॒रा नि॒वेश॑नी । यच्छा॑ न॒श्शर्म॑ स॒प्रथाः᳚ ॥ 10
19. नक्षत्र सूक्तं Starting frOm TB 3.1.1, for itEm nO. 1 to 40
अ॒ग्निनः॑ पातु॒ कृत्ति॑काः । नक्ष॑त्रं दे॒वमि॑न्द्रि॒यं ।
इ॒दमा॑सां- ँविचक्ष॒णं । ह॒विरा॒सन् जु॑होतन ।
यस्य॒ भान्ति॑ र॒श्मयो॒ यस्य॑ के॒तवः॑ । यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा᳚ ।
स कृत्ति॑का भिर॒भि-सं॒ ँवसा॑नः । अ॒ग्निर्नो॑ दे॒वस्सु॑वि॒ते द॑धातु ॥ 1
प्र॒जाप॑ते रोहि॒णी वे॑तु॒ पत्नी᳚ । वि॒श्वरू॑पा बृह॒ती चि॒त्रभा॑नुः ।
सा नो॑ य॒ज्ञस्य॑ सुवि॒ते द॑धातु । यथा॒ जीवे॑म श॒रद॒स्सवी॑राः ।
रो॒हि॒णी दे॒व्युद॑गात् पु॒रस्ता᳚त् । विश्वा॑ रू॒पाणि॑ प्रति॒मोद॑माना ।
प्र॒जाप॑तिꣳ ह॒विषा॑ व॒द्र्धय॑न्ती । प्रि॒या दे॒वाना॒-मुप॑यातु य॒ज्ञं ॥ 2
सोमो॒ राजा॑ मृगशी॒र्॒.षेण॒ आगन्न्॑ । शि॒वं नक्ष॑त्रं प्रि॒यम॑स्य॒ धाम॑ ।
आ॒प्याय॑मानो बहु॒॒धा जने॑षु । रेतः॑ प्र॒जां ँयज॑माने दधातु ।
यत्ते॒ नक्ष॑त्रं मृगशी॒र्॒.षमस्ति॑ । प्रि॒यꣳ रा॑जन् प्रि॒यत॑मं प्रि॒याणां᳚ ।
तस्मै॑ ते सोम ह॒विषा॑ विधेम । शन्न॑ एधि द्वि॒पदे॒ शंचतु॑ष्पदे ॥ 3
आ॒र्द्रया॑ रु॒द्रः प्रथ॑मा न एति । श्रेष्ठो॑ दे॒वानां॒ पति॑रघ्नि॒यानां᳚ ।
नक्ष॑त्रमस्य ह॒विषा॑ विधेम । मा नः॑ प्र॒जाꣳ री॑रिष॒न् मोत वी॒रान् ।
हे॒ती रु॒द्रस्य॒ परि॑णो वृणक्तु । आ॒र्द्रा नक्ष॑त्रं जुषताꣳ ह॒विर्नः॑ ।
प्र॒मु॒ञ्चमा॑नौ दुरि॒तानि॒ विश्वा᳚ । अपा॒घशꣳ॑ सन्नु-दता॒मरा॑तिं ॥ 4
पुन॑र्नो दे॒व्यदि॑ति-स्पृणोतु । पुन॑र्वसू नः॒ पुन॒रेतां᳚ ँय॒ज्ञं ।
पुन॑र्नो दे॒वा अ॒भिय॑न्तु॒ सर्वे᳚ । पुनः॑ पुनर्वो ह॒विषा॑ यजामः ।
ए॒वा न दे॒व्य-दि॑तिरन॒र्वा । विश्व॑स्य भ॒र्त्री जग॑तः प्रति॒ष्ठा ।
पुन॑र्वसू ह॒विषा॑ व॒द्र्धय॑न्ती । प्रि॒यं दे॒वाना॒-मप्ये॑तु॒ पाथः॑ ॥ 5
बृह॒स्पतिः॑ प्रथ॒मञ्जाय॑मानः । ति॒ष्यं॑ नक्ष॑त्रम॒भि संब॑भूव ।
श्रेष्ठो॑ दे॒वानां॒ पृत॑नासु जि॒ष्णुः । दिशो नु॒ सर्वा॒ अभ॑यन्नो अस्तु ।
ति॒ष्यः॑ पु॒रस्ता॑दु॒त म॑द्ध्य॒तो नः॑ । बृह॒स्पति॑र् नः॒ परि॑पातु प॒श्चात् ।
बाधे॑ ता॒न् द्वेषो॒ अभ॑यं कृणुतां । सु॒वीर्य॑स्य॒ पत॑यस्स्याम ॥ 6
इ॒दꣳ स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्टं᳚ । आ॒श्रे॒षा येषा॑ मनु॒यन्ति॒ चेतः॑ ।
ये अ॒न्तरि॑क्षं पृथि॒वीं-क्षि॒यन्ति॑ । तेन॑ स्स॒र्पासो॒ हव॒माग॑मिष्ठाः ।
ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः । ये दिवं॑ दे॒वी-मनु॑स॒ञ्चर॑न्ति ।
येषा॑माश्रे॒षा अ॑नु॒यन्ति॒ कामं᳚ । तेभ्य॑-स्स॒र्पेभ्यो॒ मधु॑-मज्जुहोमि ॥ 7
उप॑हूताः पि॒तरो॒ ये म॒घासु॑ । मनो॑जवस-स्सु॒कृत॑-स्सुकृ॒त्याः ।
ते नो॒ नक्ष॑त्रे॒ हव॒माग॑मिष्ठाः । स्व॒धाभि॑र् य॒ज्ञं प्रय॑तं जुषन्तां ।
ये अ॑ग्निद॒ग्धा येऽन॑ग्नि-दग्धाः । ये॑ऽमुल्लो॒कं पि॒तरः॑ क्षि॒यन्ति॑ ।
याᳺश्च॑ वि॒द्मयाꣳ उ॑ च॒ न प्र॑वि॒द्म । म॒घासु॑ य॒ज्ञꣳ सुकृ॑तं जुषन्तां ॥ 8
गवां॒ पतिः॒ फल्गु॑नी-नामसि॒ त्वं । तद॑र्यमन् वरुण मित्र॒ चारु॑ ।
तन्त्वा॑ व॒यꣳ स॑नि॒तारꣳ॑ सनी॒नां । जी॒वा जीव॑न्त॒मुप॒ सं ँवि॑शेम ।
येने॒मा विश्वा॒ भुव॑नानि॒ सञ्जि॑ता । यस्य॑ दे॒वा अ॑नुस॒ ँय्यन्ति॒ चेतः॑ ।
अ॒र्य॒मा राजा॒ऽजर॒स्तु वि॑ष्मान् । फल्गु॑नीना-मृष॒भो रो॑रवीति ॥ 9
श्रेष्ठो॑ दे॒वानां᳚ भगवो भगासि । तत्त्वा॑ विदुः॒ फल्गु॑नी॒-स्तस्य॑ वित्तात् ।
अ॒स्मभ्यं॑-क्ष॒त्रम॒जरꣳ॑ सु॒वीर्यं᳚ । गोम॒दश्व॑-व॒दुप॒सन्नु॑-दे॒ह ।
भगो॑ह दा॒ता भग॒ इत्प्र॑दा॒ता । भगो॑ दे॒वीः फल्गु॑नी॒-रावि॑वेश ।
भग॒स्येत्तं प्र॑स॒वं ग॑मेम । यत्र॑ दे॒वै-स्स॑ध॒मादं॑ मदेम ॥ 10
आया॑तु दे॒व-स्स॑वि॒तो प॑यातु । हि॒र॒ण्यये॑न सु॒वृता॒ रथे॑न ।
वह॒न॒. हस्तꣳ॑ सु॒भगं॑ ँविद्म॒नाप॑सं । प्र॒यच्छ॑न्तं॒ पपु॑रिं॒ पुण्य॒मच्छ॑ ।
हस्तः॒ प्रय॑च्छ त्व॒मृतं॒ वसी॑यः । दक्षि॑णेन॒ प्रति॑गृभ्णीम एनत् ।
दा॒तार॑-म॒द्य स॑वि॒ता वि॑देय । यो नो॒ हस्ता॑य प्रसु॒वाति॑ य॒ज्ञं ॥ 11
त्वष्टा॒ नक्ष॑त्र-म॒भ्ये॑ति चि॒त्रां । सु॒भꣳ स॑सं- ँयुव॒तिꣳ रोच॑मानां ।
नि॒वे॒शय॑-न्न॒मृता॒न् मर्त्याᳺ॑श्च । रू॒पाणि॑ पि॒ꣳ॒शन् भुव॑नानि॒ विश्वा᳚ ।
तन्न॒स्त्वष्टा॒ तदु॑ चि॒त्रा विच॑ष्टां । तन्नक्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्यं᳚ ।
तन्नः॑ प्र॒जां ँवी॒रव॑तीꣳ सनोतु । गोभि॑र्नो॒ अश्वै॒-स्सम॑नक्तु य॒ज्ञं ॥ 12
वा॒युर् नक्ष॑त्र-म॒भ्ये॑ति॒ निष्ट्यां᳚ । ति॒ग्मश्रृं॑गो वृष॒भो रोरु॑वाणः ।
स॒मी॒रय॒न् भुव॑ना मात॒रिश्वा᳚ । अप॒ द्वेषाꣳ॑सि नुदता॒मरा॑तीः ।
तन्नो॑ वा॒यस्तदु॒ निष्ट्या॑ श्रृणोतु । तन्नक्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्यं᳚ ।
तन्नो॑ दे॒वासो॒ अनु॑ जानन्तु॒ कामं᳚ । यथा॒ तरे॑म दुरि॒तानि॒ विश्वा᳚ ॥ 13
दू॒रम॒स्मच्छत्र॑वो यन्तु भी॒ताः । तदि॑न्द्रा॒ग्नी कृ॑णुतां॒ तद् विशा॑खे ।
तन्नो॑ दे॒वा अनु॑मदन्तु य॒ज्ञं । प॒श्चात् पु॒रस्ता॒-दभ॑यन्नो अस्तु ।
नक्ष॑त्राणा॒-मधि॑पत्नी॒ विशा॑खे । श्रेष्ठा॑-विन्द्रा॒ग्नी भुव॑नस्य गो॒पौ ।
विषू॑च॒-श्शत्रू॑नप॒बाध॑मानौ । अप॒क्षुध॑-न्नुदता॒मरा॑तिं ॥ 14
पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता᳚त् । उन्म॑द्ध्य॒तः पौ᳚र्णमा॒सी जि॑गाय ।
तस्यां᳚ दे॒वा अधि॑ सं॒ ँवस॑न्तः । उ॒त्त॒मे नाक॑ इ॒ह मा॑दयन्तां ।
पृ॒थ्वी सु॒वर्चा॑ युव॒ति-स्स॒जोषाः᳚ । पौ॒र्ण॒मा॒स्युद॑गा॒-च्छोभ॑माना ।
आ॒प्या॒यय॑न्ती दुरि॒तानि॒ विश्वा᳚ । उ॒रुं दुहां॒ य ँज॑मानाय य॒ज्ञं ॥ 15
ऋ॒द्ध्यास्म॑ ह॒व्यैर् नम॑सोप॒-सद्य॑ । मि॒त्रं दे॒वं मि॑त्र॒धेय॑न्नो अस्तु ।
अ॒नू॒रा॒धान्. ह॒विषा॑ व॒र्द्धय॑न्तः । श॒तं जी॑वेम श॒रद॒स्सवी॑राः ।
चि॒त्रं-नक्ष॑त्र॒-मुद॑गात् पु॒रस्ता᳚त् । अ॒नू॒रा॒धा स॒ इति॒ यद् वद॑न्ति ।
तन्मि॒त्र ए॑ति प॒थिभि॑ र्देव॒यानैः᳚ । हि॒र॒ण्ययै॒र् वित॑तै-र॒न्तरि॑क्षे ॥ 16
इन्द्रो᳚ ज्ये॒ष्ठा मनु॒ नक्ष॑त्रमेति । यस्मि॑न् वृ॒त्रं ँवृ॑त्र॒ तूर्ये॑ त॒तार॑ ।
तस्मि॑न् व॒य-म॒मृतं॒ दुहा॑नाः । क्षुध॑न्तरेम॒ दुरि॑तिं॒ दुरि॑ष्टिं ।
पु॒र॒न्द॒राय॑ वृष॒भाय॑ धृ॒ष्णवे᳚ । अषा॑ढाय॒ सह॑मानाय मी॒ढुषे᳚ ।
इन्द्रा॑य ज्ये॒ष्ठा मधु॑म॒द्दुहा॑ना । उ॒रुं कृ॑णोतु॒ यज॑मानाय लो॒कं ॥ 17
मूलं॑ प्र॒जां वी॒रव॑तीं ँविदेय । परा᳚च्येतु॒ निर्.ऋ॑तिः परा॒चा ।
गोभि॒र् नक्ष॑त्रं प॒शुभि॒-स्सम॑क्तं । अह॑र् भूया॒द् यज॑मानाय॒ मह्यं᳚ ।
अह॑र्नो अ॒द्य सु॑वि॒ते द॑धातु । मूलं॒ नक्ष॑त्र॒मिति॒ यद् वद॑न्ति ।
परा॑चीं ँवा॒चा निर्.ऋ॑तिं नुदामि । शि॒वं प्र॒जायै॑ शि॒वम॑स्तु॒ मह्यं᳚ ॥ 18
या दि॒व्या आपः॒ पय॑सा संबभू॒वुः । या अ॒न्तरि॑क्ष उ॒त पार्त्थि॑वी॒र्याः ।
यासा॑मषा॒ढा अ॑नु॒यन्ति॒ कामं᳚ । ता न॒ आपः॒ शᳺ स्यो॒ना भ॑वन्तु ।
याश्च॒ कूप्या॒ याश्च॑ ना॒द्या᳚-स्समु॒द्रियाः᳚ । याश्च॑ वैश॒न्तीरु॒त प्रा॑स॒चीर्याः ।
यासा॑मषा॒ढा मधु॑ भ॒क्षय॑न्ति । ता न॒ आपः॒ शᳺ स्यो॒ना भ॑वन्तु ॥ 19
तन्नो॒ विश्वे॒ उप॑ श्रृण्वन्तु दे॒वाः । तद॑षा॒ढा अ॒भिसं ँय॑न्तु य॒ज्ञं ।
तन्नक्ष॑त्रं प्रथतां प॒शुभ्यः॑ । कृ॒षिर्-वृ॒ष्टिर् यज॑मानाय कल्पतां ।
शु॒भ्राः क॒न्या॑ युव॒तय॑-स्सु॒पेश॑सः । क॒र्म॒कृत॑-स्सु॒कृतो॑ वी॒र्या॑वतीः ।
विश्वा᳚न् दे॒वान्. ह॒विषा॑ व॒र्द्धय॑न्तीः ।
अ॒षा॒ढाः काम॒ मुप॑यान्तु य॒ज्ञं ॥ 20
यस्मि॒न् ब्रह्मा॒भ्यज॑य॒थ् सर्व॑मे॒तत् । अ॒मुञ्च॑ लो॒क मि॒दमू॑च॒ सर्वं᳚ ।
तन्नो॒ नक्ष॑त्र-मभि॒जिद् वि॒जित्य॑ । श्रियं॑ दधा॒त्व-हृ॑णीयमानं ।
उ॒भौ लो॒कौ ब्रह्म॑णा॒ सञ्जि॑ते॒मौ । तन्नो॒ नक्ष॑त्र-मभि॒जिद् विच॑ष्टां ।
तस्मि॑न् व॒यं पृत॑ना॒ स्संज॑येम । तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ कामं᳚ ॥ 21
शृ॒ण्वन्ति॑ श्रो॒णा-म॒मृत॑स्य गो॒पां । पुण्या॑मस्या॒ उप॑शृणोमि॒ वाचं᳚ ।
म॒हीं दे॒वीं विष्णु॑पत्नी मजू॒र्यां । प्र॒तीची॑ मेनाꣳ ह॒विषा॑ यजामः ।
त्रे॒धा विष्णु॑-रुरुगा॒यो विच॑क्रमे । म॒हीं दिवं॑ पृथि॒वी-म॒न्तरि॑क्षं ।
तच्छ्रो॒णैति॒ श्रव॑-इ॒च्छमा॑ना । पुण्य॒ᳺ॒ श्लोकं॒ ँयज॑मानाय कृण्व॒ती ॥ 22
अ॒ष्टौ दे॒वा वस॑वस्सो॒म्यासः॑ । चत॑स्रो दे॒वी र॒जराः॒ श्रवि॑ष्ठाः ।
ते य॒ज्ञं पा᳚न्तु॒ रज॑सः प॒रस्ता᳚त् । सं॒ ँव॒थ्स॒रीण॑-म॒मृतᳺ॑ स्व॒स्ति ।
य॒ज्ञं नः॑ पान्तु॒ वस॑वः पु॒रस्ता᳚त् । द॒क्षि॒ण॒तो॑-ऽभिय॑न्तु॒ श्रवि॑ष्ठाः ।
पुण्य॒न्नक्ष॑त्रम॒भि सं ँवि॑शाम । मा नो॒ अरा॑ति-र॒घश॒ꣳ॒ सागन्न्॑ ॥ 23
क्ष॒त्रस्य॒ राजा॒ वरु॑णोऽधिरा॒जः । नक्ष॑त्राणाꣳ श॒तभि॑ष॒ग् वसि॑ष्ठः ।
तौ दे॒वेभ्यः॑ कृणुतो दी॒र्घमायः॑ । श॒तꣳ स॒हस्रा॑ भेष॒जानि॑ धत्तः ।
य॒ज्ञन्नो॒ राजा॒ वरु॑ण॒ उप॑यातु । तन्नो॒ विश्वे॑ अ॒भिस ँय्य॑न्तु दे॒वाः ।
तन्नो॒ नक्ष॑त्रꣳ श॒तभि॑षग् जुषा॒णं । दी॒र्घमायुः॒ प्रति॑रद् भेष॒जानि॑ ॥ 24
अ॒ज एक॑पा॒- दुद॑गात् पु॒रस्ता᳚त् । विश्वा॑ भू॒तानि॑ प्रति॒ मोद॑मानः ।
तस्य॑ दे॒वाः प्र॑स॒वं ँय॑न्ति॒ सर्वे᳚ । प्रो॒ष्ठ॒प॒दासो॑ अ॒मृत॑स्य गो॒पाः ।
वि॒भ्राज॑मान-स्समिधा॒न उ॒ग्रः । आऽन्तरि॑क्ष-मरुह॒द-ग॒न्द्यां ।
तꣳ सूर्यं॑ दे॒व-म॒जमेक॑पादं । प्रो॒ष्ठ॒प॒दासो॒ अनु॑यन्ति॒ सर्वे᳚ ॥ 25
अहि॑र् बु॒द्ध्नियः॒ प्रथ॑मान एति । श्रेष्ठो॑ दे॒वाना॑मु॒त मानु॑षाणां ।
तं ब्रा᳚ह्म॒णा-स्सो॑म॒पा-स्सो॒म्यासः॑ । प्रो॒ष्ठ॒प॒दासो॑ अ॒भिर॑क्षन्ति॒ सर्वे᳚ ।
च॒त्वार॒ एक॑म॒भि कर्म॑ दे॒वाः । प्रो॒ष्ठ॒प॒दास॒ इति॒ यान्. वद॑न्ति ।
ते बु॒द्धनियं॑ परि॒षद्यᳺ॑ स्तु॒वन्तः॑ । अहिꣳ॑ रक्षन्ति॒ नम॑सोप॒ सद्य॑ ॥ 26
पू॒षा रे॒वत्यन्वे॑ति॒ पन्थां᳚ । पु॒ष्टि॒पती॑ पशु॒पा वाज॑बस्त्यौ ।
इ॒मानि॑ ह॒व्या प्रय॑ता जुषा॒णा । सु॒गैर्नो॒ यानै॒रुप॑यातां ँय॒ज्ञं ।
क्षु॒द्रान् प॒शून् र॑क्षतु रे॒वती॑ नः । गावो॑ नो॒ अश्वा॒ꣳ॒ अन्वे॑तु पू॒षा ।
अन्न॒ꣳ॒ रक्ष॑न्तौ बहु॒॒धा विरू॑पं । वाजꣳ॑ सनुतां॒ ँयज॑मानाय य॒ज्ञं ॥ 27
तद॒श्विना॑-वश्व॒युजो-प॑यातां । शुभ॒ङ्गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः᳚ ।
स्वन्नक्ष॑त्रꣳ ह॒विषा॒ यज॑न्तौ । मद्ध्वा॒-संपृ॑क्तौ॒ यजु॑षा॒ सम॑क्तौ ।
यौ दे॒वानां᳚ भि॒षजौ॑ हव्यवा॒हौ । विश्व॑स्य दू॒ता-व॒मृत॑स्य गो॒पौ ।
तौ नक्ष॑त्रं-जुजुषा॒णो-प॑यातां । नमो॒ऽश्विभ्यां᳚ कृणुमो-ऽश्व॒ग्युभ्यां᳚ ॥ 28
अप॑ पा॒प्मानं॒ भर॑णीर् भरन्तु । तद् य॒मो राजा॒ भग॑वा॒न॒. विच॑ष्टां ।
लो॒कस्य॒ राजा॑ मह॒तो म॒हान्. हि । सु॒गन्नः॒ पन्था॒मभ॑यं कृणोतु ।
यस्मि॒न् नक्ष॑त्रे य॒म एति॒ राजा᳚ । यस्मि॑न्नेन-म॒भ्यषि॑ञ्चन्त दे॒वाः ।
तद॑स्य चि॒त्रꣳ ह॒विषा॑ यजाम । अप॑ पा॒प्मानं॒ भर॑णीर् भरन्तु ॥ 29
नि॒वेश॑नी स॒ङ्गम॑नी॒ वसू॑नां॒ ँविश्वा॑ रू॒पाणि॒ वसू᳚न्या-वे॒शय॑न्ती ।
स॒ह॒स्र॒-पो॒षꣳ सु॒भगा॒ ररा॑णा॒ सा न॒ आग॒न् वर्च॑सा सं ँविदा॒ना ।
यत्ते॑ दे॒वा अद॑धुर् भाग॒धेय॒-ममा॑वास्ये सं॒ ँवस॑न्तो महि॒त्वा ।
सा नो॑ य॒ज्ञं पि॑पृहि विश्ववारे र॒यिन्नो॑ धेहि सुभगे सु॒वीरं᳚ ॥ 30
Optional Additional Chanting (31 to 40)
नवो॑ नवो भवति॒ जाय॑मा॒नोऽह्नां᳚ के॒तु-रु॒षसा॑ मे॒त्यग्रे᳚ ।
भा॒गं दे॒वेभ्यो॒ विद॑धात्या॒यन् प्रच॒न्द्रमा᳚स्तिरति दी॒र्घमायुः॑ ॥
यमा॑दि॒त्या अ॒ꣳ॒शुमा᳚प्या॒यय॑न्ति॒ यमक्षि॑त॒-मक्षि॑तयः॒ पिब॑न्ति ।
तेन॑ नो॒ राजा॒ वरु॑णो॒ बृह॒स्पति॒ राप्या॑ययन्तु॒ भुव॑नस्य गो॒पाः ॥ 31
ये विरू॑पे॒ सम॑नसा सं ँव्यय॑न्ती । स॒मा॒नं तन्तुं॑ परिता-त॒नाते᳚ ।
वि॒भू प्र॒भू अ॑नु॒भू वि॒श्वतो॑ हुवे । ते नो॒ नक्ष॑त्रे॒ हव॒माग॑-मेतं ।
व॒यं दे॒वी ब्रह्म॑णा संवि ँदा॒नाः । सु॒रत्ना॑सो दे॒ववी॑तिं॒ दधा॑नाः ।
अ॒हो॒रा॒त्रे ह॒विषा॑ व॒र्द्धय॑न्तः । अति॑ पा॒प्मान॒-मति॑मुक्त्या गमेम ॥ 32
प्रत्यु॑व दृश्याय॒ती । व्यु॒च्छन्ती॑ दुहि॒ता दि॒वः ।
अ॒पो म॒ही वृ॑णुते॒ चक्षु॑षा । तमो॒ ज्योति॑ष्कृणोति सू॒नरी᳚ ।
उदु॒ स्त्रिया᳚स्सचते॒ सूर्यः॑ । स चा॑ उ॒द्यन्नक्ष॑त्र मर्चि॒मत् ।
त वेदु॑षो॒ व्युषि॒ सूर्य॑स्य च । संभ॒क्तेन॑ गमेमहि ॥ 33
तन्नो॒ नक्ष॑त्र मर्चि॒मत् । भा॒नु॒मत्तेज॑ उ॒च्छर॑त् ।
उप॑य॒ज्ञ-मि॒हाग॑मत् । प्रनक्ष॑त्राय दे॒वाय॑ । इन्द्रा॒येन्दुꣳ॑ हवामहे ।
स न॑ स्सवि॒ता सु॑वथ् स॒निं । पु॒ष्टि॒दां ँवी॒रव॑त्तमं ॥ 34
उदु॒त्यं जा॒तवे॑दसं दे॒वं ँव॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्यं᳚ ।
चि॒त्रं दे॒वाना॒ मुद॑गा॒दनी॑कं॒ चक्षु॑र् मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ꣳ॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ 35
अदि॑तिर्न उरुष्य॒-त्वदि॑तिः॒ शर्म॑ यच्छतु । अदि॑तिः पा॒त्वꣳ ह॑सः।
म॒हीमू॒षु मा॒तरꣳ॑ सुव्र॒ताना॑-मृ॒तस्य॒ पत्नी॒ मव॑से हुवेम ।
तु॒वि॒क्ष॒त्रा-म॒जर॑न्ती मुरू॒चीꣳ सु॒शर्मा॑ण॒-मदि॑तिꣳ सु॒प्रणी॑तिं ॥ 36
इ॒दं ँविष्णु॒र् विच॑क्रमे त्रे॒धा निद॑धे प॒दं । समू॑ढमस्य पाꣳ सु॒रे ।
प्रतद्विष्णु॑स् स्तवते वी॒र्या॑य । मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः ।
यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु । अधि॑क्षि॒यन्ति॒ भुव॑नानि॒ विश्वा᳚ ॥ 37
अ॒ग्निर् मू॒द्र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यं ।
अ॒पाꣳ रेताꣳ॑सि जिन्वति ।
भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑ ।
दि॒वि मू॒द्र्धानं॑ दधिषे सुव॒र्॒.षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाहं᳚ ॥ 38
अनु॑नो॒ऽद्यानु॑मतिर् य॒ज्ञं दे॒वेषु॑ मन्यतां ।
अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तां दा॒शुषे॒ मयः॑ ।
अन्विद॑नुमते॒ त्वं मन्या॑सै॒ शंच॑ नः कृधि ।
क्रत्वे॒ दक्षा॑य नो हिनु॒ प्रण॒ आयूꣳ॑षि तारिषः ॥ 39
ह॒व्य॒वाह॑मभि-माति॒षाहं᳚ । र॒क्षो॒हणं॒ पृत॑नासु जि॒ष्णुं ।
ज्योति॑ष्मन्तं॒ दीद्य॑तं॒ पुर॑न्धिं । अ॒ग्निᳺ स्वि॑ष्ट॒ कृत॒माहु॑वेम ।
स्वि॑ष्ट मग्ने अ॒भितत् पृ॑णाहि । विश्वा॑ देव॒ पृत॑ना अ॒भिष्य ।
उ॒रुन्नः॒ पन्थां᳚ प्रदि॒शन् विभा॑हि । ज्योति॑ष्मद्धेह्य॒ जर॑न्न॒ आयुः॑ ॥ 40
20. शान्ति पञ्चकं TA 5.1.1
ॐ शन्नो॑ मि॒त्रः शं ँवरु॑णः । शन्नो॑ भवत्वर्य॒मा ।
शन्न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शन्नो॒ विष्णु॑रुरुक्र॒मः ।
नमो॒ ब्रह्म॑णे । नम॑स्ते वायो ।
त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि ।
ऋ॒तं ँव॑दिष्यामि । स॒त्यं ँव॑दिष्यामि ।
तन्माम॑वतु । तद्व॒क्तार॑मवतु । अव॑तु॒ मां । अव॑तु व॒क्तारं᳚ ॥ 1
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
TA 5.12.1
ॐ शन्नो॑ मि॒त्रः शं ँवरु॑णः । शन्नो॑ भवत्वर्य॒मा ।
शन्न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शन्नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे ।
नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वामे॒व प्र॒त्यक्षं॒ ब्रह्मावा॑दिषं ।
ऋ॒तम॑वादिषं । स॒त्यम॑वादिषं । तन्मामा॑वीत् । तद्व॒क्तार॑मावीत् ।
आवी॒न्मां । आवी᳚द्व॒क्तारं᳚ ॥ 2
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
TA 5.13.1
ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒-वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥ 3
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
TA 7.1.1
नमो॑ वा॒चे या चो॑दि॒ता या चानु॑दिता॒ तस्यै॑ वा॒चे नमो॒
नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नम॒ ऋषि॑भ्यो मन्त्र॒कृद्भ्यो॒ मन्त्र॑पतिभ्यो॒
मा मामृष॑यो मन्त्र॒कृतो॑ मन्त्र॒पत॑यः॒ परा॑दु॒र्मा-ऽहमृषी᳚न् मन्त्र॒कृतो॑
मन्त्र॒पती॒न् परा॑दां ँवैश्वदे॒वीं ँवाच॑मुद्यासꣳ शि॒वा मद॑स्ता॒ञ्जुष्टां᳚
दे॒वेभ्यः॒ शर्म॑ मे॒ द्यौः शर्म॑ पृथि॒वी शर्म॒ विश्व॑मि॒दं जग॑त् ।
शर्म॑ च॒न्द्रश्च॒ सूर्य॑श्च॒ शर्म॑ ब्रह्म प्रजाप॒ती ।
भू॒तं ँव॑दिष्ये॒ भुव॑नं ँवदिष्ये॒ तेजो॑ वदिष्ये॒ यशो॑ वदिष्ये॒ तपो॑ वदिष्ये॒
ब्रह्म॑ वदिष्ये स॒त्यं ँव॑दिष्ये॒ तस्मा॑ अ॒हमि॒द-मु॑प॒स्तर॑ण॒-मुप॑स्तृण
उप॒स्तर॑णं मे प्र॒जायै॑ पशू॒नां भू॑यादुप॒स्तर॑णम॒हं प्र॒जायै॑ पशू॒नां
भू॑यासं॒ प्राणा॑पानौ मृ॒त्योर्मा॑पातं॒ प्राणा॑पानौ॒ मा मा॑ हासिष्टं॒ मधु॑
मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीं दे॒वेभ्यो॒
वाच॑मुद्यासꣳ शुश्रू॒षेण्यां᳚ मनु॒ष्ये᳚भ्य॒स्तं मा॑ दे॒वा अ॑वन्तु
शो॒भायै॑ पि॒तरो ऽनु॑मदन्तु ॥ 4
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ॐ तच्छं॒ ँयोरावृ॑णीमहे । गा॒तुं ँय॒ज्ञाय॑ । गा॒तुं ँय॒ज्ञप॑तये ।
दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्-मानु॑षेभ्यः ।
ऊ॒द्र्ध्वं जि॑गातु भेष॒जं । शन्नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे ॥ 5
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
21. रुद्र नमकं TS 2.3.14.3
ॐ । ग॒णाना᳚न्त्वा ग॒णप॑तिꣳ हवामहे क॒विं क॑वी॒ना-मु॑प॒मश्र॑वस्तमं ।
ज्ये॒ष्ठ॒॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आन॑श्शृ॒ण्वन्नू॒॒तिभिः॑ सीद॒ साद॑नं ॥
श्री महागणपतये नमः ॥
TS 4.7.3.1
शं च॑ मे॒ , मय॑श्च मे, प्रि॒यं च॑ मे, ऽनुका॒मश्च॑ मे॒,
काम॑श्च मे , सौमन॒सश्च॑ मे, भ॒द्रं च॑ मे॒, श्रेय॑श्च मे॒,
वस्य॑श्च मे॒, यश॑श्च मे॒, भग॑श्च मे॒, द्रवि॑णं च मे,
य॒न्ता च॑ मे, ध॒र्ता च॑ मे॒, क्षेम॑श्च मे॒, धृति॑श्च मे॒,
विश्वं॑ च मे॒, मह॑श्च मे, सं॒ ँविच्च॑ मे॒, ज्ञात्र॑ञ्च मे॒,
सूश्च॑ मे, प्र॒सूश्च॑ मे॒, सीरं॑ च मे, ल॒यश्च॑ म,
ऋ॒तं च॑ मे॒, ऽमृतं॑ च मे, ऽय॒क्ष्मं च॒ मे , ऽना॑मयच्च मे,
जी॒वातु॑श्च मे, दीर्घायु॒त्वं च॑ मे, ऽनमि॒त्रं च॒ मे, ऽभ॑यं च मे,
सु॒गं च॑ मे॒, शय॑नं च मे, सू॒षा च॑ मे, सु॒दिनं॑ च मे ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
(TS 4.5.1 - 4.5.11)
प्रथमोऽनुवाकः
ॐ नमो भगवते॑ रुद्रा॒य ॥
ॐ नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑ ।
नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑ । 1.1
या त॒ इषुः॑ शि॒वत॑मा शि॒वं ब॒भूव॑ ते॒ धनः॑ ।
शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय । 1.2
या ते॑ रुद्र शि॒वा त॒नूरघो॒रा ऽपा॑पकाशिनी ।
तया॑ नस्त॒नुवा॒ शन्त॑मया॒ गिरि॑शन्ता॒-भिचा॑कशीहि । 1.3
यामिषुं॑ गिरिशन्त॒ हस्ते॒ बिभ॒र्ष्यस्त॑वे ।
शि॒वाङ्गि॑रित्र॒ ताङ्कु॑रु॒ मा हिꣳ॑सीः॒॒ पुरु॑षं॒ जग॑त् । 1.4
शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाच्छा॑ वदामसि ।
यथा॑ न॒स्सर्व॒मि-ज्जग॑द य॒क्ष्मꣳ सु॒मना॒ अस॑त् । 1.5
अद्ध्य॑वोचदधि-व॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् ।
अहीᳺ॑श्च॒॒ सर्वा᳚न् ज॒भंय॒न् थ्सर्वा᳚श्च यातु धा॒न्यः॑ । 1.6
अ॒सौ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भृस्सु॑म॒ङ्गलः॑ ।
ये चे॒माꣳ रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शो ऽवै॑षा॒ꣳ॒ हेड॑ ईमहे । 1.7
अ॒सौ यो॑ ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः ।
उ॒तैनं॑ गो॒पा अ॑दृश॒न्-नदृ॑शन्-नुदहा॒र्यः॑ ।
उ॒तैनं॒- ँविश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृ॑डयाति नः । 1.8
नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे᳚ ।
अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ ऽकर॒न्नमः॑ ।1.9
प्रमु॑ञ्च॒ धन्व॑न॒- स्त्वमु॒भयो॒-रार्त्नि॑यो॒र्ज्यां ।
याश्च॑ ते॒ हस्त॒ इष॑वः॒ परा॒ ता भ॑गवो वप । 1.10
अ॒व॒तत्य॒ धनु॒स्त्वꣳ सह॑स्राक्ष॒ शते॑षुधे ।
नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव । 1.11
विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाꣳ उ॒त ।
अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निष॒ङ्गथिः॑ । 1.12
या ते॑ हे॒तिर्-मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ ।
तया॒ऽस्मान् वि॒श्वत॒ स्त्वम॑य॒क्ष्मया॒ परि॑ब्भुज । 1.13
नम॑स्ते अ॒स्त्वायु॑धा॒या-ना॑तताय धृ॒ष्णवे᳚ ।
उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने । 1.14
परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान् वृ॑णक्तु वि॒श्वतः॑ ।
अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्निधे॑हि॒ तं ॥1 (1.15)
नम॑स्ते अस्तु भगवन् विश्वेश्व॒राय॑ महादे॒वाय॑ त्र्यंब॒काय॑ त्रिपुरान्त॒काय॑
त्रिकाग्नि-का॒लाय॑ कालाग्नि-रु॒द्राय॑ नीलक॒ण्ठाय॑ मृत्युञ्ज॒याय॑
सर्वेश्व॒राय॑ सदाशि॒वाय॑ (शङ्क॒राय॑) श्रीमन्-महादे॒वाय॒ नमः॑ ॥
द्वितीयोऽनुवाकः
नमो॒ हिर॑ण्य बाहवे सेना॒न्ये॑ दि॒शांच॒ पत॑ये॒ नमो॒ 2.1
नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ 2.2
नम॑स्स॒स्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ 2.3
नमो॑ बभ्लु॒शाय॑ विव्या॒धिने-ऽन्ना॑नां॒ पत॑ये॒ नमो॒ 2.4
नमो॒ हरि॑केशा-योपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नमो॒ 2.5
नमो॑ भ॒वस्य॑ हे॒त्यै जग॑तां॒ पत॑ये॒ नमो॒ 2.6
नमो॑ रु॒द्राया॑-तता॒विने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒ 2.7
नमः॑ सू॒ताया-ह॑न्त्याय॒ वना॑नां॒ पत॑ये॒ नमो॒ 2.8
नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒ 2.9
नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒ 2.10
नमो॑ भुव॒न्तये॑ वारिवस्कृ॒ता-यौष॑धीनां॒ पत॑ये॒ नमो॒ 2.11
नम॑ उ॒च्चैर्-घो॑षाया क्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नमो॒ 2.12
नमः॑ कृथ्स्नवी॒ताय॒ धाव॑ते॒ सत्त्व॑नां॒ पत॑ये॒ नमः॑ ॥ 2 (2.13)
तृतीयोऽनुवाकः
नम॒ स्सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒ 3.1
नमः॑ ककु॒भाय॑ निष॒ङ्गिणे᳚ स्ते॒नानां॒ पत॑ये॒ नमो॒ 3.2
नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ 3.3
नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ 3.4
नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नमो॒ 3.5
नमः॑ सृका॒विभ्यो॒ जिघाꣳ॑सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ 3.6
नमो॑ ऽसि॒मद्भ्यो॒ नक्तं॒ चर॑द्भ्यः प्रकृ॒न्तानां॒ पत॑ये॒ नमो॒ 3.7
नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ 3.8
नम॒ इषु॑मद्भ्यो धन्वा॒विभ्य॑श्च वो॒ नमो॒ 3.9
नम॑ आतन्वा॒नेभ्यः॑ प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ 3.10
नम॑ आ॒यच्छ॑द्भ्यो विसृ॒जद्भ्य॑श्च वो॒ नमो॒ 3.11
नमोऽस्य॑द्भ्यो॒ विद्ध्य॑द्भ्यश्च वो॒ नमो॒ 3.12
नम॒ आसी॑नेभ्यः॒ शया॑नेभ्यश्च वो॒ नमो॒ 3.13
नम॑स्स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒ 3.14
नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नमो॒ 3.15
नम॑स्स॒भाभ्य॑ स्स॒भाप॑तिभ्यश्च वो॒ नमो॒ 3.16
नमो॒ अश्वे॒भ्यो ऽश्व॑पतिभ्यश्च वो॒ नमः॑ ॥ 3 ॥ 3.17
चतुर्त्थोऽनुवाकः
नम॑ आव्या॒धिनी᳚भ्यो वि॒विद्ध्य॑न्तीभ्यश्च वो॒ नमो॒ 4.1
नम॒ उग॑णाभ्य स्तृꣳह॒तीभ्य॑श्च वो॒ नमो॒ 4.2
नमो॑ गृ॒थ्सेभ्यो॑ गृ॒थ्सप॑तिभ्यश्च वो॒ नमो॒ 4.3
नमो॒ व्राते᳚भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ 4.4
नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ 4.5
नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नमो॒ 4.6
नमो॑ म॒हद्भ्यः॑ क्षुल्ल॒केभ्य॑श्च वो॒ नमो॒ 4.7
नमो॑ र॒थिभ्यो॑ ऽर॒थेभ्य॑श्च वो॒ नमो॒ 4.8
नमो॒ रथे᳚भ्यो॒ रथ॑पतिभ्यश्च वो॒ नमो॒ 4.9
नमः॒ सेना᳚भ्य स्सेना॒निभ्य॑श्च वो॒ नमो॒ 4.10
नमः॑ क्ष॒त्तृभ्य॑ स्संग्रही॒तृभ्य॑श्च वो॒ नमो॒ 4.11
नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒ 4.12
नमः॒ कुला॑लेभ्यः क॒र्मारे᳚भ्यश्च वो॒ नमो॒ 4.13
नमः॑ पु॒ञ्जिष्टे᳚भ्यो निषा॒देभ्य॑श्च वो॒ नमो॒ 4.14
नम॑ इषु॒कृद्भ्यो॑ धन्व॒कृद्भ्य॑श्च वो॒ नमो॒ 4.15
नमो॑ मृग॒युभ्य॑ श्श्व॒निभ्य॑श्च वो॒ नमो॒ 4.16
नमः॒ श्वभ्य॒ श्श्वप॑तिभ्यश्च वो॒ नमः॑ ॥ 4 4.17
पञ्चमोऽनुवाकः
नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नम॑श्श॒र्वाय॑ च पशु॒पत॑ये च॒
नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च॒ नमः॑ कप॒र्दिने॑ च॒ व्यु॑प्तकेशाय च॒
नम॑ स्सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒ नमो॑ गिरि॒शाय॑ च शिपिवि॒ष्टाय॑ च॒
नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च॒ नमो᳚ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒
नमो॑ बृह॒ते च॒ वर्.षि॑यसे च॒ नमो॑ वृ॒द्धाय॑ च स॒म् ँवृद्ध्व॑ने च॒
नमो॒ अग्रि॑याय च प्रथ॒माय॑ च॒ नम॑ आ॒शवे॑ चाजि॒राय॑ च॒
नमः॒ शीघ्रि॑याय च॒ शीभ्या॑य च॒ नम॑ ऊ॒र्म्या॑य चावस्व॒न्या॑य च॒
नमः॑ स्रोत॒स्या॑य च॒ द्वीप्या॑य च ॥ 5
षष्ठोऽनुवाकः
नमो᳚ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नमः॑ पूर्व॒जाय॑ चापर॒जाय॑ च॒
नमो॑ मद्ध्य॒माय॑ चापग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या॑य च॒ बुद्ध्नि॑याय च॒
नम॑स्सो॒भ्या॑य च प्रतिस॒र्या॑य च॒ नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒
नम॑ उर्व॒र्या॑य च॒ खल्या॑य च॒ नम॒श्श्लोक्या॑य चावसा॒न्या॑य च॒
नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒ नम॑श्श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒
नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒ नमः॒ शूरा॑य चावभिन्द॒ते च॒
नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒ नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒
नमः॑ शृ॒ताय॑ च शृतसे॒नाय॑ च ॥ 6
सप्तमोऽनुवाकः
नमो॑ दुन्दु॒भ्या॑य चाहन॒न्या॑य च॒ नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒
नमो॑ दू॒ताय॑ च॒ प्रहि॑ताय च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒
नम॑ स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒ नमः॑ स्वायु॒धाय॑ च सु॒धन्व॑ने च॒
नम॒स्सृत्या॑य च॒ पथ्या॑य च॒ नमः॑ का॒ट्या॑य च नी॒प्या॑य च॒
नमः॒ सूद्या॑य च सर॒स्या॑य च॒ नमो॑ ना॒द्याय॑ च वैश॒न्ताय॑ च॒
नमः॒ कूप्या॑य चाव॒ट्या॑य च॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च॒
नमो॑ मे॒घ्या॑य च विद्यु॒त्या॑य च॒ नम॑ ई॒द्ध्रिया॑य चात॒प्या॑य च॒
नमो॒ वात्या॑य च॒ रेष्मि॑याय च॒ नमो॑ वास्त॒व्या॑य च वास्तु॒पाय॑ च ॥ 7
अष्टमोऽनुवाकः
नमः॒ सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च॒
नम॑श्श॒ङ्गाय॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒
नमो॑ अग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒
नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒
नम॑स्ता॒राय॒
नम॑श्श॒भंवे॑ च मयो॒भवे॑ च॒
नम॑श्शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नम॑श्शि॒वाय॑ च शि॒वत॑राय च॒
नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒ नमः॑ पा॒र्या॑य चावा॒र्या॑य च॒
नमः॑ प्र॒तर॑णाय चो॒त्तर॑णाय च॒ नम॑ आता॒र्या॑य चाला॒द्या॑य च॒
नम॒श्शष्प्या॑य च॒ फेन्या॑य च॒ नमः॑ सिक॒त्या॑य च प्रवा॒ह्या॑य च ॥ 8
नवमोऽनुवाकः
नम॑ इरि॒ण्या॑य च प्रप॒थ्या॑य च॒ नमः॑ किꣳशि॒लाय॑ च॒ क्षय॑णाय च॒
नमः॑ कप॒र्दिने॑ च पुल॒स्तये॑ च॒ नमो॒ गोष्ठ्या॑य च॒ गृह्या॑य च॒
नम॒ स्तल्प्या॑य च॒ गेह्या॑य च॒ नमः॑ का॒ट्या॑य च गह्वरे॒ष्ठाय॑ च॒
नमो᳚ ह्रद॒य्या॑य च निवे॒ष्प्या॑य च॒ नमः॑ पाꣳस॒व्या॑य च रज॒स्या॑य च॒
नमः॒ शुष्क्या॑य च हरि॒त्या॑य च॒ नमो॒ लोप्या॑य चोल॒प्या॑य च॒
नम॑ ऊ॒र्व्या॑य च सू॒र्म्या॑य च॒ नमः॑ प॒र्ण्या॑य च पर्णश॒द्या॑य च॒
नमो॑ऽपगु॒रमा॑णाय चाभिघ्न॒ते च॒ नम॑ आक्खिद॒ते च॑ प्रक्खिद॒ते च॒
नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ꣳ॒ हृद॑येभ्यो॒ नमो॑ विक्षीण॒केभ्यो॒
नमो॑ विचिन्व॒त्केभ्यो॒ नम॑ आनिर्.ह॒तेभ्यो॒ नम॑ आमीव॒त्केभ्यः॑ ॥ 9
दशमोऽनुवाकः
द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒न्नील॑लोहित ।
ए॒षां पुरु॑षाणामे॒षां प॑शू॒नां मा भे र्माऽरो॒ मो ए॑षां॒ किञ्च॒नाम॑मत् । 10.1
या ते॑ रुद्र शि॒वा त॒नूश्शि॒वा वि॒श्वाह॑भेषजी ।
शि॒वा रु॒द्रस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे᳚ । 10.2
इ॒माꣳ रु॒द्राय॑ त॒वसे॑ कप॒र्दिने᳚ क्ष॒यद्वी॑राय॒ प्रभ॑रामहे म॒तिं ।
यथा॑ नः॒ शमस॑द्-द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मि-न्नना॑तुरं । 10.3
मृ॒डा नो॑ रुद्रो॒ तनो॒ मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम ते ।
यच्छञ्च॒ योश्च॒ मनु॑राय॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तौ । 10.4
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तं ।
मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः । 10.5
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मानो॑ रुद्र भामि॒तोव॑धीर्. ह॒विष्म॑न्तो॒ नम॑सा विधेम ते । 10.6
आ॒रात्ते॑ गो॒घ्न उ॒त पू॑रुष॒घ्ने क्ष॒यद्वी॑राय सु॒म्न-म॒स्मे ते॑ अस्तु ।
रक्षा॑ च नो॒ अधि॑ च देव ब्रू॒ह्यधा॑ च नः॒ शर्म॑ यच्छद्वि॒बर्.हाः᳚ । 10.7
स्तु॒हि शृ॒तं ग॑र्त्त॒सदं॒ ँयुवा॑नं मृ॒गन्न भी॒म-मु॑पह॒त्नु-मु॒ग्रं ।
मृ॒डा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो अ॒न्यन्ते॑ अ॒स्मन्निव॑पन्तु॒ सेनाः᳚ । 10.8
परि॑णो रु॒द्रस्य॑ हे॒तिर् वृ॑णक्तु॒ परि॑त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।
अव॑ स्थि॒रा म॒घव॑द्भ्य-स्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय । 10.9
मीढु॑ष्टम॒ शिव॑तम शि॒वो न॑स्सु॒मना॑ भव ।
प॒र॒मे वृ॒क्ष आयु॑धन्नि॒धाय॒ कृत्तिं॒ ँवसा॑न॒ आच॑र॒ पिना॑कं॒ बिभ्र॒दाग॑हि । 10.10
विकि॑रिद॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः ।
यास्ते॑ स॒हस्रꣳ॑ हे॒तयो॒ऽन्य-म॒स्मन्निव॑पन्तु॒ ताः । 10.11
स॒हस्रा॑णि सहस्र॒धा बा॑हु॒वोस्तव॑ हे॒तयः॑ ।
तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ॥ 10 ॥10.12
एकादशोऽनुवाकः
स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्यां᳚ ।
तेषाꣳ॑ सहस्रयोज॒ने ऽव॒धन्वा॑नि तन्मसि । 11.1
अ॒स्मिन्-म॑ह॒त्य॑र्ण॒वे᳚-ऽन्तरि॑क्षे भ॒वा अधि॑ । 11.2
नील॑ग्रीवाः शिति॒कण्ठाः᳚ श॒र्वा अ॒धः क्ष॑माच॒राः । 11.3
नील॑ग्रीवा-श्शिति॒कण्ठा॒ दिवꣳ॑ रु॒द्रा उप॑श्रिताः । 11.4
ये वृ॒क्षेषु॑ स॒स्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः । 11.5
ये भू॒ताना॒-मधि॑पतयो विशि॒खासः॑ कप॒र्दिनः॑ । 11.6
ये अन्ने॑षु वि॒विद्ध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जनान्॑ । 11.7
ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा य॒व्युधः॑ । 11.8
ये ती॒र्त्थानि॑ प्र॒चर॑न्ति सृ॒काव॑न्तो निष॒ङ्गिणः॑ । 11.9
य ए॒ताव॑न्तश्च॒ भूयाꣳ॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे ।
तेषाꣳ॑ सहस्रयोज॒ने ऽव॒धन्वा॑नि तन्मसि । 11.10
नमो॑ रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां ँये᳚ऽन्तरि॑क्षे॒ ये दि॒वि येषा॒मन्नं॒ ँवातो॑
व॒र्॒.षमिष॑व॒स्-तेभ्यो॒ दश॒ प्राची॒ र्दश॑दक्षि॒णा दश॑प्र॒तीची॒र्
दशोदी॑ची॒र् दशो॒द्र्ध्वा-स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒ तं ँवो॒ जंभे॑ दधामि ॥ 11 (11.11 )
त्र्यंबकादि महामन्त्रः
TS 1.8.6.2 for 1 / TS 5.5.9.3 for 2 / RV.5.42.11 for 3 / RV 10.60.12 for 4 /
TB 3.10.8.2 for 5 / T.A.6.58.1 for 6/ T.A.6.75.1 & T.A.6.74.1
for 7 )
त्र्यं॑बकं ँयजामहे सुग॒न्धिं पु॑ष्टि॒वद्र्ध॑नं ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान् मृ॒त्योर् मु॑क्षीय॒ माऽमृता᳚त् ॥ 1
यो रु॒द्रो अ॒ग्नौ यो अ॒फ्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒
भुव॑ना ऽऽवि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥ 2
तमु॑ष्टु॒हि यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ ।
यक्ष्वा᳚म॒हे सौ᳚मन॒साय॑ रु॒द्रं नमो᳚भिर्-दे॒वमसु॑रं दुवस्य ॥ 3
अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः ।
अ॒यं मे᳚ वि॒श्व-भे᳚षजो॒यꣳ शि॒वाभि॑मर्.शनः ॥ 4
ये ते॑ स॒हस्र॑म॒युतं॒ पाशा॒ मृत्यो॒ मर्त्या॑य॒ हन्त॑वे ।
तान्. य॒ज्ञस्य॑ मा॒यया॒ सर्वा॒नव॑ यजामहे ॥ 5
मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा᳚ ॥ 6
ॐ नमो भगवते रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि ॥
प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः । तेनान्नेना᳚प्याय॒स्व ॥ 7
नमो रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
22. चमकं TS 4.7.1 - 4.7.11
प्रथमोऽनुवाकः
ॐ अग्ना॑विष्णू स॒जोष॑से॒मा व॑र्द्धन्तु वा॒ङ्गिरः॑ ।
ध्यु॒नैंर्-वाजे॑भि॒-राग॑तं ॥
वाज॑श्च मे, प्रस॒वश्च॑ मे॒, प्रय॑तिश्च मे॒, प्रसि॑तिश्च मे,
धी॒तिश्च॑ मे॒, क्रतु॑श्च मे॒ , स्वर॑श्च मे॒, श्लोक॑श्च मे,
श्रा॒वश्च॑ मे॒ , शृति॑श्च मे॒, ज्योति॑श्च मे॒ , सुव॑श्च मे,
प्रा॒णश्च॑ मे, ऽपा॒नश्च॑ मे , व्या॒नश्च॒ मे, ऽसु॑श्च मे,
चि॒त्तं च॑ म॒, आधी॑तं च मे॒, वाक्च॑ मे॒, मन॑श्च मे॒,
चक्षु॑श्च मे॒ , श्रोत्रं॑ च मे॒ , दक्ष॑श्च मे॒ , बलं॑ च म॒,
ओज॑श्च मे॒ , सह॑श्च म॒, आयु॑श्च मे, ज॒रा च॑ म,
आ॒त्मा च॑ मे, त॒नूश्च॑ मे॒, शर्म॑ च मे॒, वर्म॑ च॒ मे,
ऽङ्गा॑नि च मे॒, ऽस्थानि॑ च मे॒, परूꣳ॑षि च मे॒, शरी॑राणि च मे ॥ 1 (36)
द्वितीयोऽनुवाकः
ज्यैष्ठ्यं॑ च म॒, आधि॑पत्यं च मे, म॒न्युश्च॑ मे॒, भाम॑श्च॒ मे,
ऽम॑श्च॒ मे, ऽम्भ॑श्च मे, जे॒मा च॑ मे, महि॒मा च॑ मे,
वरि॒मा च॑ मे, प्रथि॒मा च॑ मे, व॒र्ष्मा च॑ मे , द्राघु॒या च॑ मे,
वृ॒द्धं च॑ मे॒, वृद्धि॑श्च मे, स॒त्यं च॑ मे, श्र॒द्धा च॑ मे॒,
जग॑च्च मे॒, धनं॑ च मे॒, वश॑श्च मे॒, त्विषि॑श्च मे,
क्री॒डा च॑ मे॒, मोद॑श्च मे, जा॒तं च॑ मे, जनि॒ष्यमा॑णं च मे,
सू॒क्तं च॑ मे , सुकृ॒तं च॑ मे, वि॒त्तं च॑ मे॒, वेद्यं॑ च मे,
भू॒तंच॑ मे, भवि॒ष्यच्च॑ मे , सु॒गं च॑ मे, सु॒पथं॑ च म,
ऋ॒द्धं च॑ म॒, ऋद्धि॑श्च मे, क्लृ॒प्तं च॑ मे॒, क्लृप्ति॑श्च मे,
म॒तिश्च॑ मे, सुम॒तिश्च॑ मे ॥ 2 (38)
तृतीयोऽनुवाकः
शं च॑ मे॒ , मय॑श्च मे, प्रि॒यं च॑ मे, ऽनुका॒मश्च॑ मे॒,
काम॑श्च मे , सौमन॒सश्च॑ मे, भ॒द्रं च॑ मे॒, श्रेय॑श्च मे॒,
वस्य॑श्च मे॒, यश॑श्च मे॒, भग॑श्च मे॒, द्रवि॑णं च मे,
य॒न्ता च॑ मे, ध॒र्ता च॑ मे॒, क्षेम॑श्च मे॒, धृति॑श्च मे॒,
विश्वं॑ च मे॒, मह॑श्च मे, सं॒ ँविच्च॑ मे॒, ज्ञात्रं॑ च मे॒,
सूश्च॑ मे, प्र॒सूश्च॑ मे॒, सीरं॑ च मे, ल॒यश्च॑ म ,
ऋ॒तं च॑ मे॒, ऽमृतं॑ च, मेऽय॒क्ष्मं च॒ मे, ऽना॑मयच्च मे,
जी॒वातु॑श्च मे, दीर्घायु॒त्वं च॑ मे, ऽनमि॒त्रं च॒ मे, ऽभ॑यं च मे,
सु॒गं च॑ मे॒, शय॑नं च मे, सू॒षा च॑ मे, सु॒दिनं॑ च मे ॥ 3 (36)
चतुर्त्थोऽनुवाकः
ऊर्क्च॑ मे, सू॒नृता॑ च मे॒ , पय॑श्च मे॒ , रस॑श्च मे,
घृ॒तं च॑ मे॒, मधु॑ च मे॒ , सग्धि॑श्च मे॒, सपी॑तिश्च मे,
कृ॒षिश्च॑ मे॒, वृष्टि॑श्च मे॒, जैत्रं॑ च म॒, औद्भि॑ध्यं च मे ,
र॒यिश्च॑ मे॒, राय॑श्च मे , पु॒ष्टं च॑ मे॒, पुष्टि॑श्च मे,
वि॒भु च॑ मे, प्र॒भु च॑ मे, ब॒हु च॑ मे॒, भूय॑श्च मे,
पू॒र्णं च॑ मे, पू॒र्णत॑रं च॒ मे ऽक्षि॑तिश्च मे॒, कूय॑वाश्च॒ मे,
ऽन्नं॑ च॒ मे, ऽक्षु॑च्च मे, व्री॒हय॑श्च मे॒, यवा᳚श्च मे॒,
माषा᳚श्च मे॒, तिला᳚श्च मे, मु॒द्गाश्च॑ मे, ख॒ल्वा᳚श्च मे,
गो॒धूमा᳚श्च मे , म॒सुरा᳚श्च मे, प्रि॒यंग॑वश्च॒ मे ऽण॑वश्च मे,
श्या॒माका᳚श्च मे, नी॒वारा᳚श्च मे ॥ 4 (38)
पञ्चमोऽनुवाकः
अश्मा॑ च मे॒, मृत्ति॑का च मे, गि॒रय॑श्च मे॒, पर्व॑ताश्च मे॒,
सिक॑ताश्च मे॒, वन॒स्पत॑यश्च मे॒, हिर॑ण्यं च॒ मे, ऽय॑श्च मे॒ ,
सीसं॑ च मे॒, त्रपु॑श्च मे, श्या॒मं च॑ मे, लो॒हं च॑ मे॒,
ऽग्निश्च॑ म॒, आप॑श्च मे, वी॒रुध॑श्च म॒, ओष॑धयश्च मे,
कृष्टप॒च्यं च॑ मे, ऽकृष्टप॒च्यं च॑ मे,
ग्रा॒यांश्च॑ मे, प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञेन॑ कल्पन्तां ,
ँवि॒त्तं च॑ मे॒, वित्ति॑श्च मे, भू॒तं च॑ मे, भूति॑श्च मे॒,
वसु॑ च मे, वस॒तिश्च॑ मे॒, कर्म॑ च मे॒, शक्ति॑श्च॒ मे,
ऽर्थ॑श्च म॒, एम॑श्च म॒, इति॑श्च मे॒, गति॑श्च मे ॥ 5 (32)
षष्ठोऽनुवाकः
अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒, सोम॑श्च म॒ इन्द्र॑श्च मे,
सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒, सर॑स्वती च म॒ इन्द्र॑श्च मे,
पू॒षा च॑ म॒ इन्द्र॑श्च मे॒, बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे,
मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒, वरु॑णश्च म॒ इन्द्र॑श्च मे॒,
त्वष्टा॑ च म॒ इन्द्र॑श्च मे, धा॒ता च॑ म॒ इन्द्र॑श्च मे॒,
विष्णु॑श्च म॒ इन्द्र॑श्च मे॒ , ऽश्विनौ॑ च म॒ इन्द्र॑श्च मे,
म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒, विश्वे॑ च मे, दे॒वा इन्द्र॑श्च मे,
पृथि॒वी च॑ म॒ इन्द्र॑श्च मे॒, ऽन्तरि॑क्षं च म॒ इन्द्र॑श्च मे॒,
द्यौश्च॑ म॒ इन्द्र॑श्च मे॒, दिश॑श्च म॒ इन्द्र॑श्च मे,
मू॒र्द्धा च॑ म॒ इन्द्र॑श्च मे, प्र॒जाप॑तिश्च म॒ इन्द्र॑श्च मे ॥ 6 (21)
सप्तमोऽनुवाकः
अ॒ꣳ॒शुश्च॑ मे, र॒श्मिश्च॒ मे, ऽदा᳚भ्यश्च॒ मे, ऽधि॑पतिश्च म,
उपा॒ꣳ॒शुश्च॑ मे, ऽन्तर्या॒मश्च॑ म, ऐन्द्रवाय॒वश्च॑ मे, मैत्रावरु॒णश्च॑ म,
आश्वि॒नश्च॑ मे, प्रतिप्र॒स्थान॑श्च मे, शु॒क्रश्च॑ मे, म॒न्थी च॑ म,
आग्रय॒णश्च॑ मे, वैश्वदे॒वश्च॑ मे, धृ॒वश्च॑ मे, वैश्वान॒रश्च॑ म,
ऋतुग्र॒हाश्च॑ मे, ऽतिग्रा॒ह्या᳚श्च म, ऐन्द्रा॒ग्नश्च॑ मे, वैश्वदे॒वश्च॑ मे,
मरुत्व॒तीया᳚श्च मे, माहे॒न्द्रश्च॑ म, आदि॒त्यश्च॑ मे, सावि॒त्रश्च॑ मे,
सारस्व॒तश्च॑ मे, पौ॒ष्णश्च॑ मे, पात्नीव॒तश्च॑ मे, हारियोज॒नश्च॑ मे ॥ 7 (28)
अष्टमोऽनुवाकः
इ॒द्ध्मश्च॑ मे, ब॒र्॒.हिश्च॑ मे॒, वेदि॑श्च मे॒, धिष्णि॑याश्च मे॒,
सृच॑श्च मे, चम॒साश्च॑ मे॒, ग्रावा॑णश्च मे॒, स्वर॑वश्च म,
उपर॒वाश्च॑ मे, ऽधि॒षव॑णे च मे, द्रोणकल॒शश्च॑ मे, वाय॒व्या॑नि च मे,
पूत॒भृच्च॑ म, आधव॒नीय॑श्च म॒, आग्नी᳚द्ध्रं च मे, हवि॒र्धानं॑ च मे,
गृ॒हाश्च॑ मे॒, सद॑श्च मे, पुरो॒डाशा᳚श्च मे, पच॒ताश्च॑ मे,
ऽवभृ॒थश्च॑ मे, स्वगाका॒रश्च॑ मे ॥ 8 (22)
नवमोऽनुवाकः
अ॒ग्निश्च॑ मे, घ॒र्मश्च॑ मे॒, ऽर्कश्च॑ मे॒, सूर्य॑श्च मे,
प्रा॒णश्च॑ मे, ऽश्वमे॒धश्च॑ मे, पृथि॒वी च॒ मे, ऽदि॑तिश्च मे॒,
दिति॑श्च मे॒, द्यौश्च॑ मे॒, शक्व॑रीर॒ङ्गुल॑यो॒-दिश॑श्च मे,
य॒ज्ञेन॑ कल्पन्ता॒- मृक्च॑ मे॒, साम॑ च मे॒, स्तोम॑श्च मे॒, यजु॑श्च मे,
दी॒क्षा च॑ मे॒, तप॑श्च म, ऋ॒तुश्च॑ मे , व्र॒तं च॑ मे
ऽहोरा॒त्रयो᳚र् वृ॒ष्ट्या, बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पेतां ॥ 9 (21)
दशमोऽनुवाकः
गर्भा᳚श्च मे, व॒थ्साश्च॑ मे॒, त्र्यवि॑श्च मे, त्र्य॒वीच॑ मे ,
दित्य॒वाट् च॑ मे, दित्यौ॒ही च॑ मे॒, पञ्चा॑विश्च मे, पञ्चा॒वी च॑ मे,
त्रिव॒थ्सश्च॑ मे, त्रिव॒थ्सा च॑ मे, तुर्य॒वाट् च॑ मे, तुर्यौ॒ही च॑ मे,
पष्ठ॒वाट् च॑ मे, पष्ठौ॒ही च॑ म, उ॒क्षा च॑ मे, व॒शा च॑ म
ऋष॒भश्च॑ मे, वे॒हच्च॑ मे, ऽन॒ड्वान् च॑ मे, धे॒नुश्च॑ म॒
आयु॑र्-य॒ज्ञेन॑ कल्पतां, प्रा॒णो य॒ज्ञेन॑ कल्पता-
मपा॒नो य॒ज्ञेन॑ कल्पतां , ँव्या॒नो य॒ज्ञेन॑ कल्पतां॒
चक्षु॑र्-य॒ज्ञेन॑ कल्पता॒ᳺ॒, श्रोत्रं॑ ँय॒ज्ञेन॑ कल्पतां॒
मनो॑ य॒ज्ञेन॑ कल्पतां॒ , ँवाग्य॒ज्ञेन॑ कल्पता-
मा॒त्मा य॒ज्ञेन॑ कल्पतां , ँय॒ज्ञो य॒ज्ञेन॑ कल्पतां ॥ 10 (29)
एकादशोऽनुवाकः
एका॑ च मे, ति॒स्रश्च॑ मे॒, पञ्च॑ च मे, स॒प्त च॑ मे॒,
नव॑ च म॒, एका॑दश च मे॒, त्रयो॑दश च मे॒, पञ्च॑दश च मे,
स॒प्तद॑श च मे॒, नव॑दश च म॒, एक॑विꣳशतिश्च मे॒,
त्रयो॑विꣳशतिश्च मे॒, पञ्च॑विꣳशतिश्च मे, स॒प्त विꣳ॑शतिश्च मे॒,
नव॑विꣳशतिश्च म॒, एक॑त्रिꣳशच्च मे॒,
त्रय॑स्त्रिꣳशच्च मे॒, चत॑स्रश्च मे॒, ऽष्टौ च॑ मे॒ , द्वाद॑श च मे॒,
षोड॑श च मे, विꣳश॒तिश्च॑ मे॒, चतु॑र्विꣳशतिश्च मे॒, ऽष्टाविꣳ॑शतिश्च मे॒,
द्वात्रिꣳ॑शच्च मे॒, षट्त्रिꣳ॑शच्च मे, चत्वारि॒ꣳ॒शच्च॑ मे॒ ,
चतु॑श्चत्वारिꣳशच्च मे॒, ऽष्टाच॑त्वारिꣳशच्च मे॒ वाज॑श्च,
प्रस॒वश्चा॑-पि॒जश्च॒ क्रतु॑श्च॒ सुव॑श्च मू॒र्धा च॒ व्यश्ञि॑य
-श्चान्त्याय॒नश्चान्त्य॑श्च भौव॒नश्च॒ भुव॑न॒श्चा-धि॑पतिश्च ॥ 11 (41)
(TS 3.3.2.1)
इडा॑ देव॒हूर्-मनु॑र्-यज्ञ॒नीर् बृह॒स्पति॑-रुक्थाम॒दानि॑ शꣳसिष॒द्-
विश्वे॑-दे॒वाः सू᳚क्त॒वाचः॒ पृथि॑विमात॒र्मा मा॑ हिꣳसी॒र्-मधु॑
मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीं
दे॒वेभ्यो॒ वाच॑मुद्यासꣳ-शुश्रू॒षेण्यां᳚ मनु॒ष्ये᳚भ्य॒स्तं मा॑ दे॒वा अ॑वन्तु
शो॒भायै॑ पि॒तरो ऽनु॑मदन्तु ॥
(ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
23. पुरुष सूक्तं TA 3.12.1
ॐ । स॒हस्र॑शीर्.षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ ँवि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्-दशाङ्गु॒लं । पुरु॑ष ए॒वेदꣳ सर्वं᳚ ।
यद् भू॒तं ँयच्च॒ भव्यं᳚ । उ॒तामृ॑त॒त्व-स्येशा॑नः । यदन्ने॑नाति॒-रोह॑ति ।
ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाᳺ॑श्च॒ पूरु॑षः ॥ 1
पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒-मृत॑न्दि॒वि । त्रि॒पादू॒द्र्ध्व
उदै॒त् पुरु॑षः । पादो᳚स्ये॒हा ऽऽभ॑वा॒त्पुनः॑ । ततो॒ विष्व॒ङ् व्य॑क्रामत् ।
सा॒श॒ना॒न॒श॒ने अ॒भि । तस्मा᳚द् वि॒राड॑ जायत । वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत । प॒श्चाद् भूमि॒मथो॑ पु॒रः ॥ 2
यत् पुरु॑षेण ह॒विषा᳚ । दे॒वा य॒ज्ञमत॑न्वत । व॒स॒न्तो अ॑स्या-सी॒दाज्यं᳚ ।
ग्री॒ष्म इ॒द्ध्म-श्श॒रद्ध॒विः । स॒प्तास्या॑सन् परि॒धयः॑ ।
त्रिस्स॒प्त स॒मिधः॑ कृ॒ताः । दे॒वा यद् य॒ज्ञं-त॑न्वा॒नाः ।
अब॑द्ध्न॒न् पुरु॑षं प॒शुं । तं ँय॒ज्ञं ब॒र्॒.हिषि॒ प्रौक्षन्न्॑ ।
पुरु॑षं जा॒तम॑ग्र॒तः ॥ 3
तेन॑ दे॒वा अय॑जन्त । सा॒द्ध्या ऋष॑यश्च॒ ये । तस्मा᳚द् य॒ज्ञाथ् स॑र्व॒हुतः॑ ।
संभृ॑तं पृषदा॒ज्यं । प॒शूᳺस्ताᳺश्च॑क्रे वाय॒व्यान्॑ ।
आ॒र॒ण्यान्-ग्रा॒म्याश्च॒ ये । तस्मा᳚द् य॒॒ज्ञाथ् स॑र्व॒हुतः॑ ।
ऋचः॒ सामा॑नि जज्ञिरे । छन्दाꣳ॑सि जज्ञिरे॒ तस्मा᳚त् ।
यजु॒स्तस्मा॑ दजायत ॥ 4
तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा᳚त् ।
तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ । यत्पुरु॑षं॒ ँव्य॑दधुः । क॒ति॒धा व्य॑कल्पयन्न् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते ।
ब्रा॒ह्म॒णो᳚स्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः ॥ 5
ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्याꣳ शू॒द्रो अ॑जायतः ।
च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षो॒-स्सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑-श्चा॒ग्निश्च॑ । प्रा॒णाद् वा॒यु-र॑जायत ।
नाभ्या॑ आसीद॒न्तरि॑क्षं । शी॒र्ष्णो द्यौः सम॑वर्त्तत ।
प॒द्भ्यां भूमि॒ र्दिशः॒ श्रोत्रा᳚त् । तथा॑ लो॒काꣳ अ॑कल्पयन्न् ॥ 6
वेदा॒हमे॒तं पुरु॑षं म॒हान्तं᳚ । आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वाभि॒वद॒न्॒. यदास्ते᳚ ।
धा॒ता पु॒रस्ता॒द्यमु॑दा ज॒हार॑ । श॒क्रः प्रवि॒द्वान् प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं ँवि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते ।
य॒ज्ञेन॑ य॒ज्ञ-म॑यजन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्न् ।
ते ह॒ नाकं॑ महि॒मान॑स्सचन्ते । यत्र॒ पूर्वे॑ सा॒द्ध्या-स्सन्ति॑ दे॒वाः ॥ 7
(ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥)
“ ॐ नमो नारा॑यणा॒य ”
(It is customary to chant this during continous chanting of Uttara Narayanam)
24. उत्तर नारायणं TA 3.13.1
अ॒द्भ्यस्संभू॑तः पृथि॒व्यै रसा᳚च्च । वि॒श्वक॑र्मणः॒ सम॑वर्त्त॒ताधि॑ ।
तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तत्पुरु॑षस्य॒ विश्व॒ माजा॑न॒मग्रे᳚ ॥ 1
वेदा॒हमे॒तं पुरु॑षं म॒हान्तं᳚ । आ॒दि॒त्य व॑र्णं॒ तम॑सः॒ पर॑स्तात् ।
तमे॒वं ँवि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒तेऽय॑नाय ॥ 2
प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मानो बहु॒धा विजा॑यते ।
तस्य॒ धीराः॒ परि॑जानन्ति॒ योनिं᳚ । मरी॑चीनां प॒दमि॑च्छन्ति वे॒धसः॑ ॥ 3
यो दे॒वेभ्य॒ आत॑पति । यो दे॒वानां᳚ पु॒रोहि॑तः ।
पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः । नमो॑ रु॒चाय॒ ब्राह्म॑ये ॥ 4
रुचं॑ ब्रा॒ह्मञ्ज॒नय॑न्तः । दे॒वा अग्रे॒ तद॑बृवन्न् ।
यस्त्वै॒वं ब्रा᳚ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अस॒न्वशे᳚ ॥ 5
ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ᳚ । अ॒हो॒रा॒त्रे पा॒र्श्वे ।
नक्ष॑त्राणि रू॒पं । अ॒श्विनौ॒ व्यात्तं᳚ ।
इ॒ष्टं म॑निषाण । अ॒मुं म॑निषाण । सर्वं॑ मनिषाण ॥ 6
25. महा नारायणं TA 6.11.1
स॒ह॒स्र॒शीर्.षं॑ दे॒वं॒ ँवि॒श्वाक्षं॑ ँवि॒श्वशं॑ भुवं ।
विश्वं॑ ना॒राय॑णं दे॒व॒म॒क्षरं॑ पर॒मं प॒दं ॥ 1
वि॒श्वतः॒ पर॑मान्नि॒त्यं॒ ँवि॒श्वं ना॑राय॒णꣳ ह॑रिं ।
विश्व॑मे॒वेदं पुरु॑ष॒ स्तद्विश्व॒-मुप॑जीवति ॥ 2
पतिं॒ ँविश्व॑स्या॒त्मेश्व॑र॒ꣳ॒ शाश्व॑तꣳ शि॒वम॑च्युतं ।
ना॒राय॒णं म॑हाज्ञे॒यं॒ ँवि॒श्वात्मा॑नं प॒राय॑णं ॥ 3
ना॒राय॒ण प॑रो ज्यो॒ति॒रा॒त्मा ना॑रय॒णः प॑रः ॥ 4
ना॒राय॒ण प॑रं ब्र॒ह्म॒ त॒त्त्वं ना॑राय॒णः
प॑रः ।
ना॒राय॒ण प॑रो ध्या॒ता॒ ध्या॒नं ना॑राय॒णः
प॑रः ।
यच्च॑ कि॒ञ्चिज्-ज॑गथ्स॒र्वं॒ दृ॒श्यते᳚ श्रूय॒तेऽपि॑
वा ।
अन्त॑र् ब॒हिश्च॑ तथ् स॒र्वं॒ ँव्या॒प्य ना॑राय॒णः स्थि॑तः ॥ 5
अन॑न्त॒ मव्य॑यं क॒विꣳ स॑मु॒द्रेऽन्तं॑ ँवि॒श्वश॑भुंवं ।
प॒द्म॒को॒श-प्र॑तीका॒श॒ꣳ॒ हृ॒दयं॑ चाप्य॒धोमु॑खं ॥ 6
अधो॑ नि॒ष्ट्या वि॑तस्त्या॒न्ते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति ।
ज्वा॒ल॒मा॒लाकु॑लं भा॒ती॒ वि॒श्वस्या॑यत॒नं म॑हत् ॥ 7
सन्त॑तꣳ शि॒लाभि॑स्तु॒ लंब॑त्या कोश॒सन्नि॑भं ।
तस्यान्ते॑ सुषि॒रꣳ सू॒क्ष्मं तस्मि᳚न्थ् स॒र्वं प्रति॑ष्ठितं ॥ 8
तस्य॒ मद्ध्ये॑ म॒हान॑ग्निर् वि॒श्वार्चि॑र्
वि॒श्वतो॑ मुखः ।
सोऽग्र॑भु॒ग् विभ॑जन् ति॒ष्ठ॒न्नाहा॑र-मज॒रः
क॒विः ॥ 9
ति॒र्य॒गू॒द्र्ध्व म॑धश्शा॒यी॒ र॒श्मय॑स्तस्य॒ सन्त॑ता ।
स॒न्ता॒पय॑ति स्वं दे॒हमापा॑दतल॒ मस्त॑कः ।
तस्य॒ मद्ध्ये॒ वह्नि॑ शिखा अ॒णीयो᳚द्र्ध्वा व्य॒वस्थि॑तः ॥ 10
नी॒लतो॑ यद॑ मद्ध्य॒स्था॒द् वि॒द्युल्ले॑खेव॒ भास्व॑रा ।
नी॒वार॒ शूक॑वत्त॒न्वी॒ पी॒ता भा᳚स्वत्य॒णूप॑मा ॥ 11
तस्याः᳚ शिखा॒या म॑द्ध्ये प॒रमा᳚त्मा व्य॒वस्थि॑तः ।
स ब्रह्म॒ स शिवः॒ स हरिः॒ सेन्द्रः॒ सोऽक्ष॑रः पर॒मः स्व॒राट् ॥ 12
ऋ॒तꣳ स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒ पिङ्ग॑लं ।
ऊ॒द्र्ध्वरे॑तं ँवि॑रूपा॒क्षं॒ ँवि॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ॥
ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि । तन्नो॑ विष्णुः प्रचो॒दया᳚त् ॥
विष्णो॒र्नुकं॑ ँवी॒र्या॑णि॒ प्रवो॑चं॒ ँयः पार्त्थि॑वानि विम॒मे राजाꣳ॑सि॒ यो
अस्क॑भाय॒-दुत्त॑रꣳ स॒धस्थं॑ ँविचक्रमा॒ण-स्त्रे॒धोरु॑गा॒यो
विष्णो॑-र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॑सि॒ विष्णो॒-श्नप्त्रे᳚स्थो॒ विष्णो॒-स्स्यूर॑सि॒ विष्णो᳚र् धृ॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥
*विष्णवे नारायणाय नमः ॥
(ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥)
26. घोष शान्ति TA 7.41.1
शन्नो॒ वातः॑ पवतां मात॒रिश्वा॒ शन्न॑ स्तपतु॒ सूर्यः॑ ।
अहा॑नि॒ शं भ॑वन्तु न॒ श्शꣳ रात्रिः॒ प्रति॑धीयतां ॥
शमु॒षा नो॒ व्यु॑च्छतु॒ शमा॑दि॒त्य उदे॑तु नः ।
शि॒वा न॒ श्शन्त॑माभव सुमृडी॒का सर॑स्वति । माते॒ व्यो॑म स॒न्दृशि॑ ॥ 1
इडा॑यै॒ वास्त्व॑सि वास्तु॒मद्वा᳚स्तु॒मन्तो॑ भूयास्म॒ मा वास्तो᳚श्छिथ्स्
मह्यवा॒स्तु स्स भू॑या॒द् यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥
प्र॒ति॒ष्ठाऽसि॑ प्रति॒ष्ठाव॑न्तो भूयास्म॒ मा प्र॑ति॒ष्ठाया᳚छिथ्स् मह्य
प्रति॒ष्ठस्स भू॑या॒द् यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥ 2
आवा॑त वाहि भेष॒जं ँविवा॑त-वाहि॒ यद्रपः॑ ।
त्वꣳहि वि॒श्वभे॑षजो दे॒वानां᳚ दू॒त ईय॑से ॥
द्वावि॒मौ वातौ॑ वात॒ आसिन्धो॒रा प॑रा॒वतः॑ ।
दक्षं॑ मे अ॒न्य आ॒वातु॒ परा॒ऽन्यो वा॑तु॒ यद्रपः॑ ॥
यद॒दो वा॑त ते गृ॒हे॑ऽमृत॑स्य नि॒धिर्.हि॒तः ।
ततो॑ नो देहि जी॒वसे॒ ततो॑ नो धेहि भेष॒जं ।
ततो॑ नो॒ मह॒ आव॑ह॒ वात॒ आवा॑तु भेष॒जं ॥
शं॒भूर्-म॑यो॒भूर्-नो॑ हृ॒दे प्रण॒ आयूꣳ॑षि तारिषत् । इन्द्र॑स्य गृ॒हो॑ऽसि॒ तं त्वा॒ प्रप॑द्ये॒ सगु॒स्साश्वः॑ । स॒ह यन्मे॒ अस्ति॒ तेन॑ ॥ 3
भूः प्रप॑द्ये॒ भुवः॒ प्रप॑द्ये॒ सुवः॒ प्रप॑द्ये॒ भूर्भुव॒स्सुवः॒ प्रप॑द्ये वा॒युं
प्रप॒द्येऽना᳚र्त्तां दे॒वतां॒ प्रप॒द्ये-ऽश्मा॑नमाख॒णं प्रप॑द्ये प्र॒जाप॑तेर्
ब्रह्मको॒शं ब्रह्म॒ प्रप॑द्य॒ ॐ प्रप॑द्ये ॥
अ॒न्तरि॑क्षं म उ॒र्व॑न्तरं॑ बृ॒हद॒ग्नयः॒ पर्व॑ताश्च॒ यया॒ वातः॑ स्व॒स्त्या
स्व॑स्ति॒मान्तया᳚ स्व॒स्त्या स्व॑स्ति॒ मान॑सानि ॥
प्राणा॑पानौ मृ॒त्योर् मा॑ पातं॒ प्राणा॑पानौ॒ मा मा॑ हासिष्टं॒ मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्नि स्तेजो॑ दधातु॒
मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒
मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥ 4
द्यु॒भिर॒क्तुभिः॒ परि॑पात-म॒स्मा-नरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒-मदि॑तिः॒-सिन्धुः॑ पृथि॒वी उ॒तद्यौः ॥
कया॑नश्चि॒त्र आभु॑व दू॒ती स॒दावृ॑ध॒ स्सखा᳚ । कया॒शचि॑ष्ठया वृ॒ता ॥
कस्त्वा॑ स॒त्यो मदा॑नां॒ मꣳहि॑ष्ठो मथ्स॒दन्ध॑सः ।
दृ॒ढा-चि॑दा॒-रुजे॒-वसु॑ ॥
अ॒भीषुण॒ स्सखी॑ना-मवि॒ता-ज॑रित्-ॠ॒णां । श॒तं भ॑वास्यू॒तिभिः॑ ॥
वय॑स्सुप॒र्णा उप॑सेदु॒रिन्द्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः ।
अप॑द्ध्वा॒न्तमू᳚र्णु॒हि पू॒र्द्धिचक्षु॑र् मुमु॒ग्ध्य॑स्मा-न्नि॒धये॑व ब॒द्धान् ॥
शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚ । शम् ँयो-र॒भिस्र॑वन्तुनः ॥
ईशा॑ना॒ वार्या॑णां॒ क्षय॑न्ती श्चर्.षणी॒नां । अ॒पो या॑चामि भेष॒जं ॥
सु॒मि॒त्रान॒ आप॒ ओष॑धय स्सन्तु दुर्मि॒त्रास्तस्मै॑ भूया-सु॒र्यो᳚ऽस्मान्
द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥ 5
आपो॒हिष्ठा म॑यो॒भुव॒-स्तान॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ।
तस्मा॒ अरं॑ गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था चनः ॥
पृ॒थि॒वी शा॒न्ता साऽग्निना॑ शा॒न्ता सा मे॑ शा॒न्ता शुचꣳ॑ शमयतु ।
अ॒न्तरि॑क्षꣳ शा॒न्तं तद् वा॒युना॑ शा॒न्तं तन्मे॑ शा॒न्तꣳ शुचꣳ॑ शमयतु ।
द्यौः शा॒न्ता साऽऽदि॒त्येन॑ शा॒न्ता सा मे॑ शा॒न्ता शुचꣳ॑ शमयतु ॥ 6
पृ॒थि॒वी शान्ति॑र॒न्तरि॑क्ष॒ꣳ॒ शान्ति॒र् द्यौ श्शान्ति॒र् दिशः॒ शान्ति॑-रवान्तरदि॒शाः-शान्ति॑-र॒ग्निश्शान्ति॑र्-वा॒युश्शान्ति॑-रादि॒त्य श्शान्ति॑-
श्च॒न्द्रमा॒ श्शान्ति॒र्-नक्ष॑त्राणि॒ शान्ति॒-राप॒श्शान्ति॒-रोष॑धय॒ श्शान्ति॒र्-
वन॒स्पत॑य॒ श्शान्ति॒र्-गौ श्शान्ति॑-र॒जा शान्ति॒-रश्व॒ श्शान्तिः॒ पुरु॑ष॒ श्शान्ति॒र् ब्रह्म॒ शान्ति॑र् ब्राह्म॒ण श्शान्ति॒-श्शान्ति॑-रे॒व शान्ति॒ श्शान्ति॑र् मे अस्तु शान्तिः॑ ॥
तया॒ऽहꣳ शा॒न्त्या स॑र्व शा॒न्त्या मह्यं॑ द्वि॒पदे॒ चतु॑ष्पदे च॒
शान्तिं॑ करोमि॒ शान्ति॑र् मे अस्तु॒ शान्तिः॑ ॥ 7
एह॒ श्रीश्च॒ ह्रीश्च॒ धृति॑श्च॒ तपो॑ मे॒धा प्र॑ति॒ष्ठा श्र॒द्धा स॒त्यं धर्म॑श्चै॒तानि॒
मोत्ति॑ष्ठन्त॒-मनूत्ति॑ष्ठन्तु॒ मामा॒ᳺ॒ श्रीश्च॒ ह्रीश्च॒ धृति॑श्च॒ तपो॑ मे॒धा प्र॑ति॒ष्ठा
श्र॒द्धा स॒त्यं धर्म॑श्चै॒तानि॑ मा॒ मा हा॑सिषुः ॥
उदायु॑षा स्वा॒युषो-दोष॑धीना॒ꣳ॒ रसे॒नोत् प॒र्जन्य॑स्य॒ शुष्मे॒णोद॑स्था-
म॒मृता॒ꣳ॒ अनु॑ ॥ तच्चक्षु॑र् दे॒वहि॑तं पु॒रस्ता᳚-च्छु॒क्रमु॒च्चर॑त् ॥ 8
पश्ये॑म श॒रद॑श्श॒तं जीवे॑म श॒रद॑श्श॒तं नन्दा॑म श॒रद॑श्श॒तं मोदा॑म
श॒रद॑श्श॒तं भवा॑म श॒रद॑श्श॒तꣳ शृ॒णवा॑म श॒रद॑श्श॒तं प्रब्र॑वाम
श॒रद॑श्श॒त-मजी॑तास्याम श॒रद॑श्श॒तं जोक्च॒ सूर्यं॑ दृ॒शे ॥
य उद॑गान् मह॒तोऽर्णवा᳚न् वि॒ब्राज॑मान-स्सरि॒रस्य॒ मद्ध्या॒थ्स मा॑
वृष॒भो लो॑हिता॒क्ष स्सूर्यो॑ विप॒श्चिन् मन॑सा पुनातु ॥ 9
ब्रह्म॑ण॒श्चोत॑न्यसि॒ ब्रह्म॑ण आ॒णीस्थो॒ ब्रह्म॑ण आ॒वप॑नमसि धारि॒तेयं
पृ॑थि॒वी ब्रह्म॑णा म॒ही धा॑रि॒त-मे॑नेन म॒हद॒न्तरि॑क्षं॒ दिवं॑ दाधार
पृथि॒वीꣳ सदे॑वां॒- ँयद॒हं- ँवेद॒ तद॒हं धा॑रयाणि॒ मामद्वेदोऽधि॒ विस्र॑सत् ।
मे॒धा॒म॒नी॒षे मावि॑शताꣳ स॒मीची॑ भू॒तस्य॒ भव्य॒स्याव॑रुद्ध्यै॒
सर्व॒मायु॑रयाणि॒ सर्व॒मायु॑रयाणि ॥ 10
आ॒भिर् गी॒र्भिर् यदतो॑न ऊ॒नमाप्या॑यय हरिवो॒ वर्द्ध॑मानः ।
य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ भूयिष्ठ॒भाजो॒ अध॑ते स्याम ।
ब्रह्म॒ प्रावा॑दिष्म॒ तन्नो॒ माहा॑सीत् ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
(Shanti Japam ends )
27. हिरण्यगर्भ सूक्तं TS 4.1.8.3
1. हि॒र॒ण्य॒ग॒र्भ स्सम॑वर्त्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
स दा॑धार पृथि॒वीं ध्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
2. यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।
य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
3. य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ ँयस्य॑ दे॒वाः ।
यस्य॑ छा॒याऽमृतं॒ ँयस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
4. यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्र र॒सया॑ स॒हाऽऽहुः ।
यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
5. यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने ।
यत्राधि॒सूर॒ उदि॑तौ॒ व्येति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
6. येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ढे येन॒ सुवः॑ स्तभि॒तं ँयेन॒ नाकः॑ ।
यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
7. आपो॑ ह॒ यन्म॑ह॒तीर् विश्व॒माय॒न् दक्ष॒न्दधा॑ना ज॒नय॑न्तीर॒ग्निं ।
ततो॑ दे॒वाना॒-न्निर॑वर्त्त॒ता-सु॒रेकः॒ कस्मै॑ देवाय हविषा विधेम ॥
8. यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒ द्दक्ष॒न्दधा॑ना ज॒नय॑न्तीर॒ग्निं ।
यो दे॒वेष्वधि॑ दे॒व येक॒ आसी॒त् कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
28. वेद काण्ड तैत्तिरीय संहिता
इ॒षेत्वो॒र्जेत्वा॑ वा॒यव॑स्थो पा॒यवः॑ स्थ दे॒वोवः॑ सवि॒ता प्रार्प॑यतु॒
श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आप्या॑यद्ध्व -मघ्निया देवभा॒ग मूर्ज॑स्वतीः॒ पय॑स्वतीः प्र॒जाव॑ती-रनमी॒वा अ॑य॒क्ष्मा मावः॑ स्ते॒न ई॑शत॒मा-
ऽघशꣳ॑ सो रु॒द्रस्य॑ हे॒तिः परि॑वो वृणक्तु धृ॒वा अ॒स्मिन् गोप॑तौ स्यात ब॒ह्वीर्-यज॑मानस्य प॒शून् पा॑हि ॥
वा॒य॒व्यᳺ॑ श्वे॒तमा ल॑भेत॒ भूति॑ कामो वा॒युर्वै-क्षेपि॑ष्ठा दे॒वता॑
वा॒युमे॒वस्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ भूतिं॑ गमयति॒
भव॑त्ये॒वाति॑ क्षिप्रा दे॒वतेत्या॑ हु॒स्सैन॑ मीश्व॒रा प्र॒दह॒ इत्ये॒तमे॒व सन्तं॑
ँवा॒यवे॑ नि॒युत्व॑त॒ आल॑भेत नि॒युद्वा अ॑स्य॒ धृति॑धृ॒॒त ए॒व भूति॒ मुपै॒त्य
प्र॑दाहाय॒ भव॑त्ये॒व ॥
प्र॒जाप॑ति-रकामयत प्र॒जा-स्सृ॑जे॒येति॒ सतपो॑ ऽतप्यत॒ स स॒र्पा न॑ सृजत॒ सो॑ऽकामयत, प्र॒जा-स्सृ॑जे॒येति॒ स द्वि॒तीय॑मतप्यत॒ स वयाᳺ॑स्य सृजत॒ सो॑ऽकामयत प्र॒जा-स्सृ॑जे॒येति॒, स तृ॒तीय॑मतप्यत॒ स ए॒तं दी᳚क्षित वा॒दम॑ पश्य॒त्तम॑वद॒त्ततो॒ वै स प्र॒जा अ॑सृजत॒, यत्तप॑स्त॒प्त्वा दी᳚क्षित वा॒दं ँवद॑ति प्र॒जा ए॒व तद्यज॑मानः ॥
यु॒ञ्जा॒नः प्र॑थ॒मं मन॑स्त॒त्वाय॑ सवि॒ता धियः॑ ।
अ॒ग्निं ज्योति॑-र्नि॒चाय्य॑ पृथि॒व्या अद्ध्याऽभ॑रत् ।
यु॒क्त्वाय॒ मन॑सा दे॒वान्-थ्सुव॑र्य॒तो धि॒या दिवं᳚ ।
बृ॒हज्ज्योतिः॑ करिष्य॒त स्स॑वि॒ता प्रसु॑वाति॒ तान् ।
यु॒क्तेन॒ मन॑सा व॒यं दे॒वस्य॑ सवि॒तुस्स॒वे । सु॒व॒र्गेया॑य॒ शक्त्यै᳚ ।
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ ।
विहोत्रा॑दधे वयुना॒ विदेक॒ इत् ॥
सा॒वि॒त्राणि॑ जुहोति॒ प्रसू᳚त्यै चतुर्गृही॒तेन॑ जुहोति॒,
चतु॑ष्पादः प॒शवः॑ प॒शूने॒वा व॑रुन्धे॒ च॑तस्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑तिष्ठति॒, छन्दाꣳ॑सि दे॒वेभ्यो ऽपा᳚क्रा म॒न्नवो॑ ऽभा॒गानि॑ ह॒व्यं,
व॑ ँक्ष्याम॒ इति॒ तेभ्य॑ ए॒तच्च॑तुर् गृही॒त-म॑धारयन्,
पुरोऽनुवा॒क्या॑यै या॒ज्या॑यै दे॒वता॑यै वषट्का॒राय॒ यच्च॑तुर् गृही॒तं
जु॒होति॒ छन्दाᳺ॑स्ये॒व तत् प्री॑णाति॒ तान्य॑स्य प्री॒तानि॑
दे॒वेभ्यो॑ ह॒व्यं व~ं॑हन्ति॒ यं का॒मये॑त ॥
प्रा॒चिन॑वꣳ शङ्करोति, देवमनु॒ष्या दिशो॒-व्य॑भजन्त॒, प्राची᳚न्दे॒वा
द॑क्षि॒णा पि॒तरः॑ प्र॒तीचीं᳚ मनु॒ष्या॑, उदी॑चीꣳ रु॒द्रायत् प्रा॒चीन॑वꣳ
शङ्क॒रोति॑, देवलो॒कमे॒व तद्यज॑मान उ॒पाव॑र्तते॒ परि॑श्रयत्य॒न्तर् हि॑तो॒हि, दे॑वलो॒को म॑नुष्य लो॒कान्नास्मा ल्लो॒काथ् , स्वे॑तव्य मि॒वे त्या॑हुः॒ कोहित द्वेद॒ यद्ध्य॒ मुष्मि॑न् ँलो॒केऽस्ति॑-वा॒नवेति॑ दि॒क्ष्व॑ती का॒शान् क॑रोति ।
प्र॒जन॑न॒म् ज्योति॑-र॒ग्निर्-दे॒वता॑ना॒म् ज्योति॑र् वि॒राट् , छन्द॑सा॒म् ज्योति॑र्-वि॒राड्-वा॒चो᳚ऽग्नौ सन्ति॑ष्ठते वि॒राज॑म॒भि संप॑द्यते॒ ,
तस्मा॒त्त-ज्ज्योति॑ रुच्यते॒, द्वौ स्तोमौ᳚ प्रातस्सव॒नं , ँव॑हतो॒ यथा᳚
प्रा॒णश्चा॑ पा॒नश्च॒, द्वौ माद्ध्य॑न्दिन॒ꣳ॒ सव॑नं॒- ँयथा॒ चक्षु॑श्च॒ श्रोत्र॑ञ्च॒,
द्वौ तृ॑तीय सव॒नं ँयथा॒ वाक्च॑ प्रति॒ष्ठा च॒, पुरु॑ष सम्मितो॒ वा ए॒ष
य॒ज्ञोऽस्थू॑रिः ॥
स॒मु॒द्र उ॒दर॑म॒न्तरि॑क्षं पा॒युर् द्यावा॑पृथि॒वी आ॒ण्डौ ग्रावा॒ शेप॒स्सोमो॒ रेतो॒ यज्जं॑ ज॒भ्यते॒ तद्विद्यो॑तते॒ यद्वि॑धूनु॒ते तथ्स्त॑नयति॒ यन्मेह॑ति॒ तद्व॑र्.षति॒ वागे॒वास्य॒ वा गह॒र्वा अश्व॑स्य॒ जाय॑मानस्य महि॒मा
पु॒रस्ता᳚ज्जायते॒ रात्रि॑रेनं महि॒मा प॒श्चादनु॑जायत ए॒तौ वै म॑हि॒माना॒
वश्व॑-म॒भित॒-स्संब॑भूवतुर्.॒हयो॑ दे॒वान॑वह॒दर्वा-ऽसु॑रान् वा॒जी
ग॑न्ध॒र्वानश्वो॑ मनु॒ष्या᳚न्थ्समु॒द्रोवा अश्व॑स्य॒ योनि॑ स्समु॒द्रो बन्धुः॑ ॥
ब॒ह्म॒ सन्ध॑त्तं॒ तन्मे॑ जिन्वतं । क्ष॒त्रꣳ सन्ध॑त्तं॒ तन्मे॑ जिन्वतं ।
इष॒ꣳ॒ सन्ध॑त्तं॒ ताम्मे॑ जिन्वतं । ऊर्ज॒ꣳ॒ सन्ध॑त्तं॒ ताम्मे॑ जिन्वतं ।
र॒यिꣳ सन्ध॑त्तं॒ ताम्मे॑ जिन्वतं । पुष्टि॒ꣳ॒ सन्ध॑त्तं॒ ताम्मे॑ जिन्वतं ।
प्र॒जाꣳ सन्ध॑त्तं॒ ताम्मे॑ जिन्वतं । प॒शून्थ्सन्ध॑त्तं॒ तान्मे॑ जिन्वतं ।
स्तु॒तो॑ऽसि॒जन॑धाः । दे॒वास्त्वा॑ शुक्र॒पाः प्रण॑यन्तु ॥
सु॒वीराः᳚ प्र॒जाः प्र॑ज॒नय॒न् परी॑हि ।
अङ्गि॑रसो॒ वै स॒त्रमा॑सत । तेषां॒ पृश्नि॑र्-घर्म॒धु-गा॑सीत् । सर्जी॒षेणा॑ जीवत् । ते᳚ऽबृवन्न् । कस्मै॒नु-स॒त्रमा᳚स्महे ।
ये᳚ऽस्या ओष॑धी॒र्न ज॒नया॑म॒ इति॑ ।
ते दि॒वो वृष्टि॑मसृजन्त । याव॑न्त स्स्तो॒का अ॒वा प॑द्यन्त । ताव॑ती॒रो-ष॑धयोऽजायन्त ।
ता जा॒ताः पि॒तरो॑ वि॒षेणा॑ लिंपन्न् ॥ [ ] तासां᳚ ज॒ग्ध्वा-रुप्यं॒त्यैत् ।
अ॒ग्निर्नः॑ पातु॒ कृत्ति॑काः । नक्ष॑त्रं दे॒वमि॑न्द्रि॒यम् ।
इ॒दमा॑सां- ँविचक्ष॒णम् । ह॒विरा॒सन् जु॑होतन ।
यस्य॒ भान्ति॑ र॒श्मयो॒ यस्य॑ के॒तवः॑ ।
यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा᳚ । स कृत्ति॑का-भिर॒भि सं॒ ँवसा॑नः । अ॒ग्निर्नो॑ दे॒वस्सु॑वि॒ते द॑धातु । प्र॒जाप॑ते रोहि॒णीवे॑तु॒ पत्नी᳚ । वि॒श्वरू॑पा बृह॒ती चि॒त्रभा॑नुः ॥ [ ] सा नो॑ य॒ज्ञस्य॑ सुवि॒ते द॑धातु ।
प्र॒जाप॑ति-रश्वमे॒ध म॑सृजत । सो᳚ऽस्माथ्सृ॒ष्टो-ऽपा᳚क्रामत् ।
तम॑ष्टाद॒शिभि॒रनु॒ प्रायु॑ङ्क्त । तमा᳚प्नोत् । तमा॒प्त्वाऽष्टा॑ द॒शिभि॒र वा॑रुन्ध ।
यद॑ष्टा द॒शिन॑ आल॒भ्यन्ते᳚ । य॒ज्ञमे॒वतै-रा॒प्त्वा यज॑मा॒नो ऽव॑रुन्धे ।
सं~ं॒व॒थ्स॒रस्य॒ वा ए॒षा प्र॑ति॒मा । यद॑ष्टाद॒शिनः॑ ।
द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑ । सं॒ ँव॒थ्स॒रो᳚ ऽष्टा द॒शः ॥
यद्द॑र्.शपूर्ण मा॒सौ यज॑ते । अश्व॑स्यै॒व मेद्ध्य॑स्य प॒दे प॑दे जुहोति ।
ए॒त द॑नुकृति हस्म॒वै पु॒रा । अश्व॑स्य॒ मेद्ध्य॑स्य प॒दे प॑दे जुह्वति ।
योवा अश्व॑स्य॒ मेद्ध्य॑स्य वि॒वर्त्त॑नं॒ ँवेद॑ ।
अश्व॑स्यै॒व मेद्ध्य॑स्य वि॒वर्त्त॑ने विवर्त्तने जुहोति ।
अ॒सौवा आ॑दि॒त्यो ऽश्वः॑ । स आ॑हव॒नीय॒माग॑च्छति ।
तद्विव॑र्त्तते । यद॑ग्निहो॒त्रं जु॒होति॑ ।
अश्व॑स्यै॒व मेद्ध्य॑स्य वि॒वर्त्त॑ने विवर्त्तने जुहोति ।
ए॒त द॑नुकृति हस्म॒वै पु॒रा ।
अश्व॑स्य॒ मेद्ध्य॑स्य वि॒वर्त्त॑ने विवर्त्तने जुह्वति ॥
सं॒ज्ञानं॑ ँवि॒ज्ञानं॑ प्र॒ज्ञानं॑ जा॒नद॑भि जा॒नत् ।
सं॒कल्प॑मानं प्र॒कल्प॑मान-मुप॒कल्प॑मान॒-मुप॑क्लृप्तं क्लृ॒प्तं ।
श्रेयो॒ वसी॑य आ॒यथ्स्संभू॑तं भू॒तं ।
चि॒त्रः के॒तुः प्र॒भाना॒भान्-थ्सं॒भान् ।
ज्योतिष्मा॒ᳺ॒ स्तेज॑स्वाना॒तप॒ᳺ॒ स्तप॑न्न भि॒तपन्न्॑ ।
रो॒च॒नो रोच॑मान-श्शोभ॒न-श्शोभ॑मानः क॒ल्याणः॑ ।
दर्.शा॑ दृ॒ष्टा द॑र्.श॒ता वि॒श्वरू॑पा सुदर्.श॒ना ।
आ॒प्याय॑मा-ना॒प्याय॑मा-ना॒प्याया॑ सू॒नृतेरा᳚ ।
आ॒पूर्य॑माणा॒ पूर्य॑माणा पू॒रय॑न्ती पू॒र्णा पौ᳚र्णमा॒सी ।
दा॒ता प्र॑दा॒ता ऽऽन॒न्दो मोदः॑ प्रमो॒दः ॥ [ ]
आ॒वे॒शय॑-न्निवे॒शय᳚न्-थ्सं॒ ँवेश॑न॒-स्सꣳ शा᳚न्त श्शा॒न्तः ।
तस्यै॒ वात्मा प॑द॒ वित्तंं ँवि॑दित्वा । न कर्म॑णा लिप्यते॒ पाप॑केन ।
पञ्च॑पञ्चा॒शत॑ स्त्रि॒वृत॑ स्सं ँवथ्स॒राः । पञ्च॑पञ्चा॒शतः॑ पञ्चद॒शाः ।
पञ्च॑पञ्चा॒शत॑ स्सप्तद॒शाः । पञ्च॑ पञ्चा॒ शत॑ एकवि॒ꣳ॒शाः ।
वि॒श्व॒ सृजाꣳ॑ स॒हस्र॑ सं ँवथ्सरं ।
ए॒ते न॒वै वि॑श्व॒ सृ॑ज इ॒दं ँविश्व॑मसृजन्त । यद्विश्व॒ मसृ॑जन्त ।
तस्मा᳚द्विश्व॒ सृजः॑ । विश्व॑मेना॒ ननु॒ प्रजा॑यते ।
ब्रह्म॑ण॒-स्सायु॑ज्यꣳ सलो॒कतां᳚ ँयन्ति ।
ए॒ता सा॑मे॒व दे॒वता॑ना॒ꣳ॒ सायु॑ज्यं । सा॒र्ष्टिताꣳ॑ समान लो॒कतां᳚ ँयन्ति ।
य ए॒त दु॑प॒यन्ति॑ । ये चै॑न॒त् प्राहुः॑ । येभ्य॑श्चैन॒त् प्राहुः॑ । ॐ ॥
भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र् यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्ठु॒वाꣳ स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ ँयदायुः॑ ।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र् दधातु । आप॑मापा-म॒पस्सर्वाः᳚ । अ॒स्मा-द॒स्मा-दि॒तोस्मुतः॑ ॥ [ ]
अ॒ग्निर्-वा॒युश्च॒ सूर्य॑श्च ।
तस्यै॒वं ँवि॒दुषो॑ य॒ज्ञस्या॒त्मा यज॑मान-श्श्र॒द्धा पत्नी॒ शरी॑र-
मि॒द्ध्ममुरो॒वेदि॒र्-लोमा॑नि ब॒र्.॒हिर् वे॒द-श्शिखा॒ हृद॑यं॒ ँयूपः॒ काम॒
आज्यं॑ म॒न्युः प॒शुस्तपो॒ ऽग्निर्-दम॑-श्शमयि॒ता दक्षि॑णा॒-वाग्घोता᳚
प्रा॒ण उ॑द्गा॒ता ,
चक्षु॑रध्व॒र्युर्-मनो॒ ब्रह्मा॒ श्रोत्र॑म॒ग्नी-ध्याव॒द्ध्रिय॑ते॒ सा दी॒क्षा यदश्र्ना॑ति॒
तद्धवि॒र्-यत्पिब॑ति॒ तद॑स्य सोमपा॒नं य ँद्रम॑ते॒ तदु॑प॒सदो॒ यथ्सं॒च-
र॑त्युप॒ विश॑-त्यु॒त्तिष्ठ॑ते च॒ सप्र॑व॒र्ग्यो॑ यन्मुखं॒ तदा॑हव॒नीयो॒ या व्याहृ॑ति-राहु॒तिर्-यद॑स्य ,
वि॒ज्ञानं॒ तज्जु॒होति॒ यथ्सा॒यं प्रा॒तर॑त्ति॒ तथ्स॒मिधं॒ य ँत्प्रा॒तर् म॒द्ध्यन्दि॑नꣳ
सा॒यञ्च॒ तानि॒ सव॑नानि॒ ये अ॑होरा॒त्रे ते द॑र्.शपूर्णमा॒सौ
ये᳚ऽद्र्धमा॒साश्च॒ मासा᳚श्च॒ ते चा॑तुर्मा॒स्यानि॒ य ऋ॒तव॒स्ते प॑शुब॒न्धा ये सं॑व ँथ्स॒राश्च॑ परिवथ्स॒राश्च॒ ते ऽह॑र्ग॒णा-स्स॑र्व वेद॒सं ँवा,
ए॒तथ्स॒त्रं ँयन्मर॑णं॒ तद॑व॒भृथ॑ ए॒तद्वै ज॑रामर्य-मग्निहो॒त्रꣳ स॒त्रं
ँय ए॒वं ँवि॒द्वा-नु॑द॒गय॑ने प्र॒मीय॑ते दे॒वाना॑मे॒व म॑हि॒मानं॑ ग॒त्वा
ऽऽदि॒त्यस्य॒ सायु॑ज्यं,
गच्छ॒त्यथ॒ यो द॑क्षि॒णे प्र॒मीय॑ते पितृ॒णा-मे॒व म॑हि॒मानं॑ ग॒त्वा च॒न्द्रम॑स॒ स्सायु॑ज्यꣳ सलो॒कता॑-माप्नोत्ये॒तौ वै सू᳚र्याचन्द्र॒मसौ᳚र्-महि॒मानौ᳚
ब्राह्म॒णो वि॒द्वान॒भि ज॑यति॒ तस्मा᳚द्ब्र॒ह्मणो॑ महि॒मान॑ माप्नोति॒
तस्मा᳚द्ब्र॒ह्मणो॑ महि॒मान॑-मित्युप॒निषत् ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
29. ऋचां प्राची TB 3.12.9.1
ऋ॒चां प्राची॑ मह॒ती दिगु॑च्यते । दक्षि॑णा-माहु॒र्-यजु॑षा-मपा॒रां ।
अथ॑र्वणा॒-मग्ङि॑रसां प्र॒तीची᳚ । साम्ना॒-मुदी॑ची मह॒ती दिगु॑च्यते ।
ऋ॒ग्भिः पू᳚र्वा॒ह्णे दि॒वि दे॒व ई॑यते । य॒जु॒र्वे॒दे ति॑ष्ठति॒ मद्ध्ये॒ अह्नः॑ ।
सा॒म॒वे॒दे-ना᳚स्तम॒ये मही॑यते । वेदै॒-रशू᳚न्य-स्त्रि॒भिरे॑ति॒ सूर्यः॑ ।
ऋ॒ग्भ्यो जा॒ताꣳ स॑र्व॒शो मूर्त्ति॑-माहुः ।
सर्वा॒ गति॑र्-याजु॒षी है॒व शश्व॑त् ॥
सर्वं॒ तेज॑ स्सामरू॒प्यꣳ ह॑ शश्वत् । सर्वꣳ॑ हे॒दं ब्रह्म॑णा है॒व सृ॒ष्टं ॥ 1
ऋ॒ग्भ्यो जा॒तं ँवैश्यं॒ ँवर्ण॑-माहुः । य॒जु॒र्वे॒दं क्ष॑त्रि॒यस्या॑-हु॒र्योनिं᳚ ।
सा॒म॒वे॒दो ब्रा᳚ह्म॒णानां॒ प्रसू॑तिः । पूर्वे॒ पूर्वे᳚भ्यो॒ वच॑ ए॒त-दू॑चुः ।
आ॒द॒र॒.श-म॒ग्निं चि॑न्वा॒नाः । पूर्वे॑ विश्व॒ सृजो॒ऽमृताः᳚ । श॒तं ँव॑र्.ष सह॒स्राणि॑ । दी॒क्षि॒ता स्स॒त्र-मा॑सत ॥ तप॑ आसीद् गृ॒हप॑तिः । ब्रह्म॑ ब्र॒ह्मा भ॑वथ् स्व॒यं ।
स॒त्यꣳह॒ हो तै॑षा॒-मासी᳚त् । यद् वि॑श्व॒सृज॒ आस॑त ॥ 2
अ॒मृत॑-मेभ्य॒ उद॑गायत् । स॒हस्रं॑ परिवथ्स॒रान् ।
भू॒तꣳह॑ प्रस्तो॒-तैषा॒-मासी᳚त् । भ॒वि॒ष्यत् प्रति॑ चाहरत् ।
प्रा॒णो अ॑द्ध्व॒र्यु-र॑भवत् । इ॒दꣳ सर्व॒ꣳ॒ सिषा॑सतां ॥ 3
अ॒पा॒नो वि॒द्वा-ना॒वृतः॑ ।
प्रति॒ प्राति॑ष्ठ-दद्ध्व॒रे । आ॒र्त्त॒वा उ॑पगा॒तारः॑ ।
स॒द॒स्या॑ ऋ॒तवो॑-ऽभवन्न् । अ॒र्द्ध॒मा॒साश्च॒ मासा᳚श्च । च॒म॒सा॒-द्ध्व॒र्य॒वो ऽभ॑वन्न् ।
अशꣳ॑ स॒द् ब्रह्म॑ण॒-स्तेजः॑ । अ॒च्छा॒ वा॒कोऽभ॑व॒द्-यशः॑ ।
ऋ॒त-मे॑षां प्रशा॒स्ता-ऽऽसी᳚त् । यद् वि॑श्व॒ सृज॒ आस॑त ॥ 4
ऊर्ग्-राजा॑न॒-मुद॑वहत् । धृ॒व॒ गो॒प स्सहो॑-ऽभवत् ।
ओजो॒ऽभ्य॑ष्टौ॒द् ग्राव्.ण्णः॑ । यद् वि॑श्व॒ सृज॒ आस॑त ।
अप॑चितिः पो॒त्रीया॑-मयजत् । ने॒ष्ट्रीया॑-मयज॒त् त्विषिः॑ ।
आग्नी᳚द्ध्राद् वि॒दुषी॑ स॒त्यं । श्र॒द्धा है॒वा य॑जथ् स्व॒यं । इरा॒ पत्नी॑ विश्व॒ सृजां᳚ । आकू॑ति-रपिनड्ढ॒विः ॥ इ॒द्ध्मꣳ ह॒ क्षुच् चै᳚-भ्य उ॒ग्रे । तृ॒ष्णा चा व॑हतामु॒भे । वागे॑षाꣳ सुब्रह्म॒ण्या-ऽऽ*सी᳚त् । छ॒न्दो॒ यो॒गान्. वि॑जान॒ती । क॒ल्प॒त॒न्त्राणि॑ तन्वा॒ना ऽहः॑ । स॒ᳺ॒ स्थाश्च॑ सर्व॒शः ॥ 5
अ॒हो॒रा॒त्रे प॑शु पा॒ल्यौ । मु॒हू॒र्त्ताः प्रे॒ष्या॑ अभवन् । मृ॒त्युस्तद॑-भव-द्धा॒ता । श॒मि॒तो-ग्रो वि॒शां पतिः॑ ॥ वि॒श्व॒सृजः॑ प्रथ॒मा स्स॒त्र-मा॑सत । स॒हस्र॑ समं॒ प्रसु॑तेन॒ यन्तः॑ ।
ततो॑ ह जज्ञे॒ भुव॑नस्य गो॒पाः । हि॒र॒ण्मय॑ श्श॒कुनि॒र् ब्रह्म॒ नाम॑ ।
येन॒ सूर्य॒-स्तप॑ति॒ तेज॑से॒द्धः । पि॒ता पु॒त्रेण॑ पितृ॒मान्. योनि॑योनौ ।
नावे॑दविन् मनुते॒ तं बृ॒हन्तं᳚ । स॒र्वा॒नु॒भु-मा॒त्मानꣳ॑ संपरा॒ये ॥ 6
ए॒ष नि॒त्यो म॑हि॒मा ब्रा᳚ह्म॒णस्य॑ । न कर्म॑णा वर्द्धते॒ नो कनी॑यान् ॥ तस्यै॒वा-त्मा प॑द॒वित्तं ँवि॑दित्वा । न कर्म॑णा लिप्यते॒ पाप॑केन ।
पञ्च॑ पश्चा॒शत॑-स्त्रि॒वृत॑ स्सं ँवथ्स॒राः ।
पञ्च॑ पञ्चा॒शतः॑ पञ्चद॒शाः ।
पञ्च॑ पञ्चा॒शत॑ स्सप्तद॒शाः । पञ्च॑ पञ्चा॒शत॑ एकवि॒ꣳ॒शाः । वि॒श्व॒सृजाꣳ॑ स॒हस्र॑ सं ँवथ्सरं । ए॒तेन॒ वै वि॑श्व॒सृज॑ इ॒दं ँविश्व॑-मसृजन्त । यद् विश्व॒-मसृ॑जन्त । तस्मा᳚द् विश्व॒सृजः॑ ॥ 7
विश्व॑-मेना॒-ननु॒ प्रजा॑यते । ब्रह्म॑ण॒ स्सायु॑ज्यꣳ सलो॒कतां᳚ ँयन्ति ।
ए॒तासा॑मे॒व दे॒वता॑ना॒ꣳ॒ सायु॑ज्यं । सा॒र्ष्टिताꣳ॑ समान लो॒कतां᳚ ँयन्ति ।
य ए॒त-दु॑प॒यन्ति॑ । ये चै॑न॒त् प्राहुः॑ । येभ्य॑-श्चैन॒त् प्राहुः॑ ॥ ॐ ॥ 8
(ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥)
30. प्रदक्षिण मन्त्राः OrdEr of chanting various mantras may vary / REf: TA 2.15.1 for 1 / RV 1.27.13 for 2 / TA.6.1.4 for 3 / / TS 1.2.1.26 for 4 / TB 2.4.2.9 for 5 / RV 10.173.5 for 6 / / TB 2.4.6.10 for 7 / RV.5.25.6 for 8 / TS 4.5.3.2 for 9
ये अ॒र्वाङु॒॒तवा॑ पुरा॒॒णे वे॒दं ँवि॒द्वाꣳ स॑म॒॒भितो॑ वदन्त्यादि॒त्य मे॒॒वते
परि॑वदन्ति॒॒ सर्वे॑ अ॒॒ग्निं द्वि॒॒तीयं॑ तृ॒॒तीयं॑ च ह॒ꣳ॒ समिति॒ याव॑ती॒र्वै
दे॒वता॒स्ता स्सर्वा॑ वेद॒ विदि॑ ब्राह्म॒णे व॑सन्ति॒ तस्मा᳚त् ब्राह्म॒णेभ्यो॑
वेद॒विद्भयो॑ दि॒वे दि॑वे॒ नम॑स्कुर्या॒न्ना श्ली॒लङ्की᳚र्तये दे॒ता ए॒व दे॒वताः᳚
प्रीणाति ॥ 1
नमो᳚ म॒हद्भ्यो॒ नमो᳚ अर्भ॒केभ्यो॒ नमो॒ युव॑द्भ्यो॒ नम॑ आशि॒नेभ्यः॑ ।
यजा᳚म दे॒वान् यदि॑श॒क्नवा᳚ म॒मा ज्याय॑सः॒ शं स॒मावृ॑क्षि देवाः ॥ 2
सद॑स॒स्पति॒ मद्भु॑तं प्रि॒य-मिन्द्र॑स्य॒ काम्यं᳚ । सनिं॑ मे॒धाम॑यासिषं ॥ 3
सप्र॑थ स॒भां मे॑ गोपाय । ये च॒ सभ्या᳚ स्सभा॒सदः ।
तानि॑न्द्रि॒याव॑तः कुरु । सर्व॒मायु॒-रुपा॑सताम् ।
अहे॑ बुद्ध्निय॒ मन्त्रं॑ मे गोपाय । य॒मृष॑य-स्त्रै-वि॒दा वि॒दुः॑ ।
ऋच॒ स्सामा॑नि॒ यजूꣳ॑षि । सा हि श्रीर॒मृता॑ स॒ताम् ॥ 4
पर्व॑त इ॒वा वि॑शाचलिः । इन्द्र॑ इवे॒ह धृ॒वस्तिष्ठ । इ॒ह रा॒ष्ट्र मु॑धारय ।
अ॒भिति॑ष्ठन् पृतन्य॒तः । अधरे॑सन्तु॒ शत्र॑वः । इन्द्र॑ इव वृत्र॒हाति॑ष्ठ ॥ 5
((सुमुहूतो॒ऽस्तु । सुप्रतिष्ठि॑तम॒स्तु ॥))
धृ॒वं ते॒ राजा॒ वरु॑णो धृ॒वं द॒वो बृह॒स्पतिः॑ । धृ॒वं त॒ इन्द्र॑-श्चा॒ग्निश्च॑ रा॒ष्ट्रं धा॑रयतां धृ॒वं ॥ 6
दे॒वीं ँवाच॑म जनयन्त दे॒वाः । तां ँवि॒श्वरू॑पाः प॒शवो॑ वदन्ति ।
सानो॑ म॒न्त्रेष॒ मूर्जं॒ दुहा॑ना । धे॒नुर्वाग॒स्मा-नुप॒सुष्ट॒तैतु॑ ॥ 7
वचनम् - सुमुहूर्तो ऽस्त्वित्यनु॑ गृह्ण॒न्तु ।
प्रति-वचनम् - सुमुहूर्तो॒ऽस्तु॒ । सुप्रतिष्ठि॑तम॒स्तु ॥
*(Rig Vedic convention of chanting)
*अ॒ग्निस्तु॒ विश्र॑वस्तमं तु॒वि ब्र᳚ह्माणमुत्त॒मं ।
अतूर्तं᳚ श्राव॒यत् प॑तिं पु॒त्रं द॑दाति दा॒शुषे᳚ ॥
*अ॒ग्नि॑र्-ददाति॒ सत्प॑तिं सा॒ सा ह॒यो यु॒धा नृभिः॑ ।
अ॒ग्निरत्यं᳚ रघुष्यदं॒ जेता᳚र॒-मप॑राजितं ॥ 8
नमः॑ स॒भाभ्य॑ स॒भाप॑तिभ्यश्च वो॒ नमः॑ ॥ 9
31. प्रोक्षण मन्त्राः TB 2.6.5.2 for 1 to 3 / TS 1.7.10.3 for 4, 5 / TB 3.5.10.4 for 6 & 7 / T.B.2.4.4.10 for 8 / RV 10.137.6 for 9 / TA 1.26.5 for 10
दे॒वस्य॑त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚र्-बा॒हुभ्यां᳚ । पू॒ष्णो हस्ता᳚भ्यां ।
अ॒श्विनो॒र्-भैष॑ज्येन । तेज॑से ब्रह्मवर्च॒साया॒-भिषि॑ञ्चामि ॥ 1
दे॒वस्य॑त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚र् बा॒हुभ्यां᳚ । पू॒ष्णो हस्ता᳚भ्यां ।
सर॑स्वत्यै॒ भैष॑ज्येन । वी॒र्या॑या॒-न्नाद्या॑या॒-भिषि॑ञ्चामि ॥ 2
दे॒वस्य॑त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚र् बा॒हुभ्यां᳚ । पू॒ष्णो हस्ता᳚भ्यां ।
इन्द्र॑स्ये-न्द्रि॒येण॑ । श्रि॒यै यश॑से॒ बला॑या॒-भिषि॑ञ्चामि । 3
सोम॒ꣳ॒ राजा॑नं॒ वरु॑ण-म॒ग्नि म॒न्वार॑भामहे ।
आ॒दि॒त्यान् विष्णु॒ꣳ॒ सूर्यं॑ ब्र॒ह्माण॑ञ्च॒ बृह॒स्पतिं᳚ ॥ 4
दे॒वस्य॑त्वा सवि॒तुः प्र॑स॒वे᳚ ऽश्विनो᳚र् बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्या॒ꣳ॒
सर॑स्वत्यै वा॒चो य॒न्तुर्-य॒न्त्रेणा॒-ग्नेस्त्वा॒ साम्रा᳚ज्येना॒ भिषि॑ञ्चा॒-
मीन्द्र॑स्यत्वा॒ साम्रा᳚ज्येना॒ भिषि॑ञ्चामि॒ बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒
भिषि॑ञ्चामि ॥ 5
आ॒यु॒रा-शा᳚स्ते । सु॒प्र॒जा॒स्त्वमा-शा᳚स्ते । स॒जा॒त॒व॒न॒स्यामा-शा᳚स्ते ।
उत्त॑रान्देव-य॒ज्यामा-शा᳚स्ते । भूयो॑ हवि॒ष्कर॑ण॒मा-शा᳚स्ते ।
दि॒व्यन्धामा-शा᳚स्ते । विश्वं॑ प्रि॒यमा-शा᳚स्ते ।
यद॒नेन॑ ह॒विषा-शा᳚स्ते ॥ 6
तद॑श्या॒त्-तदृ॑द्ध्यात् । तद॑स्मै दे॒वारा॑सन्तां ॥
तद॒ग्निर्-दे॒वो दे॒वेभ्यो॒ वन॑ते । व॒यम॒ग्नर्मानु॑षाः ।
इ॒ष्टं च॑ वी॒तं च॑ । उ॒भेच॑नो॒ द्यावा॑ पृथि॒वी अꣳ ह॑सस्पातां ।
इ॒ह गति॑र्-वा॒मस्ये॒दं च॑ । नमो॑ दे॒वेभ्यः॑ ॥ 7
दृ॒प॒दा॒दि॒वेन् मु॑मुचा॒नः । स्वि॒न्न-स्स्ना॒त्वी मला॑दिव ।
पू॒तं प॒वित्रे॑णे॒ वाज्यं᳚ । आपः॑ शुन्धन्तु॒ मैन॑सः ॥
भूर्भुव॒स्सुवो॒ भूर्भुव॒स्सुवो॒ भूर्भुव॒स्सुवः॑ ॥ 8
प्राशन मन्त्रः॒
आप॒ इद्वा उ॑भेष॒जीः । आपो॑ अमीव॒ चात॑नीः ।
आप॒स्सर्व॑स्य भेष॒जी । तास्ते॑ कृण्वन्तु भेष॒जं ॥ 9
[अकाल मृत्यु हरणम् सर्व व्याधि निवारणं ।
सर्व(समस्त) पापक्षयहरं (देवता नाम*) वरुण* पाथोदकं शुभं ।]
स्त्रीणां प्राशनेः
आ॒म॒या॒वी चि॑न्वीत । आपो॒ वै भे॑ष॒जं । भे॒ष॒जमे॒वास्मै॑ करोति ।
सर्व॒मायु॑रेति ॥ 10
32. ओषधि सूक्तं TS 4.2.6.1
या जा॒ता ओष॑धयो दे॒वेभ्य॑ स्त्रियु॒गं पु॒रा ।
मन्दा॑मि ब॒भ्रूणा॑ म॒हꣳ श॒तं धामा॑नि स॒प्त च॑ ।
श॒तं ँवो॑ अबं॒ धामा॑नि स॒हस्र॑मु॒तवो॒ रुहः॑ ।
अथा॑ शतक्रत्वो यू॒यमि॒मं मे॑ अग॒दं कृ॑त ।
पुष्पा॑वतीः प्र॒सूव॑तीः फ॒लिनी॑रफ॒ला उ॒त ।
अश्वा॑ इव स॒जित्व॑रीर्-वी॒रुधः॑ पारयि॒ष्णवः॑ ।
ओष॑धी॒रिति॑ मातर॒-स्तद्वो॑ देवी॒-रुप॑बृवे ।
रपाꣳ॑सि विघ्न॒-तीरि॑त॒र प॑श्चा॒तय॑मानाः ॥ 1
अ॒श्व॒त्थेवो॑ नि॒षद॑नं प॒र्णेवो॑ वस॒तिः कृ॒ता ।
गो॒भाज॒ इत्किला॑ सथ॒यथ् स॒नव॑थ॒ पूरु॑षं ।
यद॒हं ँवा॒जय॑-न्नि॒मा ओष॑धी॒र्॒. हस्त॑ आद॒धे ।
आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒ गृभो॑ यथा ।
यदोष॑धय स्सं॒गच्छ॑न्ते॒ राजा॑न॒-स्समि॑ता विव ।
विप्र॒स्स-उ॑च्यते भि॒षग्र॑क्षो॒-हाऽमी॑व॒ चात॑नः ।
निष्कृ॑ति॒र् नाम॑वो मा॒ताऽथा॑ यू॒यᳺस्थ॒ संकृ॑तीः ।
स॒राः प॑त॒त्रिणी᳚ स्स्थन॒यदा॒ मय॑ति॒ निष्कृ॑त ॥ 2
अ॒न्यावो॑ अ॒न्याम॑व-त्व॒न्याऽन्यस्या॒ उपा॑वत ।
तास्सर्वा॒ ओष॑धय-स्सं ँविदा॒ना इ॒दं मे॒ प्राव॑ता॒ वचः॑ ।
उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठा दि॑वेरते ।
धनꣳ॑ सनि॒ष्यन्ती॑ नामा॒त्मा-न॒न्तव॑ पूरुष ।
अति॒ विश्वाः᳚ परि॒ष्ठास्स्ते॒ न इ॑व व्र॒जम॑क्रमुः ।
ओष॑धयः॒ प्राचु॑च्यवु॒र् यत्किञ्च॑ त॒नुवा॒ꣳ॒ रपः॑ । यास्त॑ आत॒स्थु-रा॒त्मानं॒ ँया आ॑वि वि॒शुः परुः॑ परुः ।
तास्ते॒ यक्ष्मं॒ ँविबा॑धन्ता मु॒ग्रो म॑द्ध्य म॒शीरि॑व ॥ 3
सा॒कं ँय॑क्ष्म॒ प्रप॑तश्ये॒नेन॑ कि कि दी॒विना᳚ ।
सा॒कं ँवात॑स्य॒द्ध्राज्या॑ सा॒कन्न॑श्य नि॒हाक॑या ।
अ॒श्वा॒व॒तीꣳ सो॑मव॒ती मू॒र्जय॑न्ती॒ मुदो॑जसं ।
आवि॑थ्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्ट ता॑तये ।
याः फ॒लिनी॒र् या अ॑फ॒ला अ॑पु॒ष्पायाश्च॑ पु॒ष्पिणीः᳚ ।
बृह॒स्पति॑ प्रसूता॒ स्तानो॑ मुञ्च॒न्त्वꣳ ह॑सः ।
या ओष॑धय॒ स्सोम॑राज्ञीः॒ प्रवि॑ष्टाः पृथि॒वी मनु॑ ॥ 4
तासां॒ त्वम॑स्युत्त॒मा प्रणो॑ जी॒वात॑वेसुव ।
अ॒व॒पत॑न्ती-रवदन्दि॒व ओष॑धयः॒ परि॑ ।
यं जी॒व म॒श्ञवा॑ महै॒ न सरि॑ष्याति॒ पूरु॑षः ।
याश्चे॒द मु॑प-शृ॒ण्वन्ति॒ याश्च॑ दू॒रं परा॑गताः ।
इ॒ह सं॒गत्य॒ता स्सर्वा॑ अ॒स्मै सन्द॑त्त भेष॒जं ।
मावो॑ रिषत् खनि॒ता यस्मै॑ चा॒हं खना॑मिवः ।
द्वि॒प-च्चतु॑ष्पद॒-स्माक॒ꣳ॒ सर्व॑-म॒स्त्व ना॑तुरं ।
ओष॑धय॒ स्सं ँव॑दन्ते॒ सोमे॑न स॒ह राज्ञा᳚ ।
यस्मै॑ क॒रोति॑ ब्राह्म॒णस्तꣳ रा॑जन् पारयामसि ॥ 5
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
33. मन्त्र पुष्पं TA 1.22.1
ॐ । यो॑ऽपां पुष्पं॒ ँवेद॑ । पुष्प॑वान् प्र॒जावा᳚न् पशु॒॒मान् भ॑वति ।
च॒न्द्रमा॒ वा अ॒पां पुष्प᳚म् । पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।
य ए॒वं ँवेद॑ ॥ 1
यो॑ऽपामा॒यत॑नं॒ ँवेद॑ । आ॒यत॑नवान् भवति । अ॒ग्निर्वा अ॒पामा॒यत॑नं ।
आ॒यत॑नवान् भवति । यो᳚ऽग्नेरा॒यत॑नं॒ ँवेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वा अ॒ग्नेरा॒यात॑नं । आ॒यत॑नवान् भवति । य ए॒वं ँवेद॑ ॥ 2
यो॑ऽपामा॒यत॑नं॒ ँवेद॑ । आ॒यत॑नवान् भवति । वा॒युर्वा अ॒पामा॒यत॑नं ।
आ॒यत॑नवान् भवति । यो वा॒योरा॒यत॑नं॒ ँवेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वै वा॒योरा॒यात॑नं । आ॒यत॑नवान् भवति । य ए॒वं ँवेद॑ ॥ 3
यो॑ऽपामा॒यत॑नं॒ ँवेद॑ । आ॒यत॑नवान् भवति ।
अ॒सौ वै तप॑न्न॒पा-मा॒यत॑नं ।
आ॒यत॑नवान् भवति । या॑ऽमुष्य॒-तप॑त आ॒यत॑नं॒ ँवेद॑ ।
आ॒यत॑नवान् भवति । आपो॒वा अ॒मुष्य॒-तप॑त आ॒यत॑नं ।
आ॒यत॑नवान् भवति । य ए॒वं ँवेद॑ ॥ 4
यो॑ऽपामा॒यत॑नं॒ ँवेद॑ । आ॒यत॑नवान् भवति । च॒न्द्रमा॒ वा अ॒पामा॒यत॑नं ।
आ॒यत॑नवान् भवति । यश्च॒न्द्रम॑स आ॒यत॑नं॒ ँवेद॑ ।
आ॒यत॑नवान् भवति । आपो॒ वै च॒न्द्रम॑स आ॒यत॑नं ।
आ॒यत॑नवान् भवति । य ए॒वं ँवेद॑ ॥ 5
यो॑ऽपामा॒यत॑नं॒ ँवेद॑ । आ॒यत॑नवान् भवति ।
नक्ष॑त्राणि॒ वा अ॒पामा॒यत॑नं । आ॒यत॑नवान् भवति ।
यो नक्ष॑त्राणा-मा॒यत॑नं॒ ँवेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वै नक्ष॑त्राणा-मा॒यत॑नं । आ॒यत॑नवान् भवति । य ए॒वं ँवेद॑ ॥ 6
यो॑ऽपामा॒यत॑नं॒ ँवेद॑ । आ॒यत॑नवान् भवति । प॒र्जन्यो॒ वा अ॒पामा॒यत॑नं ।
आ॒यत॑नवान् भवति । यः प॒र्जन्य॑-स्या॒यत॑नं॒ ँवेद॑ ।
आ॒यत॑नवान् भवति । आपो॒ वै प॒र्जन्य॑-स्या॒यत॑नं ।
आ॒यत॑नवान् भवति । य ए॒वं ँवेद॑ ॥ 7
यो॑ऽपामा॒यत॑नं॒ ँवेद॑ । आ॒यत॑नवान् भवति ।
सं॒ ँव॒थ्स॒रो वा अ॒पामा॒य॑तनं । आ॒यत॑नवान् भवति ।
यस्सं॑ ँवथ्स॒र-स्या॒यत॑नं॒ ँवेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वै सं॑ ँवथ्स॒र-स्या॒यत॑नं । आ॒यत॑नवान् भवति ।
य ए॒वं ँवेद॑ ॥ 8
यो᳚ऽफ्सुनावं॒ प्रति॑ष्ठितां॒ ँवेद॑ । प्रत्ये॒वति॑ष्ठति ॥ 9
Other Mantras Chanted with "Mantra Pushpam".
रा॒जा॒धि॒रा॒जाय॑ प्रसह्य सा॒हिने᳚ । नमो॑ व॒यं ँवै᳚श्रव॒णाय॑ कुर्महे ।
स मे॒ कामा॒न् काम॒कामा॑य॒ मह्यं᳚ । का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु ।
कु॒बे॒राय॑ वैश्रव॒णाय॑ । म॒हा॒रा॒जाय॒ नमः॑ ॥ 1 (TA 1.31.6)
ओं᳚तद्ब्र॒ह्मा । ओं᳚तद्वा॒युः। ओं᳚तदा॒त्मा । ओं᳚तथ्स॒त्यं ।
ओं᳚तथ्सर्वं᳚ । ओं᳚तत्पुरो॒र्नमः । अन्तश्चरति॑ भूतु॒ष॒ गुहायां ँवि॑श्वमू॒र्तिषु ।
त्वम्-य ँज्ञस्त्वं-व ँषट्कारस्त्व-मिन्द्रस्त्वꣳ-रुद्रस्त्वं-
ँविष्णुस्त्वं-ब्रह्मत्वं॑ प्रजा॒पतिः ।
त्वन्त॑दाप॒ आपो॒ ज्योती॒रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥ 2
(TA .6.68.1)
न कर्म॑णा न प्र॒जया॒ धने॑न॒ त्यागे॑नैके अमृत॒त्व-मा॑न॒शुः ।
परे॑ण॒ नाकं॒ निहि॑तं॒ गुहा॑यां ँवि॒भ्राज॑ते॒-तद्यत॑यो वि॒शन्ति॑ ॥
वे॒दा॒न्त॒वि॒ज्ञान॒ सुनि॑श्चिता॒र्था-स्सन्या॑स यो॒गाद्यत॑-यश्शुद्ध॒ सत्वाः᳚ ।
ते ब्र॑ह्मलो॒के तु॒ परा᳚न्तकाले॒ परा॑मृता॒त् परि॑मुच्यन्ति॒ सर्वे᳚ ॥
द॒ह्रं॒ ँवि॒पा॒पं प॒रमे᳚श्मभूतं॒ ँयत्पु॑ण्डरी॒कं पु॒रम॑द्ध्य स॒ᳺ॒स्थं ।
त॒त्रा॒पि॒ द॒ह्रं ग॒गनं॑ ँविशोक॒-स्तस्मि॑न् यद॒न्तस्त-दुपा॑सित॒व्यं ॥
यो वेदादौ स्व॑रः प्रा॒क्तो॒ वे॒दान्ते॑ च प्र॒तिष्ठि॑तः ।
तस्य॑ प्र॒कृति॑-लीनस्य॒ यः॒ पर॑स्स म॒हेश्व॑रः ॥ 3 (TA .6.12.3)
यो वै तां᳚ ब्रह्म॑णो वे॒द । अ॒मृते॑नावृ॒तां प॑रीम् (पुरी᳚म्) ।
तस्मै᳚ ब्रह्म च॑ ब्रह्मा॒ च । आ॒युः कीर्तिं॑ प्र॒जां द॑दुः ॥ 4 (TA 1.27.3)
34. अघमर.षण सूक्तं TA .6.1.12
हिर॑ण्यशृङ्गं॒ ँवरु॑णं॒ प्रप॑द्ये ती॒र्थं मे॑ देहि॒ याचि॑तः ।
य॒न्मया॑ भु॒क्त-म॒साधू॑नां पा॒पेभ्य॑श्च प्र॒तिग्र॑हः ।
यन्मे॒ मन॑सा वा॒चा॒ क॒र्म॒णा वा दु॑ष्कृतं॒ कृतं ।
तन्न॒ इन्द्रो॒ वरु॑णो॒ बृह॒स्पति॑-स्सवि॒ता च॑ पुनन्तु॒ पुनः॑ पुनः ।
नमो॒ऽग्नये᳚ ऽफ्सु॒मते॒ नम॒ इन्द्रा॑य॒ नमो॒ वरु॑णाय॒ नमो
वारुण्यै॑ नमो॒ऽद्भ्यः ॥ 1
यद॒पां क्रू॒रं ँयद॑मे॒द्ध्यं ँयद॑शा॒न्तं तदप॑गच्छतात् ।
अ॒त्या॒श॒नाद॑ती-पा॒ना॒द्य॒च्च उ॒ग्रात् प्र॑ति॒ग्रहा᳚त् ।
तन्नो॒ वरु॑णो रा॒जा॒ पा॒णिना᳚-ह्यव॒मर्.श॑तु ।
सो॑ऽहम॑पा॒पो वि॒रजो॒ निर्मु॒क्तो मु॑क्तकि॒ल्बिषः॑ ।
नाक॑स्य पृ॒ष्ठ मारु॑ह्य॒ गच्छे॒द् ब्रह्म॑स लो॒कतां ।
यश्चा॒फ्सु वरु॑ण॒स्स पु॒नात्व॑घमर्.ष॒णः ।
इ॒मं मे॑ गंगे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमꣳ॑ सचता॒ परु॒ष्णिया ।
अ॒सि॒क्नि॒या म॑रुद्वृधे वि॒तस्त॒या ऽऽर्जी॑कीये शुणु॒ह्या सु॒षोम॑या ।
ऋ॒तं च॑ स॒त्यं चा॒भी᳚द्द्धा॒-त्तप॒सो-ऽद्ध्य॑जायत ।
ततो॒ रात्रि॑ रजायत॒ तत॑-स्समु॒द्रो अ॑र्ण॒वः ॥ 2
स॒मु॒द्राद॑र्ण॒वा-दधि॑ स ँम्वथ्स॒रो अ॑जायत ।
अ॒हो॒रा॒त्राणि॑ वि॒दध॒-द्विश्व॑स्य मिष॒तो व॒शी ।
सू॒र्या॒ च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्व-म॑कल्पयत् ।
दिवं॑ च पृथि॒वीं चा॒न्तरि॑क्ष॒-मथो॒ सुवः॑ ।
यत्पृ॑थि॒व्याꣳ रज॑स्स्व॒ मान्तरि॑क्षे वि॒रोद॑सी ।
इ॒माᳺ स्तदा॒पो वरु॑णः पु॒नात्व॑घमर्.ष॒णः ।
पु॒नन्तु॒ वस॑वः पु॒नातु॒ वरु॑णः पु॒नात्व॑घमर्.ष॒णः ।
ए॒ष भू॒तस्य॑ म॒द्ध्ये भुव॑नस्य गो॒प्ता ।
ए॒ष पु॒ण्यकृ॑तां ँलो॒का॒ने॒ष मृ॒त्योर्. हि॑र॒ण्मयम्᳚ ।
द्यावा॑ पृथि॒व्योर्. हि॑र॒ण्मय॒ꣳ॒ सᳺ श्रि॑त॒ꣳ॒ सुवः॑ ॥ 3
सन॒-स्सुव॒-स्सꣳ शि॑शाधि । आर्द्रं॒ ज्वल॑ति॒ ज्योति॑-र॒हम॑स्मि ।
ज्योति॒ र्ज्वल॑ति॒ ब्रह्मा॒ह-म॑स्मि । यो॑ऽह-म॑स्मि॒ ब्रह्मा॒ह-म॑स्मि ।
अ॒हम॑स्मि॒ ब्रह्मा॒ह-म॑स्मि । अ॒हमे॒वाहं मां जु॑होमि॒ स्वाहा᳚ ।
अ॒का॒र्य॒-का॒र्य॑व-की॒र्णी स्ते॒नो भ्रू॑ण॒हा गु॑रुत॒ल्पगः ।
वरु॑णो॒ऽपा-म॑घमर्.ष॒ण-स्तस्मा᳚त् पा॒पात्प्रमु॑च्यते ।
र॒जोभूमि॑-स्त्व॒माꣳ रोद॑यस्व॒ प्रव॑दन्ति॒ धीराः᳚ ।
आक्रा᳚न् थ्समु॒द्रः प्र॑थ॒मे विध॑र्मञ्ज॒नय॑न् प्र॒जा भुव॑नस्य॒ राजा᳚ ।
वृषा॑ प॒वित्रे॒ अधि॒सानो॒ अव्ये॑ बृ॒हथ्सोमो॑ वावृधे सुवा॒न इन्दुः॑ ॥ 4
35. त्रिसुपर्ण मन्त्राः TA 6.38.1
ब्रह्म॑ मेतु॒ मां । मधु॑ मेतु॒ मां । ब्रह्म॑ मे॒व मधु॑ मेतु॒ मां ।
यास्ते॑ सोम प्र॒जाव॒थ्सोऽभि॒सो अ॒हं । दुःष्व॑प्न॒हन्दु॑रुष्षह ।
यास्ते॑ सोम प्रा॒णाᳺ स्ताञ्जु॑होमि ।
त्रिसु॑पर्ण॒ मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।
ब्र॒ह्म॒ह॒त्यां ँवा ए॒ते घ्न॑न्ति । ये ब्रा᳚ह्म॒णा-स्त्रिसु॑पर्णं॒ पठ॑न्ति ।
ते सोमं॒ प्राप्नु॑वन्ति । आ॒स॒ह॒स्रात् प॒ङ्क्तिं पुन॑न्ति । ॐ ॥ 1
ब्रह्म॑ मे॒धया᳚ । मधु॑ मे॒धया᳚ । ब्रह्म॑मे॒व मधु॑ मे॒धया᳚ ।
अ॒द्या नो॑ देव सवितः प्र॒जाव॑थ्सावी॒-स्सौभ॑गं ।
परा॑ दुः॒ष्वप्नि॑यꣳ सुव । विश्वा॑नि देव सवितर्-दुरि॒तानि॒ परा॑सुव ।
यद्भ॒द्रं तन्म॒ आसु॑व । मधु॒वाता॑ ऋताय॒ते मधु॑क्षरन्ति॒ सिन्ध॑वः ।
माद्ध्वी᳚र्-नस्स॒न्त्वोष॑धीः ।
मधु॒नक्त॑ मु॒तोषसि॒ मधु॑म॒त्पार्थि॑व॒ꣳ॒ रजः॑ ।
मधु॒द्यौर॑स्तु नः पि॒ता । मधु॑मान्नो॒ वन॒स्पति॒र्-मधु॑माꣳ अस्तु॒ सूर्यः॑ ।
माद्ध्वी॒र्गावो॑ भवन्तु नः ।
य इ॒मं त्रिसु॑पर्ण॒-मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।
भ्रू॒ण॒ह॒त्यां ँवा ए॒ते घ्न॑न्ति । ये ब्रा᳚ह्म॒णा-स्त्रिसु॑पर्णं॒ पठ॑न्ति ।
ते सोमं॒ प्राप्नु॑वन्ति । आ॒स॒ह॒स्रात् प॒ङ्क्तिं पुन॑न्ति । ॐ ॥ 2
ब्रह्म॑ मे॒धवा᳚ । मधु॑ मे॒धवा᳚ । ब्रह्म॑ मे॒व मधु॑ मे॒धवा᳚ ।
ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒ना-मृषि॒र्-विप्रा॑णां महि॒षो मृ॒गाणां᳚ ।
श्ये॒नो गृद्ध्रा॑णा॒ᳺ॒ स्वधि॑ति॒र्-वना॑ना॒ꣳ॒ सोमः॑ प॒वित्र॒-मत्ये॑ति॒ रेभन्न्॑ ।
ह॒ꣳ॒स-श्शु॑चि॒ष-द्वसु॑रन्तरिक्ष॒-सद्धोता॑- वेदि॒ष-दति॑थिर्-दुरोण॒सत् ।
नृ॒षद्व॑र॒-सदृ॑त॒-सद्व्यो॑म॒-सद॒ब्जा- गो॒जा ऋ॑त॒जा
अ॑द्रि॒जा ऋ॒तं बृ॒हत् । 3
ऋ॒चेत्वा॑ रु॒चेत्वा॒ समि-थ्स्र॑वन्ति स॒रितो॒ न धेनाः᳚ ।
अ॒न्तर्. हृ॒दा मन॑सा पू॒यमा॑नाः । घृ॒तस्य॒ धारा॑ अ॒भिचा॑कशीमि ।
हि॒र॒ण्ययो॑ वेत॒सो मद्ध्य॑ आसाम् ।
तस्मि᳚न्थ्सुप॒र्णो म॑धु॒कृत् कु॑ला॒यी भज॑न्नास्ते॒ मधु॑ दे॒वता᳚भ्यः ।
तस्या॑सते॒ हर॑य-स्स॒प्ततीरे᳚ स्व॒धां दुहा॑ना अ॒मृत॑स्य॒ धारां᳚ ।
य इ॒दं त्रिसु॑पर्ण॒-मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।
वी॒र॒ह॒त्यां ँवा ए॒ते घ्न॑न्ति । ये ब्रा᳚ह्म॒णा-स्त्रिसु॑पर्णं॒ पठ॑न्ति ।
ते सोमं॒ प्राप्नु॑वन्ति । आ॒स॒ह॒स्रात् प॒ङ्क्तिं पुन॑न्ति । ॐ ॥ 4
36. जयादि होमः TS 3.4.4
(एतत् कर्म समृद्ध्यर्थं जयादि होमं करिष्ये)
चि॒त्तञ्च॒ स्वाहा᳚ - चित्ताय इदं न मम ॥ 1
चित्ति॑श्च॒ स्वाहा᳚ - चित्त्या इदं न मम ॥ 2
आकू॑तञ्च॒ स्वाहा᳚ - आकूताय इदं न मम ॥ 3
आकू॑तिश्च॒ स्वाहा᳚ - आकूत्या इदं न मम ॥ 4
विज्ञा॑तञ्च॒ स्वाहा᳚ - विज्ञाताय इदं न मम ॥ 5
वि॒॒ज्ञान॑श्च॒॒ स्वाहा᳚ - विज्ञानाय इदं न मम ॥ 6
मन॑श्च॒॒ स्वाहा᳚ - मनस इदं न मम ॥ 7
शक्व॑रीश्च॒॒ स्वाहा᳚ - शक्वरीभ्य इदं न मम ॥ 8
दर्.श॑श्च॒॒ स्वाहा᳚ - दर्.शाय इदं न मम ॥ 9
पू॒र्णमा॑सश्च॒ स्वाहा᳚ - पूर्णमासाय इदं न मम ॥ 10
बृ॒हच्च॒ स्वाहा᳚ - बृहत इदं न मम ॥ 11
र॒थ॒न्त॒रश्च॒ स्वाहा᳚ - रथन्तराय इदं न मम ॥ 12
प्र॒जाप॑ति॒-र्जया॒निन्द्रा॑य॒ वृष्णे॒ प्राय॑च्छ-दु॒ग्रः पृ॑त॒ना-ज्ये॑ष्ठ॒ तस्मै॒
विश्व॒ स्सम॑नमन्त॒ सर्वा॒स्स उ॒ग्र स्सहि हव्यो॑ ब॒भूव॒ स्वाहा᳚ ।
प्रजापतय इदं न मम ॥ 13
TS 3.4.5
अ॒ग्नि र्भू॒ताना॒-मधि॑पति॒ -स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्या-
मा॒शिष्य॒स्यां पु॑रो॒धाया॑-म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ᳺ॒ स्वाहा᳚ ।
अग्नय इदं न मम ॥ 14
इन्द्रो᳚ ज्ये॒ष्ठाना॒-मधि॑पति॒-स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्या-
मा॒शिष्य॒स्यां पु॑रो॒धाया॑-म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ᳺ॒ स्वाहा᳚ ।
इन्द्राय इदं न मम ॥ 15
य॒मः पृ॑थि॒व्याऽधि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्या-
मा॒शिष्य॒स्यां पु॑रो॒धाया॑-म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ᳺ॒ स्वाहा᳚ ।
यमाय इदं न मम ॥ 16
वा॒यु-र॒न्तरि॑क्ष॒स्या-धि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्या-
मा॒शिष्य॒स्यां पु॑रो॒धाया॑-म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ᳺ॒ स्वाहा᳚ ।
वायव इदं न मम ॥ 17
सूर्यो॑ दि॒वोऽधि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्या-
मा॒शिष्य॒स्यां पु॑रो॒धाया॑-म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ᳺ॒ स्वाहा᳚ ।
सूर्याय इदं न मम ॥ 18
च॒न्द्रमा॒ नक्ष॑त्राणा॒-मधि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्या-
मा॒शिष्य॒स्यां पु॑रो॒धाया॑-म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ᳺ॒ स्वाहा᳚ ।
चन्द्रमस इदं न मम ॥ 19
बृह॒स्पति॒र्-ब्रह्म॒णोऽधि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्या-
मा॒शिष्य॒स्यां पु॑रो॒धाया॑-म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ᳺ॒ स्वाहा᳚ ।
बृहस्पतय इदं न मम ॥ 20
मि॒त्र-स्स॒त्याना॒-मधि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्या-
मा॒शिष्य॒स्यां पु॑रो॒धाया॑-म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ᳺ॒ स्वाहा᳚ ।
मित्राय इदं न मम ॥ 21
वरु॑णो॒ऽपामधि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्या-
मा॒शिष्य॒स्यां पु॑रो॒धाया॑-म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ᳺ॒ स्वाहा᳚ ।
वरुणाय इदं न मम ॥ 22
स॒मु॒द्रः स्रो॒त्याना॒-मधि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्या-
मा॒शिष्य॒स्यां पु॑रो॒धाया॑-म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ᳺ॒ स्वाहा᳚ ।
समुद्राय इदं न मम ॥ 23
अन्न॒ꣳ॒ साम्रा᳚ज्याना॒-मधि॑पति॒-तन्मा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन्
क्ष॒त्रे᳚ऽस्या-मा॒शिष्य॒स्यां पु॑रो॒धाया॑-म॒स्मिन् कर्म॑न्न॒स्यां
दे॒वहू᳚त्या॒ᳺ॒ स्वाहा᳚ ।
अन्नाय इदं न मम ॥ 24
सोम॒ ओष॑धीना॒-मधि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्या-
मा॒शिष्य॒स्यां पु॑रो॒धाया॑-म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ᳺ॒ स्वाहा᳚ ।
सोमाय इदं न मम ॥ 25
स॒वि॒ता प्र॑स॒वाना॒-मधि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्या-
मा॒शिष्य॒स्यां पु॑रो॒धाया॑-म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ᳺ॒ स्वाहा᳚ ।
सवित्र इदं न मम ॥ 26
रु॒द्रः प॑शू॒नामधि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्या-
मा॒शिष्य॒स्यां पु॑रो॒धाया॑-म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ᳺ॒ स्वाहा᳚ ।
रुद्राय इदं न मम ॥ 27
(apa upaspRuSya -This is nota Mantra, but an instruction to cleanse your hand with water)
त्वष्टा॑ रू॒पाणा॒-मधि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्या-
मा॒शिष्य॒स्यां पु॑रो॒धाया॑-म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ᳺ॒ स्वाहा᳚ ।
त्वष्ट्र इदं न मम ॥ 28
विष्णुः॒ पर्व॑ताना॒-मधि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्या-
मा॒शिष्य॒स्यां पु॑रो॒धाया॑-म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ᳺ॒ स्वाहा᳚ ।
विष्णव इदं न मम ॥ 29
म॒रुतो॑ ग॒णाना॒-मधि॑पतय॒स्ते-मा॑ऽवन्त्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्या-
मा॒शिष्य॒स्यां पु॑रो॒धाया॑-म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ᳺ॒ स्वाहा᳚ ।
मरुद्भ्य इदं न मम ॥ 30
पित॑रः पितामहाः परेऽवरे॒ तता᳚स्तता महा इ॒हमा॑ऽवता॒स्मिन् ब्रह्म॑न्न॒स्मिन्
क्ष॒त्रे᳚ऽस्या- मा॒शिष्य॒स्यां पु॑रो॒धाया॑-म॒स्मिन् कर्म॑न्न॒स्यां
दे॒वहू᳚त्या॒ᳺ॒ स्वाहा᳚ । पितृभ्य इदं न मम ॥ 31
मन्त्रोक्त देवताभ्य इदं न मम
(apa upaspRuSya -This is not a Mantra, but an instruction to cleanse your hand with water)
TS 3.4.7 (upto Para 53)
ऋ॒ता॒षाड् ऋ॒तधा॑मा॒ऽग्निर्-र्गन्ध॒र्व-स्तस्यौष॑धयो-ऽफ्स॒रस॒ ऊर्जो॒
नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚ ।
अग्नये गन्धर्वाय इदं न मम ॥ 32
ताभ्यः॒ स्वाहा᳚ । ओषधीभ्यो-ऽफ्सरोभ्य इदं न मम ॥ 33
स॒ꣳ॒हि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्तस्य॒ मरी॑चयो ऽफ्स॒रस॑ आ॒युवो॒
नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚ ।
सूर्याय गन्धर्वाय इदं न मम ॥ 34
ताभ्यः॒ स्वाहा᳚ । मरीचिभ्यो ऽफ्सरोभ्य इदं न मम ॥ 35
सु॒षु॒म्न स्सूर्य॑रश्मि-श्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒ नक्ष॑त्राण्य-फ्स॒रसो॑
बे॒कुर॑या॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚ ।
चन्द्रमसे गन्धर्वाय इदं न मम ॥ 36
ताभ्यः॒ स्वाहा᳚ । नक्षत्रेभ्यो-ऽफ्सरोभ्य इदं न मम ॥ 37
भु॒ज्युस्सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य॒ दक्षि॑णा अफ्स॒रस॑-स्स्त॒वा
नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚ ।
यज्ञाय गन्धर्वाय इदं न मम ॥ 38
ताभ्यः॒ स्वाहा᳚ । दक्षिणाभ्यो ऽफ्सरोभ्य इदं न मम ॥ 39
प्र॒जाप॑तिर्-वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वस्तस्य॑- र्ख् र्सा॒मान्य॑-फ्स॒रसो॒
वह्न॑यो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒
तस्मै॒ स्वाहा᳚ । मनसे गन्धर्वाय इदं न मम ॥ 40
ताभ्यः॒ स्वाहा᳚ । ऋख् सामेभ्यो-ऽफ्सरोभ्य इदं न मम ॥ 41
इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस्तस्यापो᳚-ऽफ्स॒रसो॑ मु॒दा नाम॒
स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚ ।
वाताय गन्धर्वाय इदं न मम ॥ 42
ताभ्यः॒ स्वाहा᳚ । अद्भ्योऽफ्सरोभ्य इदं न मम ॥ 43
भुव॑नस्य पते॒ यस्य॑त उ॒परि॑ गृ॒हा इ॒ह च॑ ।
सना॑ - रा॒स्वाज्या॑निꣳ रा॒यस्पोषꣳ॑ सु॒वीर्यꣳ॑ संव ँथ्स॒रीणाᳺ॑
स्व॒स्तिᳺ स्वाहा᳚ । भुवनस्य पत्ये इदं न मम ॥ 44
प॒र॒मे॒ष्ठ्यधि॑पतिर्-मृ॒त्युर्-ग॑न्ध॒र्वस्तस्य॒ विश्व॑मफ्स॒रसो॒ भुवो॒ नाम॒
स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚ ।
मृत्यवे गन्धर्वाय इदं न मम ॥ 45
ताभ्यः॒ स्वाहा᳚ । विश्वस्मा ऽफ्सरोभ्य इदं न मम ॥ 46
सु॒क्षि॒ति-स्सुभू॑तिर्-भद्र॒कृथ् सुव॑र्वान् प॒र्जन्यो॑ गन्ध॒र्वस्तस्य॑ वि॒द्युतो᳚
ऽफ्स॒रसो॒ रुचो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं
पा᳚न्तु॒ तस्मै॒ स्वाहा᳚ । पर्जन्याय गन्धर्वाय इदं न मम ॥ 47
ताभ्यः॒ स्वाहा᳚ । विद्युद्भ्यो-ऽफ्सरोभ्य इदं न मम ॥ 48
दू॒रे हे॑तिरमृड॒यो मृ॒त्युर् ग॑न्ध॒र्वस्तस्य॑ प्र॒जा अ॑फ्स॒रसो॑ भी॒रुवो॒
नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚ ।
मृत्यवे गन्धर्वाय इदं न मम ॥ 49
ताभ्यः॒ स्वाहा᳚ । प्रजाभ्यो-ऽफ्सरोभ्य इदं न मम ॥ 50
चारुः॑ कृपण का॒शी कामो॑ गन्ध॒र्वस्त-स्या॒धयो᳚-ऽफ्स॒रस॑-
श्शो॒चय॑न्ती॒र् नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं
पा᳚न्तु॒ तस्मै॒ स्वाहा᳚ । कामाय गन्धर्वाय इदं न मम ॥ 51
ताभ्यः॒ स्वाहा᳚ । आधिभ्यो-ऽफ्सरोभ्य इदं न मम ॥ 52
सनो॑ भुवनस्य पते॒ यस्य॑त उ॒परि॑ गृ॒हा इ॒ह च॑ ।
उ॒रु ब्रह्म॑णे॒स्मै क्ष॒त्राय॒ महि॒ शर्म॑ यच्छ॒ स्वाहा᳚ ।
भुवनस्यपत्ये ब्रह्मण इदं न मम ॥ 53
(Recite in mind) (TS 1.8.14.2)
प्रजा॑पते॒ नत्वदे॒ता-न्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यᳺ स्या॑म॒ पत॑यो रयी॒णाᳺ स्वाहा᳚ ।
प्रजापतय इदं न मम ॥ (mind recital ends) 54
भू॒ स्स्वाहा᳚ - अग्नय इदं न मम ॥ 55
भुव॒ स्स्वाहा᳚ - वायव इदं न मम ॥ 56
सुव॒ स्स्वाहा᳚ - सूर्याय इदं न मम ॥ 57
यद॑स्य॒ कर्म॒णो ऽत्यरी॑रिचं॒ यद्वा॒-न्न्यू॑न- मि॒हाक॑रं ।
अ॒ग्निष्टत् स्वि॑ष्ट॒कृतत् वि॒द्वान्थ् सर्व॒ᳺ॒ स्विष्ट॒ꣳ॒ सुहु॑तं करोतु॒ स्वाहा᳚ ।
अग्नये स्विष्टकृत इदं न मम ॥ 58
ईन्स्तृच्तिओन्स्, नोत्ंअन्त्र - (परिध्यञ्जनं न लेपकार्यं परिधि प्रहरः इतरौ प्रहरन्-आघार समिधौ प्रहृत्यसᳺ स्रावं जुहोति ।)
स्वाहा᳚ । वसुभ्यो रुद्रेभ्यः आदित्येभ्यः सᳺ स्राव भागेभ्यः
इदं न मम ॥ 59
अस्मिन् .......... होम कर्मणि मद्ध्ये संभावित मन्त्रलोभादि
सकल दोषस्य प्रायश्चित्तार्थं सर्वप्रायश्चित्तं होष्यामि ।
ॐ भूर्भुव॒स्सुव॒ स्स्वाहा᳚ - प्रजापतय इदं न मम ॥ 60
ज्ञाता-ज्ञात दोष निर्हरणार्थं अनाज्ञात त्रय होमं करिष्ये ।
अना᳚ज्ञातं॒ य ँदाज्ञा॑तं । य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑ ।
अग्ने॒ तद॑स्य कल्पय । त्वꣳहि वेत्थे॑ यथा त॒थᳺ स्वाहा᳚ ।
अग्नय इदं न मम ॥ 1
पुरु॑ष सम्मितो य॒ज्ञः । य॒ज्ञः पुरु॑षसम्मितः ।
अग्ने॒ तद॑स्य कल्पय । त्वꣳहि वेत्थे॑ यथा त॒थᳺ स्वाहा᳚ ।
अग्नय इदं न मम ॥ 2
यत्पा॑क॒त्रा मन॑सा दी॒न द॑क्षा॒न । य॒ज्ञस्य॑ म॒न्वते॒ मर्त्ता॑सः ।
अ॒ग्निष्टद्धोता᳚ क्रतु॒ विद्वि॑जा॒नन्न् । यजि॑ष्टो दे॒वाꣳ ऋ॑तु॒शो य॑जाति॒ स्वाहा᳚ ।
अग्नय इदं न मम ॥ 3
भू॒ स्स्वाहा᳚ - अग्नय इदं न मम ॥ 4
भुव॒ स्स्वाहा᳚ - वायव इदं न मम ॥ 5
सुव॒ स्स्वाहा᳚ - सूर्याय इदं न मम ॥ 6
ॐ भूर्भुव॒स्सुव॒ स्स्वाहा᳚ - प्रजापतय इदं न मम ॥ 7
श्री विष्ण॑वे॒ स्वाहा᳚ - श्री विष्णवे परमात्मन इदं न मम ॥ 8
नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा᳚ - रुद्राय पशुपतय इदं न मम ॥ 9
(apa upaspRuSya - This is not a Mantra, but an instruction to cleanse your hand with water)
वसो॒र्धारां᳚ जुहोति॒ वसो᳚र्मे॒ धारा॑ऽस॒दिति॒ वा ए॒षा हू॑यते घृ॒तस्य॒ वा ए॑नमे॒षा धारा॒ऽमुष्मि॑न् ँलो॒के पिन्व॑मा॒नोप॑ तिष्ठत॒ आज्ये॑न जुहोति॒ तेजो॒ वा, आज्यं॒ तेजो॒ वसो॒र्धारा॒ तेज॑सै॒वास्मै॒ तेजोऽव॑ रु॒न्धेऽथो॒ कामा॒ वै वसो॒र्धारा॒ कामा॑ने॒वाऽव॑ रुन्धे॒ यं का॒मये॑त प्रा॒णान॑स्या॒न्नाद्यं॒ ँवि,
T.S. 5-4-8-2
च्छि॑न्द्या॒मिति॑ वि॒ग्राहं॒ तस्य॑ जुहुयात् प्रा॒णाने॒वास्या॒ऽन्नाद्यं॒ ँविच्छि॑नत्ति॒
यं का॒मये॑त प्रा॒णान॑स्या॒ऽन्नाद्य॒ꣳ॒ सन्त॑नुया॒मिति॒ सन्त॑तां॒ तस्य॑ जुहुयात्
प्रा॒णाने॒वास्या॒न्नाद्य॒ꣳ॒ सन्त॑नोति॒ द्वाद॑श द्वाद॒शानि॑, जुहोति॒ द्वाद॑श॒
मासा᳚ स्स ँम्वथ्स॒र स्स॑ ँम्वथ्स॒रेणै॒ वाऽस्मा॒ अन्न॒मव॑
रु॒न्धे, ऽन्नं॑ च॒ मेऽक्षु॑च्च म॒ इत्या॑है॒ तद् वा
T.S. 5-4-8-3
अन्न॑स्य रू॒पंꣳ रू॒पेणै॒वान्न॒ऽमव॑ रुन्धे॒, ऽग्निश्च॑ म॒ आप॑श्च म॒ इत्या॑है॒षा वा अन्न॑स्य॒ योनि॒स्स यो᳚न्ये॒वान्न॒मऽव॑ रुन्धेर्,-ध॒न्द्राणि॑ जुहोति दे॒वता॑ ए॒वाऽव॑ रुन्धे॒ यथ् सर्वे॑षा-म॒द्र्धमिन्द्रः॒ प्रति॒ तस्मा॒दिन्द्रो॑, दे॒वता॑नां भूयिष्ठ॒भाक्त॑म॒ इन्द्र॒मुत्त॑रमाहे-न्द्रि॒यमे॒वाऽस्मि॑-न्नु॒परि॑ष्टाद्
दधाति, यज्ञायु॒धानि॑ जुहोति य॒ज्ञो
T.S. 5-4-8-4
वै य॑ज्ञायु॒धानि॑ य॒ज्ञमे॒वाऽव॑ रु॒न्धेऽथो॑ ए॒तद्वै य॒ज्ञस्य॑ रू॒प रू॒पेणै॒व
य॒ज्ञमव॑ रुन्धे,ऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ म॒ इत्या॑ह स्व॒गाकृ॑त्या,
अ॒ग्निश्च॑ मे घ॒र्मश्च॑ म॒ इत्या॑है॒तद् वै ब्र॑ह्मवर्च॒सस्य॑ रू॒पꣳ
रू॒पेणै॒व ब्र॑ह्मवर्च॒समव॑ रुन्ध॒, ऋक्च॑ मे॒ साम॑ च म॒ इत्या॑है॒
T.S. 5-4-8-5
तद्वै छन्द॑सा रू॒पꣳ रू॒पेणै॒व छन्दा॒ᳺ॒स्यव॑ रुन्धे॒, गर्भा᳚श्च मे व॒थ्साश्च॑ म॒ इत्या॑है॒तद् वै प॑शू॒ना रू॒पꣳ रू॒पेणै॒व प॒शूनव॑ रुन्धे॒,
कल्पा᳚ञ्जुहो॒त्य क्ळृ॑प्तस्य॒ क्लृप्त्यै॑ युग्मद यु॒जे जु॑होति
मिथुन॒त्वायो᳚-त्त॒राव॑ती भवतो॒ऽभिक्रा᳚न्त्या॒, एका॑ च मे ति॒स्रश्च॑
म॒ इत्या॑ह देवछन्द॒सं ँवा एका॑ च ति॒स्रश्च॑
T.S. 5-4-8-6
मनुष्यछन्द॒सं चत॑स्रश्चा॒ष्टौ च॑ देवछन्द॒सं चै॒व म॑नुष्य
छन्द॒ससम् चाऽव॑ रुन्ध॒, आ त्रय॑स्त्रिꣳ शतो जुहोति॒ त्रय॑स्त्रिꣳ श॒द्वै दे॒वता॑ दे॒वता॑
ए॒वाऽव॑ रुन्ध॒, आऽष्टा च॑त्वारिꣳ शतो जुहोत्य॒ष्टा च॑त्वारिꣳ शदक्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यै॒वाऽस्मै॑ प॒शूनव॑ रुन्धे॒, वाज॑श्च प्रस॒वश्चेति॑ द्वाद॒शं जु॑होति॒ द्वाद॑श॒ मासा᳚ स्स ँम्वथ्स॒र स्स॑ ँम्वथ्स॒र ए॒व प्रति॑ तिष्ठति ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
पू॒र्णा॒हु॒ति-मु॑त्त॒मां जु॑होति । सर्वं॒ ँवै पू᳚र्णाहु॒तिः । सर्व॑मे॒वाप्नो॑ति ।
अथो॑ इ॒यं ँवै पू᳚र्णाहु॒तिः । अ॒स्यामे॒व प्रति॑तिष्ठति ।
स॒प्तते॑ अग्ने स॒मिध॑ स्स॒प्तजि॒ह्वा-स्स॒प्तर्.ष॑य-स्स॒प्तधाम॑ प्रि॒याणि॑ ।
स॒प्तहोत्रा᳚ स्सप्त॒धात्वा॑ यजन्ति स॒प्तयोनी॒ रापृ॑णस्वा घृ॒तेन॒ स्वाहा᳚ ।
अग्नये सप्तवत इदं न मम ।
37. घन मन्त्राः
वाक्यं- मे जी॒वातु॑श्च मे, दीर्घायु॒त्वं च॑ मे, ऽनमि॒त्रं च॒ मे, ऽभ॑यं च मे, सु॒गं च॑ मे॒, शय॑नं च मे, सू॒षा च॑ मे, सु॒दिनं॑ च मे ॥
पदम् - मे॒ । जी॒वातुः॑ । च॒ । मे॒ । दी॒र्घा॒यु॒त्वमिति॑ दीर्घायु - त्वम्
(दी॒र्घा॒यु॒त्वम्) । च॒ । मे॒ । अ॒न॒मि॒त्रम् । च॒ । मे॒ । अभ॑यम् । च॒ । मे॒ ।
सु॒गमिति॑ सु-गम् (सु॒गम्) । च॒ । मे॒ । शय॑नम् ( ) । च॒ । मे॒ ।
सू॒षेति॑ सु - उ॒षा (सूषा॒) । च॒ । मे॒ । सु॒दिन॒मिति॑ सु - दिन᳚म् (सु॒दिन᳚म्) । च॒ । मे॒ ॥
1. मे॒ । जी॒वातुः॑ । च॒ ।
मे॒॒ जी॒॒वातु॑र्, जी॒वातु॑र् मे, मे जी॒वातु॑श्च, च जी॒॒वातु॑र् मे,
मे जी॒वातु॑श्च ।
2. जी॒वातुः॑ । च॒ । मे॒ ।
जी॒वातु॑श्च, च जी॒वातु॑र्,-जी॒वातु॑-श्च मे, मे च जी॒॒वातु॑र्,
जी॒वातु॑श्च मे ।
3. च॒ । मे॒ । (दी॒र्घा॒यु॒त्वम्) ।
च॒ मे॒, मे॒ च॒, च॒ मे॒ दी॒र्घा॒यु॒त्वं, दी᳚र्घायु॒त्वं मे॑ च, च मे दीर्घायु॒त्वं ।
4. मे॒ । (दी॒र्घा॒यु॒त्वम्) । च॒ ।
मे॒ दी॒र्घा॒यु॒त्वं, दी᳚र्घायु॒त्वं मे॑, मे दीर्घायु॒त्वं च॑, च दीर्घायु॒त्वं मे॑,
मे दीर्घायु॒त्वं च॑ ।
5. (दी॒र्घा॒यु॒त्वम्) । च॒ । मे॒ ।
दी॒र्घा॒यु॒त्वं च॑, च दीर्घायु॒त्वं, दी᳚र्घायु॒त्वं च॑ मे, मे च दीर्घायु॒त्वं,
दी᳚र्घायु॒त्वं च॑ मे ।
6. (दी॒र्घा॒यु॒त्वम्) ।
दी॒र्घा॒यु॒त्वमिति॑ दीर्घायु - त्वं ।
7. च॒ । मे॒ । अ॒न॒मि॒त्रम् ।
च॒ मे॒, मे॒ च॒, च॒ मे॒ ऽन॒मि॒त्र, म॑नमि॒त्रं मे॑ च, च मे ऽनमि॒त्रं ।
8. मे॒ । अ॒न॒मि॒त्रम् । च॒ ।
मे॒-ऽन॒मि॒त्र, म॑नमि॒त्रं मे॑, मे ऽनमि॒त्रं च॑, चा नमि॒त्रं मे॑, मे ऽनमि॒त्रं च॑ ।
9. अ॒न॒मि॒त्रम् । च॒ । मे॒ ।
अ॒न॒मि॒त्रं च॑, चा नमि॒त्र,-म॑नमि॒त्रं च॑ मे, मे चा नमि॒त्र,
-म॑नमि॒त्रं च॑ मे ।
10. च॒ । मे॒ । अभ॑यम् ।
च॒ मे॒, मे॒ च॒, च॒ मेऽभ॑य॒,-मभ॑यं मे च, च॒ मे ऽभ॑यं ।
11. मे॒ । अभ॑यम् । च॒ ।
मे ऽभ॑य॒,-मभ॑यं मे॒, मे ऽभ॑यं च॒, चा भ॑यं मे॒, मे ऽभ॑यं च ।
12. अभ॑यम् । च॒ । मे॒ ।
अभ॑यं च॒, चा भ॑य॒,-मभ॑यं च मे, मे॒ चा भ॑य॒,-मभ॑यं च मे ।
13. च॒ । मे॒ । (सु॒गम्) ।
च॒ मे॒, मे॒ च॒, च॒ मे॒ सु॒गꣳ, सु॒गं मे॑ च, च मे सु॒गं ।
14. मे॒ । (सु॒गम्) । च॒ ।
मे॒ सु॒गꣳ, सु॒गं मे॑, मे सु॒गं च॑, च सु॒गं मे॑, मे सु॒गं च॑ ।
15. (सु॒गम्) । च॒ । मे॒ ।
सु॒गं च॑, च सु॒गꣳ, सु॒गं च॑ मे, मे च सु॒गꣳ, सु॒गं च॑ मे ।
16. (सु॒गम्) ।
सु॒गमिति॑ सु - गं ।
17. च॒ । मे॒ । शय॑नम् ।
च॒ मे॒, मे॒ च॒, च॒ मे॒ शयन॒ꣳ॒, शय॑नं मे च, च मे॒ शय॑नं ।
18. मे॒ । शय॑नम् । च॒ ।
मे॒ शय॑न॒ꣳ॒ शय॑नं मे, मे॒ शय॑नं च, च॒ शय॑नं मे, मे॒ शय॑नं च ।
19. शय॑नम् । च॒ । मे॒ ।
शय॑नं च, च॒ शय॑न॒ꣳ॒, शय॑नं च मे, मे च॒ शय॑न॒ꣳ॒, शय॑नं च मे ।
20. च॒ । मे॒ । (सूषा॒) ।
च॒ मे॒, मे॒ च॒, च॒ मे॒ सू॒षा, सू॒षा मे॑ च, च मे सू॒षा ।
21. च॒ । मे॒ । (सूषा॒) । च॒ ।
मे॒ सू॒षा, सू॒षा मे॑, मे सू॒षा च॑, च सू॒षा मे॑, मे सू॒षा च॑ ।
22. (सूषा॒) । च॒ । मे॒ ।
सू॒षा च॑, च सू॒षा, सू॒षा च॑ मे, मे च सू॒षा, सू॒षा च॑ मे ।
23. (सूषा॒) ।
सू॒षेति॑ सु - उ॒षा ।
24. च॒ । मे॒ । (सु॒दिन᳚म्) ।
च॒ मे॒, मे॒ च॒, च॒ मे॒ सु॒दिनꣳ॑, सु॒दिनं॑ मे च, च मे सु॒दिनं᳚ ।
25. मे॒ । (सु॒दिन᳚म्) । च॒ ।
मे॒ सु॒दिनꣳ॑, सु॒दिनं॑ मे, मे॑ सु॒दिनं॑ च, च सु॒दिनं॑ मे, मे सु॒दिनं॑ च ।
26. (सु॒दिन᳚म्) । च॒ । मे॒ ।
सु॒दिनं॑ च, च सु॒दिनꣳ॑, सु॒दिनं॑ च मे, मे च सु॒दिनꣳ॑,
सु॒दिनं॑ च मे ।
27. (सु॒दिन᳚म्) ।
सु॒दिन॒मिति॑ सु - दिनं᳚ ।
28. च॒ । मे॒ ।
च॒ मे॒, मे॒ च॒, च॒ मे॒ ।
29. मे॒ ।
म इति॑ मे ॥
वाक्यं - मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥
पदम् -मयि॑ । मे॒धाम् । मयि॑ । प्र॒जामिति॑ प्र - जाम् (प्र॒जाम्) ।
मयि॑ । सूर्यः॑ । भ्राजः॑ । द॒धा॒तु॒ ॥
1. मयि॑ । मे॒धाम् । मयि॑ ।
मयि॑ मे॒धां, मे॒धां मयि॒, मयि॑ मे॒धां मयि॒, मयि॑ मे॒धां मयि॒,
मयि॑ मे॒धां मयि॑ ।
2. मे॒धाम् । मयि॑ । (प्र॒जाम्) ।
मे॒धां मयि॒, मयि॑ मे॒धां, मे॒धां मयि॑ प्र॒जां, प्र॒जां मयि॑ मे॒धां,
मे॒धां मयि॑ प्र॒जां ।
3. मयि॑ । (प्र॒जाम्) । मयि॑ ।
मयि॑ प्र॒जां, प्र॒जां मयि॒, मयि॑ प्र॒जां मयि॒, मयि॑ प्र॒जां मयि॒,
मयि॑ प्र॒जां मयि॑ ।
4. (प्र॒जाम्) । मयि॑ । सूर्यः॑ ।
प्र॒जां मयि॒, मयि॑ प्र॒जां, प्र॒जां मयि॒ सूर्य॒, स्सूर्यो॒ मयि॑ प्र॒जां,
प्र॒जां मयि॒ सूर्यः॑ ।
5. (प्र॒जाम्)
प्र॒जामिति॑ प्र - जां ।
6. मयि॑ । सूर्यः॑ । भ्राजः॑ ।
मयि॒ सूर्य॒, स्सूर्यो॒ मयि॒, मयि॒ सूर्यो॒ भ्राजो॒, भ्राज॒ स्सूर्यो॒ मयि॒,
मयि॒ सूर्यो॒ भ्राजः॑ ।
7. सूर्यः॑ । भ्राजः॑ । द॒धा॒तु॒ ॥
सूर्यो॒ भ्राजो॒, भ्राज॒ स्सूर्य॒, स्सूर्यो॒ भ्राजो॑ दधातु, दधातु॒ भ्राज॒ स्सूर्य॒, स्सूर्यो॒ भ्राजो॑ दधातु ।
8. भ्राजः॑ । द॒धा॒तु॒ ॥
भ्राजो॑ दधातु, दधातु॒ भ्राजो॒, भ्राजो॑ दधातु ।
9. द॒धा॒तु॒ ॥
दधा॒त्विति॑ दधातु ॥
ते॒ज॒स्वी य॑श॒स्वी ब्र॑ह्मवर्च॒सी स्या॒मिति॑ ।
प्राङा होतु॒-र्धिष्ण्या॒ दुथ्स॑र्पेत् ।
येयं प्रागा॒द् यश॑स्वती । सामा॒ प्रोर्णो॑तु ।
तेज॑सा॒ यश॑सा ब्रह्मवर्च॒सेनेति॑ ।
तेज॒स्-व्ये॑व य॑श॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति ॥
वाक्यं - मारु॑तमन॒र्वाणꣳ॑ रथे॒शुभं᳚ ।
पदम् - मारु॑तम् । अ॒न॒र्वाण᳚म् । र॒थे॒शुभ॒मिति॑ रथे - शुभ᳚म्
(र॒थे॒शुभ᳚म् ) ॥
1. मारु॑तम् । अ॒न॒र्वाण᳚म् । (र॒थे॒शुभ᳚म् ) ॥
मारु॑त- मन॒र्वाण॑, मन॒र्वाणं॒ मारु॑तं॒, मारु॑त-मन॒र्वाणꣳ॑ रथे॒शुभꣳ॑,
रथे॒शुभ॑ मन॒र्वाणं॒ मारु॑तं॒, मारु॑त मन॒र्वाणꣳ॑ रथे॒शुभं᳚ ।
2. अ॒न॒र्वाण᳚म् । (र॒थे॒शुभ᳚म् ) ॥
अ॒न॒र्वाणꣳ॑ रथे॒शुभꣳ॑, रथे॒शुभ॑-मन॒र्वाण॑,-मन॒र्वाणꣳ॑ रथे॒शुभं᳚ ।
3. (र॒थे॒शुभ᳚म् ) ॥
र॒थे॒ शुभ॒मिति॑ रथे - शुभं᳚ ॥
अतो॑तो॒ वा उत्त॑राणि॒ श्रेयाꣳ॑सि भवन्ति ॥
सा प्र॒जां प॒शून् यज॑मानाय॒ प्रज॑नयति ॥
पदम् - सा । प्र॒जामिति॑ प्र - जाम् (प्र॒जाम्) । प॒शून् ।
यज॑मानाय । प्रेति॑ (प्र) । ज॒न॒य॒ति॒ ॥
1. सा । (प्र॒जाम्) । प॒शून् ।
सा प्र॒जां, प्र॒जाꣳ सा, सा प्र॒जां प॒शून्, प॒शून् प्र॒जाꣳ सा,
सा प्र॒जां प॒शून् ।
2. (प्र॒जाम्) । प॒शून् । यज॑मानाय ।
प्र॒जां प॒शून्, प॒शून् प्र॒जां, प्र॒जां प॒शून् यज॑मानाय॒,
यज॑मानाय प॒शून् प्र॒जां, प्र॒जां प॒शून् यज॑मानाय ।
3. (प्र॒जाम्) ।
प्र॒जामिति॑ प्र - जां ।
4. प॒शून् । यज॑मानाय । (प्र) ।
प॒शून् यज॑मानाय॒, यज॑मानाय प॒शून्, प॒शून् यज॑मानाय॒ प्र,
प्र यज॑मानाय प॒शून् प॒शून् यज॑मानाय॒ प्र ।
5. यज॑मानाय । (प्र) । ज॒न॒य॒ति॒ ॥
यज॑मानाय॒ प्र, प्र यज॑मानाय॒, यज॑मानाय॒ प्र ज॑नयति,
जनयति॒ प्र यज॑मानाय॒, यज॑मानाय॒ प्र ज॑नयति ।
6. (प्र) । ज॒न॒य॒ति॒ ॥
प्र ज॑नयति, जनयति॒ प्र, प्र ज॑नयति ।
7. ज॒न॒य॒ति॒ ॥
ज॒न॒य॒तीति॑ जनयति ॥
ए॒तेन॒ वै दे॒वा जैत्वा॑नि जि॒त्वा । यं काम॒म-का॑मयन्त॒ तमा᳚प्नुवन्न् ।
यं कामं॑ का॒मय॑ते । तमे॒ तेना᳚प्नोति ॥
यस्य॑ पु॒त्रो जा॒तः स्यात् तेज॑ ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति ॥
पदम् - यस्य॑ । पु॒त्रः । जा॒तः । स्यात् । तेजः॑ । ए॒व । अ॒स्मि॒न्न् ।
ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् (ब्र॒ह्म॒व॒र्च॒सम्) । द॒धा॒ति॒ ॥
1. यस्य॑ । पु॒त्रः । जा॒तः ।
यस्य॑ पु॒त्रः, पु॒त्रो यस्य॒, यस्य॑ पु॒त्रो जा॒तो, जा॒तः पु॒त्रो यस्य॒,
यस्य॑ पु॒त्रो जा॒तः ।
2. पु॒त्रः । जा॒तः । स्यात् ।
पु॒त्रो जा॒तो, जा॒तः पु॒त्रः, पु॒त्रो जा॒त-स्स्या, थ्स्या-ज्जा॒तः पु॒त्रः,
पु॒त्रो जा॒त-स्स्यात् ।
3. जा॒तः । स्यात् । तेजः॑ ।
जा॒त-स्स्या,थ्स्या-ज्जा॒तो, जा॒त-स्यात् तेज॒, स्तेज॒-स्या ज्जा॒तो,
जा॒त-स्यात् तेजः॑ ।
4. स्यात् । तेजः॑ । ए॒व ।
स्या तेज॒स्ते ज॒स्या थ्स्यात्तेज॑ ए॒वै व तेज॒स्या थ्स्यात्तेज॑ ए॒व ।
5. तेजः॑ । ए॒व । अ॒स्मि॒न्न् ।
तेज॑ ए॒वै व तेज॒, स्तेज॑ ए॒वास्मि॑, -न्नस्मिन्ने॒व तेज॒,
स्तेज॑ ए॒वास्मिन्न्॑ ॥
6. ए॒व । अ॒स्मि॒न्न् । (ब्र॒ह्म॒व॒र्च॒सम्) ।
ए॒वास्मि॑-न्नस्मिन्ने॒-, वै-वाऽस्मि॑न् ब्रह्मवर्च॒सं,
ब्र॑ह्मवर्च॒स-म॑स्मिन्ने॒ वै, वास्मि॑न् ब्रह्मवर्च॒सं ।
7. अ॒स्मि॒न्न् । (ब्र॒ह्म॒व॒र्च॒सम्) । द॒धा॒ति॒ ॥
अ॒स्मि॒न्॒ ब्र॒ह्म॒व॒र्च॒सं, ब्र॑ह्मवर्च॒स-म॑स्मि-, न्नस्मिन् ब्रह्मवर्च॒सं द॑धाति, दधाति ब्र॑ह्मवर्च॒स - म॑स्मि, -न्नस्मिन् ब्रह्मवर्च॒सं द॑धाति ।
8. (ब्र॒ह्म॒व॒र्च॒सम्) । द॒धा॒ति॒ ॥
ब्र॒ह्म॒व॒र्च॒सं द॑धाति, दधाति ब्रह्मवर्च॒सं, ब्र॑ह्मवर्च॒सं द॑धाति ।
9. (ब्र॒ह्म॒व॒र्च॒सम्) ।
ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - वर्च॒सं ।
10. द॒धा॒ति॒ ॥
द॒धा॒तीति॑ दधाति ॥
ते॒ज॒स्वी य॑श॒स्वी ब्र॑ह्मवर्च॒सी स्या॒मिति॑ ।
प्राङा होतु॒ र्धिष्ण्या॒ दुथ्स॑र्पेत् ।
येयं प्रागा॒द् यश॑स्वति । सामा॒ प्रोर्णो॑तु ।
तेज॑सा॒ यश॑सा ब्रह्मवर्च॒सेनेति॑ ।
ते॒ज॒स् व्ये॑व य॑श॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति ॥
वाक्यं - ये दे॒वा दि॒वि भा॑गा॒ इति॑ कृष्णा जि॒नमव॑ धूनोती॒म ए॒वास्मै॑ लो॒काः प्री॒ता अ॒भीष्टा भवन्ति ।
पदम् - ये । दे॒वाः । दि॒विभा॑गा॒ इति॑ दि॒वि - भा॒गाः॒ (दि॒विभा॑गाः) । इति॑ । कृ॒ष्णा॒जि॒नमिति॑ कृष्ण - अ॒जि॒नम् (कृ॒ष्णा॒जि॒नम्) ।
अवेति॑ (अव॑) । धू॒नो॒ति॒ । इ॒मे । ए॒व । अ॒स्मै॒ । लो॒काः । प्री॒ताः ।
अ॒भीष्टा॒ इत्य॒भि - इ॒ष्टाः॒ (अ॒भीष्टाः᳚) । भ॒व॒न्ति॒ ॥
1. ये । दे॒वाः । (दि॒विभा॑गाः) ।
ये दे॒वा, दे॒वा ये, ये दे॒वा दि॒विभा॑गा, दि॒विभा॑गा दे॒वा ये,
ये दे॒वा दि॒विभा॑गाः ।
2. दे॒वाः । (दि॒विभा॑गाः) । इति॑ ।
दे॒वा दि॒विभा॑गा, दि॒विभा॑गा दे॒वा, दे॒वा दि॒विभा॑गा॒ इतीति॑ दि॒विभा॑गा दे॒वा, दे॒वा दि॒विभा॑गा॒ इति॑ ।
3. (दि॒विभा॑गाः) । इति॑ । (कृ॒ष्णा॒जि॒नम्) ।
दि॒विभा॑गा॒ इतीति॑ दि॒विभा॑गा, दि॒विभा॑गा॒ इति॑ कृष्णाजि॒नं,
कृ॑ष्णाजि॒न-मिति॑ दि॒विभा॑गा, दि॒विभा॑गा॒ इति॑ कृष्णाजि॒नं ।
4. (दि॒विभा॑गाः) ।
दि॒विभा॑गा॒ इति॑ दि॒वि - भा॒गाः॒ ।
5. इति॑ । (कृ॒ष्णा॒जि॒नम्) । (अव॑) ।
इति॑ कृष्णाजि॒नं, कृ॑ष्णाजि॒न - मितीति॑ कृष्णाजि॒न-मवाव॑ कृष्णाजि॒न-मितीति॑ कृष्णाजि॒न-मव॑ ।
6. (कृ॒ष्णा॒जि॒नम्) । (अव॑) । धू॒नो॒ति॒ ।
कृ॒ष्णा॒जि॒न-मवाव॑ कृष्णाजि॒नं कृ॑ष्णाजि॒न-मव॑ धूनोति धूनो॒त्यव॑ कृ॑ष्णाजि॒नं कृष्णाजि॒न-मव॑ धूनोति ।
7. (कृ॒ष्णा॒जि॒नम्) ।
कृ॒ष्णा॒ जि॒नमिति॑ कृष्ण - अ॒जि॒नं ।
8. (अव॑) । धू॒नो॒ति॒ । इ॒मे ।
अव॑ धूनोति धूना॒ त्यवाव॑ धूनोती॒ म इ॒मे धू॑नो॒त्यवाव॑ धूनोती॒मे ।
9. धू॒नो॒ति॒ । इ॒मे । ए॒व ।
धू॒नो॒ती॒म इ॒मे धू॑नोति धूनोती॒म ए॒वै वे मे धू॑नोति धूनोती॒म ए॒व ।
10. इ॒मे । ए॒व । अ॒स्मै॒ ।
इ॒म ए॒वै वे म इ॒म ए॒वास्मा॑ अस्मा ए॒वेम इ॒म ए॒वास्मै᳚ ।
11. ए॒व । अ॒स्मै॒ । लो॒काः ।
ए॒वास्मा॑ अस्मा ए॒वै वास्मै॑ लो॒का लो॒का अ॑स्मा
ए॒वै वास्मै॑ लो॒काः ।
12. अ॒स्मै॒ । लो॒काः । प्री॒ताः ।
अ॒स्मै॒ लो॒का , लो॒का अ॑स्मा, अस्मै लो॒का प्री॒ताः ,
प्री॒ता लो॒का अ॑स्मा,अस्मै लो॒काः प्री॒ताः ।
13. लो॒काः । प्री॒ताः । (अ॒भीष्टाः᳚) ।
लो॒काः प्री॒ताः, प्री॒ता लो॒का, लो॒काः प्री॒ता अ॒भीष्टा॑,
अ॒भीष्टाः᳚ प्री॒ता लो॒का, लो॒काः प्री॒ता अ॒भीष्टाः᳚ ।
14. प्री॒ताः । (अ॒भीष्टाः᳚) । भ॒व॒न्ति॒ ॥
प्री॒ता अ॒भीष्टा॑ अ॒भीष्टाः᳚ प्री॒ताः प्री॒ता अ॒भीष्टा॑ भवन्ति
भवन्त्य॒भीष्टाः᳚ प्री॒ताः प्री॒ता अ॒भीष्टा॑ भवन्ति ।
15. (अ॒भीष्टाः᳚) । भ॒व॒न्ति॒ ॥
अ॒भीष्टा॑ भवन्ति भवन्त्य॒भीष्टा॑ अ॒भीष्टा॑ भवन्ति ।
16. (अ॒भीष्टाः᳚) ।
अ॒भीष्टा॒ इत्य॒भि - इ॒ष्टाः॒ ।
17. भ॒व॒न्ति॒ ॥
भ॒वन्तीति॑ भवन्ति ॥
हृद॑यं॒ यजूꣳ॑षि॒ पत्न्य॑श्च । य॒था॒व॒का॒शं ग्रहान्॑ ।
य॒था॒व॒का॒शं प्र॑तिग्र॒हान् ँलो॑कं पृ॒णाश्च॑ ।
सर्वाहा॑स्यै॒ ता दे॒वताः᳚ प्री॒ता अ॒भीष्टा॑ भवन्ति ॥
प्र॒जामायु॒द्र्धनं॑ च ।
पदम् - प्र॒जामिति॑ प्र-जाम् (प्र॒जाम्) । आयुः॑ । धन᳚म् । च॒ ॥
1. (प्र॒जाम्) । आयुः॑ । धन᳚म् ।
प्र॒जा-मायु॒रायुः॑ प्र॒जां प्र॒जामायु॒र्धनं॒ धन॒मायुः॑ प्र॒जां प्र॒जामयु॒र्धनं᳚ ।
2. (प्र॒जाम्) ।
प्र॒जामिति॑ प्र - जां ।
3. आयुः॑ । धन᳚म् । च॒ ॥
आयु॒र् धनं॒ धन॒-मायु॒-रायु॒र् धनं॑ च च॒ धन॒-मायु॒-रायु॒र् धनं॑ च ।
4. धन᳚म् । च॒ ॥
धनं॑ च च॒ धनं॒ धनं॑ च ।
5. च॒ ॥
चेति॑ च ॥
पश्य॑ति पु॒त्रं । पश्य॑ति॒ पौत्रं᳚ । प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते ।
यस्यै॒वं ँवि॒दुषो᳚ ऽग्निहो॒त्रं जुह्व॑ति । य उ॑चैन दे॒वं ँवेद॑ ॥
वाक्यं - सर्वे᳚भ्यो॒ वै कामे᳚भ्यः स॒न्धिर् दु॑हे॒ तद् यज॑माना॒ स्सर्वा॒न् कामा॒न व॑रुन्धते ॥
पदम् - सर्वे᳚भ्यः । वै । कामे᳚भ्यः । स॒न्धिरिति॑ सं - धिः (स॒न्धिः) ।
दु॒हे॒ । तत् । यज॑मानाः । सर्वान्॑ । कामान्॑ । अवेति॑ (अव॑) । रु॒न्ध॒ते॒ ॥
1. सर्वे᳚भ्यः । वै । कामे᳚भ्यः ।
सर्वे᳚भ्यो॒ वै, वै सर्वे᳚भ्यः॒ , सर्वे᳚भ्यो॒ वै कामे᳚भ्यः॒, कामे᳚भ्यो॒ वै सर्वे᳚भ्यः, सर्वे᳚भ्यो॒ वै कामे᳚भ्यः ।
2. वै । कामे᳚भ्यः । (स॒न्धिः) ।
वै कामे᳚भ्यः॒, कामे᳚भ्यो॒ वै, वै कामे᳚भ्य-स्स॒न्धि,
स्स॒न्धिः कामे᳚भ्यो॒ वै, वै कामे᳚भ्य-स्स॒न्धिः ।
3. कामे᳚भ्यः । (स॒न्धिः) । दु॒हे॒ ।
कामे᳚भ्य स्स॒न्धि, स्स॒न्धिः कामे᳚भ्यः॒, कामे᳚भ्यः स॒न्धिर् दु॑हे,
दुहे स॒न्धिः कामे᳚भ्यः॒, कामे᳚भ्यः सं॒न्धि दु॑हे ।
4. (स॒न्धिः) । दु॒हे॒ । तत् ।
सं॒धिर् दु॑हे, दुहे स॒न्धि, स्स॒न्धिर् दु॑हे॒ तत्तद् दु॑हे स॒न्धि,
स्स॒न्धिर् दु॑हे॒ तत् ।
5. (स॒न्धिः) ।
स॒न्धिरिति॑ सं - धिः ।
6. दु॒हे॒ । तत् । यज॑मानाः ।
दु॒हे॒ तत्तद् दु॑हे , दुहे॒ तद् यज॑माना॒, यज॑माना॒ स्तद् दु॑हे,
दुहे॒ तद् यज॑मानाः ।
7. तत् । यज॑मानाः । सर्वान्॑ ।
तद् यज॑माना॒, यज॑माना॒ स्तत्, तद् यज॑माना॒ स्सर्वा॒न्,
थ्सर्वा॒न् यज॑माना॒ स्तत्, तद् यज॑माना॒ स्सर्वान्॑ ।
8. यज॑मानाः । सर्वान्॑ । कामान्॑ ।
यज॑मानाः॒ सर्वा॒न्, थ्सर्वा॒न् यज॑माना॒, यज॑मानाः॒ सर्वा॒न् कामा॒न् ,
कामा॒न् थ्सर्वा॒न् यज॑माना॒, यज॑मानाः॒ सर्वा॒न् कामान्॑ ।
9. सर्वान्॑ । कामान्॑ । (अव॑) ।
सर्वा॒न् कामा॒न्, कामा॒न् थ्सर्वा॒न्, थ्सर्वा॒न् कामा॒न वाव॒ कामा॒न्
थ्सर्वा॒न् -थ्सर्वा॒न् कामा॒नव॑ ।
10. कामान्॑ । (अव॑) । रु॒न्ध॒ते॒ ॥
कामा॒न-वाव॒ कामा॒न्, कामा॒न व॑-रुन्धते रुन्ध॒तेऽव॒ कामा॒न्
कामा॒न-व॑-रुन्धते ।
11. (अव॑) । रु॒न्ध॒ते॒ ॥
अव॑-रुन्धते रुन्ध॒तेऽ वाव॑रुन्धते ।
12. रु॒न्ध॒ते॒ ॥
रु॒न्ध॒त॒ इति॑ रुन्धते ॥
सां॒ग॒ह॒ण्येष्ट्या॑ यजते । इ॒मां ज॒नता॒ꣳ॒ संगृ॑ह्णा॒ नीति॑ ।
द्वाद॑शा॒ रत्नी रश॒ना भ॑वति । द्वाद॑श॒ मासा᳚ स्सम् ँवथ्स॒रः ।
स॒म् ँव॒थ्स॒र मे॒वा व॑रुन्धे । मौं॒जी भ॑वति । ऊर्ग्वै मुञ्चाः᳚ ।
ऊर्ज॑ मे॒वा व॑रुन्धे । चि॒त्रा नक्ष॑त्रं भवति । चि॒त्रं ँवा ए॒तत् कर्म॑ ।
यद॑श्वमे॒ध-स्समृ॑द्ध्यै ॥
पुष्टिं॑ धत्तः॒ पुष्य॑ति प्र॒जया॑ प॒शुभिः॑ ॥
पदम् - पुष्टि᳚म् । ध॒त्तः॒ । पुष्य॑ति । प्र॒जयेति॑ प्र - जया᳚ (प्र॒जया᳚) ।
प॒शुभि॒रिति॑ प॒शु - भिः॒ (प॒शुभिः॑) ॥
1. पुष्टि᳚म् । ध॒त्तः॒ । पुष्य॑ति ।
पुष्टिं॑ धत्तो, धत्तः॒ पुष्टिं॒, पुष्टिं॑ धत्तः॒ पुष्य॑ति॒, पुष्य॑ति धत्तः॒ पुष्टिं॒,
पुष्टिं॑ धत्तः॒ पुष्य॑ति ।
2. ध॒त्तः॒ । पुष्य॑ति । (प्र॒जया᳚) ।
ध॒त्तः॒ पुष्य॑ति॒, पुष्य॑ति धत्तो, धत्तः॒ पुष्य॑ति प्र॒जया᳚, प्र॒जया॒ पुष्य॑ति धत्तो, धत्तः॒ पुष्य॑ति प्र॒जया᳚ ।
3. पुष्य॑ति । (प्र॒जया᳚) । (प॒शुभिः॑) ।
पुष्य॑ति प्र॒जया᳚, प्र॒जया॒ पुष्य॑ति॒, पुष्य॑ति प्र॒जया॑ प॒शुभिः॑,
प॒शुभिः॑ प्र॒जया॒ पुष्य॑ति॒, पुष्य॑ति प्र॒जया॑ प॒शुभिः॑ ।
4. (प्र॒जया᳚) । (प॒शुभिः॑) ।
प्र॒जया॑ प॒शुभिः॑, प॒शुभिः॑ प्र॒जया᳚, प॒जया॑ प॒शुभिः॑ ।
5. (प्र॒जया᳚) ।
प्र॒जयेति॑ प्र _ जया᳚ ।
6. (प॒शुभिः॑) ।
प॒शुभि॒रिति॑ प॒शु - भिः ॥
पुष्ट्यै॒ वा ए॒तद् रू॒पं । यद॒जा ।
त्रिस॑म् ँवथ्स॒र-स्या॒न्यान् प॒शून् परि॒ प्रजा॑यते । ब॒स्ता॒जि॒न म॒द्ध्यव॑ रोहति ।
पुष्ट्या॑मे॒व प्र॒जन॑ने॒ प्रति॑तिष्ठति ॥
वाक्यं - ता वि॑ष्णो पाहि पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिं पा॒हि मां
ँय॑ज्ञ॒नियं᳚ ॥
पदम् - ताः । वि॒ष्णो॒ इति॑ । पा॒हि॒ । पा॒हि । य॒ज्ञम् । पा॒हि । य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ -प॒ति॒म् (य॒ज्ञप॑तिम्) । पा॒हि । माम् । य॒ज्ञ॒निय॒मिति॑ यज्ञ - निय᳚म् (य॒ज्ञ॒निय᳚म्) ॥
1. ताः । वि॒ष्णो॒ । पा॒हि॒ ।
ता वि॑ष्णो, विष्णो॒ तास्ता वि॑ष्णो पाहि पाहि विष्णो॒
तास्ता वि॑ष्णो पाहि ।
2. वि॒ष्णो॒ । पा॒हि॒ । पा॒हि ।
वि॒ष्णो॒ पा॒हि॒, पा॒हि॒ वि॒ष्णो॒, वि॒ष्णो॒ पाहि॒ पा॒हि॒, पा॒हि पा॑हि विष्णो,
विष्णो पाहि पा॒हि ।
3. वि॒ष्णो॒ इति॑ ।
वि॒ष्णो॒ इति॑ - विष्णो ।
4. पा॒हि॒ । पा॒हि । य॒ज्ञम् ।
पा॒हि॒ पा॒हि, पा॒हि पा॑हि, पाहि पा॒हि य॒ज्ञं, ँय॒ज्ञं पा॒हि पा॑हि,
पाहि पा॒हि य॒ज्ञं ।
5. पा॒हि । य॒ज्ञम् । पा॒हि ।
पा॒हि य॒ज्ञं, ँय॒ज्ञं पा॒हि, पा॒हि य॒ज्ञं पा॒हि, पा॒हि य॒ज्ञं पा॒हि,
पा॒हि य॒ज्ञं पा॒हि ।
6. य॒ज्ञम् । पा॒हि । (य॒ज्ञप॑तिम्) ।
य॒ज्ञं पा॒हि, पा॒हि य॒ज्ञं, ँय॒ज्ञं पा॒हि य॒ज्ञप॑तिं, ँय॒ज्ञप॑तिं पा॒हि य॒ज्ञं,
ँय॒ज्ञं पा॒हि य॒ज्ञप॑तिं ।
7. पा॒हि । (य॒ज्ञप॑तिम्) । पा॒हि ।
पा॒हि य॒ज्ञप॑तिं, ँय॒ज्ञप॑तिं पा॒हि, पा॒हि य॒ज्ञप॑तिं पा॒हि,
पा॒हि य॒ज्ञप॑तिं पा॒हि, पा॒हि य॒ज्ञप॑तिं पा॒हि ।
8. (य॒ज्ञप॑तिम्) । पा॒हि । माम् ।
य॒ज्ञप॑तिं पा॒हि, पा॒हि य॒ज्ञप॑तिं, ँय॒ज्ञप॑तिं पा॒हि मां, मां पा॒हि
य॒ज्ञप॑तिं, ँय॒ज्ञप॑तिं पा॒हि मां ।
9. (य॒ज्ञप॑तिम्) ।
य॒ज्ञप॑ति॒ मिति॑ य॒ज्ञ - प॒तिं॒ ।
10. पा॒हि । माम् । (य॒ज्ञ॒निय᳚म्) ॥
पा॒हि मां, मां पा॒हि, पा॒हि मां ँय॑ज्ञ॒नियं॑, ँयज्ञ॒नियं॒ मां पा॒हि,
पा॒हि मां ँय॑ज्ञ॒नियं᳚ ।
11. माम् । (य॒ज्ञ॒निय᳚म्) ॥
मां ँय॑ज्ञ॒नियं॑, ँयज्ञ॒नियं॒ मां, मां य~ं॑ज्ञ॒नियं᳚ ।
12. (य॒ज्ञ॒निय᳚म्) ॥
य॒ज्ञ॒निय॒मिति॑ यज्ञ - नियं᳚ ॥
ता वि॑ष्णो पा॒हीत्या॑ह । य॒ज्ञोवै विष्णुः॑ । य॒ज्ञस्य॒तृतै᳚ ।
पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिं पा॒हिमां ँय॑ज्ञ॒निय॒मित्या॑ह ।
य॒ज्ञाय॒ यज॑मानाया॒त्मने᳚ । तेभ्य॑ ए॒वाशिष॒ मा शा॒स्तेना᳚त्यै ॥
वाक्यं - आ॒शिष॑ मे॒ वै तामा शा᳚स्ते ॥
पदम् - आ॒शिष॒मित्या᳚ - शिष᳚म् (आ॒शिष᳚म्) । ए॒व । ए॒ताम् । एति॑ (A) । शा॒स्ते॒ ॥
1. (आ॒शिष᳚म्) । ए॒व । ए॒ताम् ।
आ॒शिष॑मे॒ वै वाशिष॑ मा॒शिष॑मे॒ वैता मे॒ता मे॒वाशिष॑ मा॒शिष॑ मे॒ वैतां ।
2. (आ॒शिष᳚म्)
आ॒शिष॒मित्या᳚ - शिषं᳚ ।
3. ए॒व । ए॒ताम् । (A) ।
ए॒ वै ता मे॒ता मे॒ वै वै ता मै ता मे॒ वै वै ता मा ।
4. ए॒ताम् । (A) । शा॒स्ते॒ ॥
ए॒ता मैता मे॒ता मा शा᳚स्ते शास्त॒ ऐता मे॒ता मा शा᳚स्ते ।
5. (A) । शा॒स्ते॒ ॥
आशा᳚स्ते शास्त॒ आशा᳚स्ते ।
6. शा॒स्ते॒ ॥
शा॒स्त॒ इति॑ शास्ते ॥
वाक्यं - त एवास्मिन्नायुर् दधति सर्वमायुरेति ॥
पदम् - ते । ए॒व । अ॒स्मि॒न्न् । आयुः॑ । द॒ध॒ति॒ । सर्व᳚म् ।
आयुः॑ । ए॒ति॒ ॥
1. ते । ए॒व । अ॒स्मि॒न्न् ।
त ए॒वै व ते त ए॒वास्मि॑न्न-स्मिन्ने॒ व ते त ए॒वास्मिन्न्॑ ।
2. ए॒व । अ॒स्मि॒न्न् । आयुः॑ ।
ए॒वास्मि॑न्न-स्मिन्ने॒ वै वास्मि॒न्नायु॒रायु॑-रस्मिन्ने॒ वै वास्मि॒न्नायुः॑ ।
3. अ॒स्मि॒न्न् । आयुः॑ । द॒ध॒ति॒ ।
अ॒स्मि॒न्नायु॒रायु॑-रस्मिन्न-स्मि॒न्नायु॑र् दधति दध॒त्यायु॑-रस्मिन्नऽ॒-
मि॒न्नायु॑र् दधति ।
4. आयुः॑ । द॒ध॒ति॒ । सर्व᳚म् ।
आयु॑र् दधति दध॒त्या-यु॒रायु॑र् दधति॒ सर्व॒ꣳ॒ सर्वं॑ दध॒त्या-यु॒रायु॑र्
दधति॒ सर्वं᳚ ।
5. द॒ध॒ति॒ । सर्व᳚म् । आयुः॑ ।
द॒ध॒ति॒ सर्व॒ꣳ॒, सर्वं॑ दधति, दधति॒ सर्व॒मायु॒, -रायु॒स्सर्वं॑ दधति,
दधति॒ सर्व॒मायु॑ ।
6. सर्व᳚म् । आयुः॑ । ए॒ति॒ ॥
सर्व॒ मायु॒, -रायु॒ स्सर्व॒ꣳ॒, सर्व॒मायु॑रेत्ये॒ त्यायु-स्सर्व॒ꣳ॒,
सर्व॒मायु॑रेति ।
7. आयुः॑ । ए॒ति॒ ॥
आयु॑रेत्ये॒-त्यायु॒-रायु॑रेति ।
8. ए॒ति॒ ॥
ए॒तीत्ये॑ति ॥
वाक्यं - श॒तमा॑नं भवति श॒तायुः॒ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये
प्रति॑तिष्ठति ॥
पदम् - श॒तमा॑न॒मिति॑ श॒त - मा॒न॒म् (श॒तमा॑नम्) । भ॒व॒ति॒ ।
श॒तायु॒रिति॑ श॒त - आ॒युः॒ (श॒तायुः॑) । पुरु॑षः । श॒तेन्द्रि॑य॒ इति॑
श॒त - इ॒न्द्रि॒यः॒ (श॒तेन्द्रि॑यः) । आयु॑षि । ए॒व । इ॒न्द्रि॒ये ।
प्रतीति॑ (प्रति॑) । ति॒ष्ठ॒ति॒ ।
1. (श॒तमा॑नम्) । भ॒व॒ति॒ । (श॒तायुः॑) ।
श॒तमा॑नं भवति, भवति श॒तमा॑नꣳ, श॒तमा॑नं भवति श॒तायु॑,
श्श॒तायु॑र् भवति श॒तमा॑नꣳ, श॒तमा॑नं भवति श॒तायुः॑ ।
2. (श॒तमा॑नम्) ।
श॒तमा॑न॒मिति॑ श॒त - मा॒नं॒ ।
3. भ॒व॒ति॒ । (श॒तायुः॑) । पुरु॑षः ।
भ॒व॒ति॒ श॒तायु॑, श्श॒तायु॑र् भवति, भवति श॒तायुः॒ पुरु॑षः॒,
पुरु॑ष श्श॒तायु॑र् भवति, भवति श॒तायुः॒ पुरु॑षः ।
4. (श॒तायुः॑) । पुरु॑षः । (श॒तेन्द्रि॑यः) ।
श॒तायुः॒ पुरु॑षः॒, पुरु॑ष श्श॒तायु॑, श्श॒तायुः॒ पुरु॑ष श्श॒तेन्द्रि॑य,
श्श॒तेन्द्रि॑यः॒ पुरु॑ष श्श॒तायु॑, श्श॒तायुः॒ पुरु॑ष श्श॒तेन्द्रि॑यः ।
5. (श॒तायुः॑) ।
श॒तायु॒रिति॑ श॒त - आ॒युः॒ ।
6. पुरु॑षः । (श॒तेन्द्रि॑यः) । आयु॑षि ।
पुरु॑ष श्श॒तेन्द्रि॑य, श्श॒तेन्द्रि॑यः॒ पुरु॑षः॒, पुरु॑ष श्श॒तेन्द्रि॑य॒
आयु॒ष्या-यु॑षि श॒तेन्द्रि॑यः॒ पुरु॑षः॒, पुरु॑ष श्श॒तेन्द्रि॑य॒ आयु॑षि ।
7. (श॒तेन्द्रि॑यः) । आयु॑षि । ए॒व ।
श॒तेन्द्रि॑य॒ आयु॒ष्यायु॑षि श॒तेन्द्रि॑य, श्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒ वैवायु॑षि
श॒तेन्द्रि॑य-श्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒व ।
8. (श॒तेन्द्रि॑यः) ।
श॒तेन्द्रि॑य॒ इति॑ श॒त - इ॒न्दि॒यः॒ ।
9. आयु॑षि । ए॒व । इ॒न्द्रि॒ये ।
आयु॑ष्ये॒ वै वायु॒ष्यायु॑-ष्ये॒वेन्द्रि॒य इ॑न्द्रि॒य ए॒वायु॒ष्यायु॑-ष्ये॒वेन्द्रि॒ये ।
10. ए॒व । इ॒न्द्रि॒ये । (प्रति॑) ।
ए॒वेन्द्रि॒य इ॑न्द्रि॒य ए॒वैवेन्द्रि॒ये प्रति॒ प्रती᳚न्द्रि॒य ए॒वैवेन्द्रि॒ये प्रति॑ ।
11. इ॒न्द्रि॒ये । (प्रति॑) । ति॒ष्ठ॒ति॒ ।
इ॒न्द्रि॒ये प्रति॒ प्रती᳚न्द्रि॒य इ॑न्द्रि॒ये प्रति॑तिष्ठति तिष्ठति॒ प्रती᳚न्द्रि॒य
इ॑न्द्रि॒ये प्रति॑तिष्ठति ।
12. (प्रति॑) । ति॒ष्ठ॒ति॒ ।
प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑तिष्ठति ।
13. ति॒ष्ठ॒ति॒ ।
ति॒ष्ठ॒तीति॑ तिष्ठति ॥
वाक्यं - वै प्र॒जाः प्र॒जास्वेवायु॑र् दधाति ॥
पदम् - वै । प्र॒जा इति॑ प्र - जाः (प्र॒जाः) ।
प्र॒जास्विति॑ प्र - जासु॑ (प्र॒जासु॑) । ए॒व । आयुः॑ । द॒धा॒ति॒ ॥
1. वै । (प्र॒जाः) । (प्र॒जासु॑) ।
वै प्र॒जाः प्र॒जा वै वै प्र॒जाः प्र॒जासु॑ प्र॒जासु॑ प्र॒जा वै
वै प्र॒जाः प्र॒जासु॑ ।
2. (प्र॒जाः) । (प्र॒जासु॑) । ए॒व ।
प्र॒जाः प्र॒जासु॑ प्र॒जासु॑ प्र॒जाः प्र॒जाः प्र॒जास्वे॒वै व प्र॒जासु॑ प्र॒जाः प्र॒जाः प्र॒जास्वे॒व ।
3. (प्र॒जाः) ।
प्र॒जा इति॑ प्र - जाः ।
4. (प्र॒जासु॑) । ए॒व । आयुः॑ ।
प्र॒जास्वे॒वै व प्र॒जासु॑ प्र॒जास्वे॒-वायु॒रायु॑रे॒व प्र॒जासु॑ प्र॒जास्वे॒वायुः॑ ।
5. (प्र॒जासु॑) ।
प्र॒जास्विति॑ प्र - जासु॑ ।
6. ए॒व । आयुः॑ । द॒धा॒ति॒ ॥
ए॒वायु॒राय॑रे॒वै वायु॑र् दधाति दधा॒त्यायु॑रे॒वै वायु॑र् दधाति ।
7. आयुः॑ । द॒धा॒ति॒ ॥
आयुर्॑ दधाति दधा॒त्यायु॒रायु॑र् दधाति ।
8. द॒धा॒ति॒ ॥
द॒धा॒तीति॑ दधाति ॥
38. आशीर्वाद मन्त्राः
These Asheervada Mantras are not continuous Mantras, (and not appearing one after the Other), in Veda Texts but are consolidated from various places. For convenience purpose, these Mantras are given in a serial Order as they are normally chanted. The order of chanting may vary and the student needs to follow that order as is chanted in that function.
No Ref available for 1, Ref TS 5.4.12.3 for 2 / TB 3.1.2.1 for 3 / TS 2.4.14.1 for 4 / TB 1.3.7.8 fof 5 / RV 10.85.33 / EAK 1.9.5 for 6 / RV 10.85.45 / EAK 1.4.6 for 7 / R V 5.25.5 for 8 / TB 3.10.1.1 for 9 /
TS 7.5.18.1 for 10 / TB 3.8.5.3 for 11 / TA. 2.5.1 for 12 / TB 3.12.5.5 for 13.
न तत्र सूर्यो भाति न च॑न्द्रता॒र॒कं॒॒ नेमा विद्युतो भान्ति कुतो॑य म॒ग्निः ।
तमेव भान्त मनु भा॑ति स॒र्वं॒ तस्य भासा सर्वमिदं॑ विभा॒ति ॥ 1
पर्या᳚प्त्या॒ अन॑न्तरायाय॒ सर्व॑स्थो-मोति रा॒त्र उ॑त्त॒म मह॑र्भवति॒ (मह॑द्भवति) सर्व॒स्याप्त्यै॒ सर्व॑स्य॒ जित्यै॒ सर्व॑मे॒व तेना᳚प्नोति॒ सर्वं॑ जयति ॥ 2
ऋ॒द्ध्यास्म॑ ह॒व्यैर्-नम॑सोप॒ सद्य॑ । मि॒त्रं दे॒वं मि॑त्र॒धेय॑न्नो अस्तु ।
अ॒नु॒रा॒धान्. ह॒विषा॑ व॒द्र्धय॑न्तः । श॒तञ्ज॑वेम श॒रद॒-स्सवी॑राः ॥ 3
नवो॑नवो भवति॒ जाय॑मा॒नोऽह्ना᳚ङ्के॒तु-रु॒षसा॑ मे॒त्यग्रे᳚ ।
भा॒गं दे॒वेभ्यो॒ विद॑धा-त्या॒यन् प्र च॒न्द्रमा᳚-स्थिरति दी॒र्घमायुः॑ ॥ 4
श॒तमा॑नं भवति श॒तायुः॒ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ॥ 5
सु॒म॒ङ्ग॒लीरि॒यं व॒धू॒रि॒माꣳ स॑मेत॒ पश्य॑त ।
सौभा᳚ग्य म॒स्यै द॒त्वा याथास्तं॒ विपरे॑तन ॥ 6
इ॒माम् त्वमि॑न्द्र मीड्व स्सुपु॒त्राꣳ सु॒भगां᳚ कुरु ।
दशा᳚स्यां पु॒त्राना धे॑हि॒ पति॑मेका द॒शं कृ॑धि ॥ 7
य॒शस्क॑रं॒ बला॑वन्तं प्र॒भुत्वं᳚ तमे॒व रा᳚जाधि॒ पति॑-र्बभूव ।
सङ्की᳚र्ण नागाश्व॒पति॑र् नराणां सुम॒ङ्गल्यं᳚ सततं दी॒र्घमायुः॑ ॥ 8
सं॒ज्ञानं॑ ँवि॒ज्ञानं॑ प्र॒ज्ञानं॑ जा॒नद॑भि जा॒नत् ।
स॒ङ्कल्प॑मानं प्र॒कल्प॑मान-मुप॒कल्प॑मान॒-मुप॑क्लृप्तं क्लृ॒प्तं ।
श्रेयो॒ वसी॑य आ॒यथ् संभू॑तं भू॒तं ।
चि॒त्रः के॒तुः प्र॒भाना॒भान्-थ्सं॒भान् ।
ज्यो॑तिष्मा॒ᳺ॒ स्तेज॑स्वाना॒ तप॒ᳺ॒ स्तप॑न्न भि॒तपन्न्॑ ।
रो॒च॒नो रोच॑मान-श्शोभ॒न-श्शोभ॑मानः क॒ल्याणः॑ ॥ 9
आब्रह्म॑न् ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒माऽस्मिन् रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्य॑-श्शूरो॑ महार॒थो जा॑यतां॒ दोग्ध्री॑ धे॒नुर्- वोडा॑ऽन॒ड्वा ना॒शु- स्सप्तिः॒ पुर॑न्धि॒र्योषा॑ जि॒ष्णू र॑थे॒ष्ठा स्स॒भेयो॒ युवाऽऽस्य यज॑मानस्य वी॒रो जा॑यतां निका॒मेनि॑कामे नः प॒र्जन्यो॑ वर्.षतु फ॒लिन्यो॑ न॒ ओष॑धयः पच्यन्तां ँयोगक्षे॒मो नः॑ कल्पतां ॥ 10
ब॒हु॒ग्वै ब॑ह्व॒श्वायै॑ बह्वजावि॒कायै᳚ । ब॒हु॒व्री॒हि॒य॒वायै॑ बहुमाषति॒लायै᳚ ।
ब॒हु॒हि॒र॒ण्यायै॑ बहुह॒स्तिका॑यै । ब॒हु॒दा॒स॒पू॒रु॒षायै॑ रयि॒मत्यै॒ पुष्टि॑मत्यै ।
ब॒हु॒रा॒य॒स्पो॒षायै॒ राजा᳚स्तु ॥ 11
आयु॑ष्टे वि॒श्वतो॑ दध द॒य म॒ग्निर्वरे᳚ण्यः ।
पुन॑स्ते प्रा॒ण आया॑ति॒ (Or आय॑ति॒) परा॒यक्ष्मꣳ॑ सुवामिते ।
आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒त प्र॑तीको घृ॒तयो॑ निरेधि ।
घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रम॒भि-र॑क्षतादि॒मं ॥ 12
पु॒रस्ता॒द् दश॑ होतार॒-मुद॑ञ्च॒ -मुप॑दधाति यावत्प॒दं ।
हृद॑यं॒ ँयजु॑षी॒ पत्न्यौ॑ च । द॒क्षि॒ण॒तः प्राञ्च॒-ञ्चतु॑र्. होतारं ।
प॒श्चा-दु॒द॑ञ्चं॒ पञ्च॑ होतारं । उ॒त्त॒र॒तः प्राञ्च॒ꣳ॒ षड्ढो॑तारं ।
उ॒परि॑ष्टा॒त् प्राञ्चꣳ॑ स॒प्त हो॑तारं । हृद॑यं॒ ँयजूꣳ॑षि॒ पत्न्यै॑श्च ।
य॒था॒व॒का॒शं ग्रहान्॑ । य॒था॒व॒का॒शं प्र॑ति ग्र॒हान् ँलो॒कं पृ॒णाश्च॑ ।
सर्वा॑हा स्यै॒ता दे॒वताः᳚ प्री॒ता अ॒भीष्टा॑ भवन्ति ॥ 13
सह॒वै दे॒वानां॒ चासु॑राणां च य॒ज्ञौ प्रत॑ता-वास्तां व॒यᳺ स्व॒र्गं
ँलो॒कमे᳚ष्यामो व॒यमे᳚ष्याम॒ इति॒ तेऽसु॑रा-स्स॒न्नह्य॒ सह॑ सै॒वाच॑रन्
ब्रह्म॒चर्ये॑ण॒ तप॑सै व दे॒वास्ते ऽसु॑रा अमुह्य॒ᳺ॒ स्तेन प्राजा॑न॒ᳺ॒स्ते परा॑भव॒न् तेन स्व॒र्गं ँलो॒क-मा॑य॒न् प्रसृ॑तेन॒ वै य॒ज्ञेन॑ दे॒वाः स्व॒र्गं
ँलो॒क-मा॑य॒न्न प्रसृ॑ते॒ना सु॑रा॒न् परा॑ऽभावय॒न् प्रसृ॑तो ह॒वै
य॑ज्ञोपवी॒तिनो॑ य॒ज्ञो ऽप्र॑सृ॒तो ऽनु॑पवी॒तिनो॒
यत् किञ्च॑ ब्राह्म॒णो य॑ज्ञोपवी॒ -त्यधी॑ते॒ यज॑त ए॒व तत्तस्मा᳚-
ध्यज्ञोपवी॒त्ये॑ वाधी॑यीत या॒जये॒-द्यजे॑तवा य॒ज्ञस्य॒ प्रसृ॑त्या॒ अजि॑नं॒
ँवासो॑ वा दक्षिण॒त उ॑प॒वीय॒ दक्षि॑णं बा॒हु-मुद्ध॑र॒ते ऽव॑धत्ते स॒व्यमिति॑ यज्ञोपवी॒त मे॒त दे॒व विप॑रीतं प्राचीनावी॒तꣳ सं॒ ँवीतं॑ मानु॒षं ॥
रक्षाꣳ॑सि॒ हवा॑ पुरोऽनुवा॒के तपोग्र॑-मतिष्ठन्त॒ तान् प्र॒जाप॑तिर्-
व॒रेणो॒पा म॑न्त्रयत॒ तानि॒ वर॑मवृणी-तादि॒त्यो नो॒ योद्धा॒ इति॒ तान्
प्र॒जाप॑तिर ब्रवी॒द्यो ध॑य॒ध्व-मिति॒ तस्मा॒ दुत्ति॑ष्ठन्त॒ꣳ॒ हवा॒ तानि॒ रक्षाᳺ॑स्या-दि॒त्यं योध॑यन्ति॒ याव॑दस्त॒ मन्व-गा॒त्तानि॑ ह॒वा ए॒तानि॒ रक्षाꣳ॑सि गायत्रि॒याऽभि॑मन्त्रि ते॒नां भ॑सा शा ँम्यन्ति॒ तदु॑ह॒वा ए॒ते ब्र॑ह्मवा॒दिनः॑ पू॒र्वाभि॑मु॒खाः सं॒ध्यायां᳚ गायत्रि॒या ऽभि॑मन्त्रिता॒ आप॑ ऊ॒र्ध्वं ँविक्षि॑पन्ति॒ ता ए॒ता आपो॑ व॒ज्री भू॒त्वा तानि॒ रक्षाꣳ॑सि म॒न्देहाऽरु॑णे द्वी॒पे प्रक्षि॑पन्ति॒ यत् प्र॑दक्षि॒णं प्रक्र॑मन्ति॒ तेन॑ पा॒प्मान॒मव॑ धून्वन्
त्यु॒द्यन्त॑-मस्तं॒ ँयन्त॑ मादि॒त्य म॑भि ध्या॒यन् कु॒र्वन् ब्रा᳚ह्म॒णो वि॒द्वान्-
थ्स॒कलं॑ भ॒द्रम॑श्नुते॒ ऽसावा॑दि॒त्यो ब्र॒ह्मेति॒ ब्रह्मै॒व सन् ब्रह्मा॒प्येति॒
य ए॒वं ँवेद॑ ॥
This is a separate upanishad and is different from “Maha Narayanopanishad”. Atharva Rishi who has seen Lord Narayana has conveyed his direct experience in poetic form through “Narayana Upanishad”. It is also called “Narayana Atharva Sheersham” by Scholars.
(No Definite Source available)
ॐ । स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्वि ना॒वध॑तमस्तु॒ मा वि॑द्विषा॒वहैः᳚ ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ॐ अथ पुरुषो ह वै नारायणोऽ कामयत प्रजाः सृ॑जेये॒ति ।
ना॒रा॒य॒णात् प्रा॑णो जा॒यते । मनः सर्वेन्द्रि॑याणि॒ च ।
खं वायुर्-ज्योति-रापः पृथिवी विश्व॑स्य धा॒रिणी ।
ना॒रा॒य॒णात् ब्र॑ह्मा जा॒यते । ना॒रा॒य॒णात् रु॑द्रो जा॒यते ।
ना॒रा॒य॒णा-दि॑न्द्रो जा॒यते । ना॒रा॒य॒णात् प्रजापतयः प्र॑जाय॒न्ते ।
ना॒रा॒य॒णात् द्वादशा-दित्या रुद्रा वसव-स्सर्वाणि च छ॑न्दा॒ꣳ॒सि ।
ना॒रा॒य॒णादेव समु॑त्-पद्य॒न्ते । ना॒रा॒य॒णे प्र॑वर्त्त॒न्ते । ना॒रा॒य॒णे प्र॑लीय॒न्ते ।
ॐ । अथ नित्यो ना॑राय॒णः । ब्र॒ह्मा ना॑राय॒णः ।
शि॒वश्च॑ नाराय॒णः । श॒क्रश्च॑ नाराय॒णः । द्या॒वा॒-पृ॒थि॒व्यौ च॑ नाराय॒णः ।
का॒लश्च॑ नाराय॒णः । दि॒शश्च॑ नाराय॒णः । ऊ॒र्ध्वश्च॑ नाराय॒णः ।
अ॒धश्च॑ नाराय॒णः । अ॒न्त॒र्ब॒हिश्च॑ नाराय॒णः ।
नारायण एवे॑दꣳ स॒र्वं ॥ यत् भू॒तं यच्च॒ भव्यं᳚ ।
निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको॑ नाराय॒णः ।
न द्वि॒तियो᳚ऽस्ति॒ कश्चि॑त् । य ए॑वं वे॒द ।
स विष्णुरेव भवति स विष्णुरे॑व भ॒वति ।
ओमित्य॑ग्रे व्या॒हरेत् । नम इ॑ति प॒श्चात् ।
ना॒रा॒य॒णाये-त्यु॑परि॒ष्ठात् । ओमि॑त्य॑का॒क्षरं ।
नम इति॑ द्वे अ॒क्षरे । ना॒रा॒य॒णायेति पञ्चा᳚क्षरा॒णि ।
एतद्वै नारयणस्या-ष्ठाक्ष॑रं प॒दं ।
यो ह वै नारयणस्या-ष्ठाक्षरं पद॑-मद्ध्ये॒ति ।
अनपबृव-स्सर्व-मा॑युरे॒ति । विन्दते प्रा॑जापत्यꣳ रायस्पोषं॑ गौप॒त्यं ।
ततोऽमृतत्व-मश्नुते ततोऽमृतत्व-मश्नु॑त इ॒ति । य ए॑वं वे॒द ।
प्रत्यगानन्दं ब्रह्मपुरुषं प्रणव॑ स्वरू॒पं । अकार उकार मका॑र इ॒ति ।
तानेकधा समभरत्त-देत॑दोमि॒ति ।
युमुक्त्वा॑ मुच्य॑ते यो॒गी॒ ज॒न्म॒ संसा॑र-ब॒न्धनात् ।
ॐ नमो नारायणायेति म॑न्त्रोपा॒सकः ।
वैकुण्ठ भुवन-लोकं॑ गमि॒ष्यति ।
तदिदं परं पुण्डरीकं वि॑ज्ञान॒-घनं । तस्मात् तदिदा॑वन् मा॒त्रं ।
ब्रह्मण्यो देव॑कीपु॒त्रो॒ ब्रह्मण्यो म॑धुसू॒दनों । सर्व भूतस्थमेकं॑ नारा॒यणं ।
कारणरूपमकार प॑रब्र॒ह्मों । एतदथर्व शिरो॑योऽधी॒ते ।
प्रा॒तरधी॑या॒नो॒ रात्रिकृतं पापं॑ नाश॒यति ।
सा॒यम॑धीया॒नो॒ दिवसकृतं पापं॑ नाश॒यति ।
माद्ध्यन्दिन-मादित्यभि-मुखो॑ऽधीया॒नः ।
पञ्च-पातको-पपातका᳚त् प्रमु॒च्यते ।
सर्व वेद पारायण पु॑ण्यं ल॒भते ।
नारायण सायुज्य-म॑वाप्नो॒ति॒ नारायण सायुज्य-म॑वाप्नो॒ति ।
य ए॑वं वे॒द । इत्यु॑प॒निष॑त् ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
39. प्रकीर्णाध्यायः
ब्रा॒ह्म॒ण एक॑ होता । सय॒ज्ञः । समे॑ददातु प्र॒जां प॒शून् पुष्टि॒म् ँयशः॑ ।
य॒ज्ञश्च॑ मे भूयात् । 1
अ॒ग्निर्द्वि हो॑ता । सभ॒र्ता । समे॑ददातु प्र॒जां प॒शून् पुष्टिं॒ ँयशः॑ ।
भ॒र्ता च॑ मे भूयात् । 2
पृ॒थि॒वी त्रि हो॑ता । सप्र॑ति॒ष्ठा । समे॑ददातु प्र॒जां प॒शून् पुष्टिं॒ ँयशः॑ ।
प्र॒ति॒ष्ठा च॑ मे भूयात् । 3
अ॒न्तरि॑क्षं॒ चतु॑र्. होता । सवि॒ष्ठाः । समे॑ददातु प्र॒जां प॒शून् पुष्टिं॒ ँयशः॑ । वि॒ष्ठाश्च॑ मे भूयात् । 4
वा॒युः पञ्च॑ होता । सप्रा॒णः । समे॑ददातु प्र॒जां प॒शून् पुष्टिं॒ ँयशः॑ ।
प्रा॒णश्च॑ मे भूयात् । 5
च॒न्द्रमाः॒ षड्ढो॑ता । स ऋ॒तून् क॑ल्पयाति ।
समे॑ददातु प्र॒जां प॒शून् पुष्टिं॒ ँयशः॑ । ऋ॒तव॑श्च मे कल्पन्तां । 6
अन्नꣳ॑ स॒प्तहो॑ता । सप्रा॒णस्य॑ प्रा॒णः ।
समे॑ददातु प्र॒जां प॒शून् पुष्टिं॒ ँयशः॑ ।
प्रा॒णस्य॑ च मे प्रा॒णो भू॑यात् । 7
द्यौर॒ष्ट हो॑ता । सो॑ऽनाधृ॒ष्यः । समे॑ददातु प्र॒जां प॒शून् पुष्टिं॒ ँयशः॑ ।
अ॒ना॒धृ॒ष्यश्च॑ भूयासं । 8
आ॒दि॒त्यो नव॑ होता । स ते॑ज॒स्वी ।
समे॑ददातु प्र॒जां प॒शून् पुष्टिं॒ ँयशः॑। ते॒ज॒स्वी च॑ भूयासं । 9
प्र॒जाप॑ति॒र् दश॑ होता । स इ॒दꣳ सर्वं᳚ ।
समे॑ददातु प्र॒जां प॒शून् पुष्टिं॒ ँयशः॑ । सर्व॑ञ्च मे भूयात् । 10
The Following Mantra is not a part of brAqhmaqNa Eka# hota ; however during Rudra-Ekadasinis etc the following Mantra is chanted as 11th “upachaara Mantram” after the above 10 Mantras.
हिरण्यपा॒त्रं मधोः᳚ पू॒र्णं द॒दाति । म॒दव्यो॑ सा॒नीति॑ ।
एक॒दा ब्र॒ह्मण॒ उप॑हरति । ए॒कदैव॒ यज॑मान॒ आयु॒स्तेजो॑ ददाति ॥ 11
नमः॒ प्राच्यै॑ दि॒शेयाश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒,
नमो दक्षि॑णायै दि॒शेयाश्च॑ दे॒वता॑ ए॒तस्यां॒-प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒ ,
नमः॒ प्रती᳚च्यै दि॒शेयाश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒
नम॒ उदी᳚च्यै दि॒शेयाश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒
नम॑ ऊ॒द्र्ध्वायै॑ दि॒शेयाश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒
नमो ऽध॑रायै दि॒शेयाश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒
नमो॑ ऽवान्त॒रायै॑ दि॒शेयाश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒ ,
नमो गंगा यमुनयोर् मद्ध्ये ये॑ वस॒न्ति॒ ,
ते मे प्रसन्नात्मा-नश्चिरं जीवितं व॑र्धय॒न्ति॒ ,
नमो गंगा यमुनयोर् मुनि॑भ्यश्च॒ नमो॒ ,
नमो गंगा यमुनयोर् मुनि॑भ्यश्च॒ नमः ॥
40. ऐक मत्य सूक्तं RV 10.12.191 / To bE chanted as per Rig Vedic Sruti
ॐ । संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा᳚न्य॒र्य आ ।
इळ॒स्पदे॒ समि॑द्ध्यसे॒ स नो॒ वसू॒न्या भ॑र ॥ 1
सं ग॑च्छद्ध्वं॒ सं व॑दद्ध्वं॒ सं वो॒ मनां᳚सि जानतां ।
दे॒वा भा॒गं यथा॒ पूर्वे᳚ संजाना॒ना उ॒पास॑ते ॥ 2
स॒मा॒नो मन्त्र॒-स्समि॑ति-स्समा॒नी स॑मा॒नं मन॑स्स॒ह चि॒त्तमे᳚षां ।
स॒मा॒नं मन्त्र॑म॒भि म᳚न्त्रये वस्समा॒नेन॑ वो ह॒विषा᳚ जुहोमि ॥ 3
स॒मा॒नी व॒ आकू᳚ति-स्समा॒ना हृद॑यानि वः ।
स॒मा॒नम॑स्तु वो॒ मनो॒ यथा᳚ व॒-स्सुस॒हास॑ति ॥ 4
ऐक मत्यसूक्तं समाप्तं-----